"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२४" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ५: पङ्क्तिः ५:
च कालेन खराजधानीं प्रत्यागमनम् ॥
च कालेन खराजधानीं प्रत्यागमनम् ॥


{{gap}}पञ्चमे तु गृध्रेण सङ्गममणिहरणम् , कुमारेणायुषा तन्मारणम् , कुतो मे तनयः, तस्य गोपने च को वा हेतुरिति राज्ञो विकल्पनम् , जातमात्रस्यैव सत्यवतीहस्ते उर्वश्या न्यासीकृतस्य च्यवनेन महर्षिणा निर्वृत्तक्षात्रोचितसंस्कारस्य, गृहीतधनुर्वेदविद्यस्य कुमारस्यायुषः गृध्रवधरूपाश्रमानौचित्यकारित्वात् तापसीवेषधारिण्या सत्यवत्याऽऽनयनम् , तस्य च पित्रा परिचयः, तद्दर्शनप्रमुदितेन राज्ञा समाहूताया उर्वश्या आदौ पुत्रावाप्त्या प्रमोदः, विसर्जितायां तु सत्यवत्याम् “आपुत्रदर्शनं मे वयस्येन सह यथाकामं त्वयोषितव्यमिति" महेन्द्रकृतनियमस्य स्मरणेन विषादः, कृतप्रश्नाय राज्ञे विषादहेतोः प्रख्यापनम् , तस्मिन्नेव समये कुमारस्य राज्याभिषेकनिश्चयः, वनप्रस्थानाय कृतचेतसि राजनि नारदेनागत्य “सुरासुरविमर्दो भावी, भवान्मे समरसहायः सखा, न त्वया शस्त्राणि परित्यक्तव्यानि, इयं चोर्वशी यावदायुस्ते सहधर्मचारिणी भवतु" इति महेन्द्रसंदेशस्य कथनम् , राजोर्वश्योः विप्रयोगभीतयोः समाश्वासनम् नारदेन कुमारस्यायुषो यौवराज्येऽभिषेकः । तत्पश्चात् सर्वस्मिन् सुसम्पने देवर्षिः नारदः राज्ञः किमपरं प्रियं कर्तुं शक्यते इत्यनुयुज्य राज्ञः प्रार्थितां समेषां जनानां सुखसम्पत्तिं आशिषा आशंसति । एवं राजा पुरूरवाः उर्वश्या सह ससुखं वार्धक्योचितशान्तिपरायणकार्यव्यापृतः सन् शेषं वयोऽयापयत् इति ॥
{{gap}}पञ्चमे तु गृध्रेण सङ्गममणिहरणम् , कुमारेणायुषा तन्मारणम् , कुतो मे तनयः, तस्य गोपने च को वा हेतुरिति राज्ञो विकल्पनम् , जातमात्रस्यैव सत्यवतीहस्ते उर्वश्या न्यासीकृतस्य च्यवनेन महर्षिणा निर्वृत्तक्षात्रोचितसंस्कारस्य, गृहीतधनुर्वेदविद्यस्य कुमारस्यायुषः गृध्रवधरूपाश्रमानौचित्यकारित्वात् तापसीवेषधारिण्या सत्यवत्याऽऽनयनम् , तस्य च पित्रा परिचयः, तद्दर्शनप्रमुदितेन राज्ञा समाहूताया उर्वश्या आदौ पुत्रावाप्त्या प्रमोदः, विसर्जितायां तु सत्यवत्याम् “आपुत्रदर्शनं मे वयस्येन सह यथाकामं त्वयोषितव्यमिति" महेन्द्रकृतनियमस्य स्मरणेन विषादः, कृतप्रश्नाय राज्ञे विषादहेतोः प्रख्यापनम् , तस्मिन्नेव समये कुमारस्य राज्याभिषेकनिश्चयः, वनप्रस्थानाय कृतचेतसि राजनि नारदेनागत्य “सुरासुरविमर्दो भावी, भवान्मे समरसहायः सखा, न त्वया शस्त्राणि परित्यक्तव्यानि, इयं चोर्वशी यावदायुस्ते सहधर्मचारिणी भवतु" इति महेन्द्रसंदेशस्य कथनम् , राजोर्वश्योः विप्रयोगभीतयोः समाश्वासनम् नारदेन कुमारस्यायुषो यौवराज्येऽभिषेकः । तत्पश्चात् सर्वस्मिन् सुसम्पन्ने देवर्षिः नारदः राज्ञः किमपरं प्रियं कर्तुं शक्यते इत्यनुयुज्य राज्ञः प्रार्थितां समेषां जनानां सुखसम्पत्तिं आशिषा आशंसति । एवं राजा पुरूरवाः उर्वश्या सह ससुखं वार्धक्योचितशान्तिपरायणकार्यव्यापृतः सन् शेषं वयोऽयापयत् इति ॥
{{rule|5em}}
{{rule|5em}}