"ऋग्वेदः सूक्तं १०.१५५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८८:
हताः । इन्द्रस्य । शत्रवः । सर्वे । बुद्बुदऽयाशवः ॥४
 
हे “मण्डूरधाणिकीः मण्डूरवत् कुत्सितशब्दकारिण्यो मन्दनस्य धनस्य धारयित्र्यो वालक्ष्म्यः उरः ।। उर्वी हिंसार्थः । अस्मात्क्विपि ' राल्लोपः ' इति वलोपः । ततो जसि रूपमेतत् ।। हिंसित्र्यो यूयं “प्राची प्रकर्षेणाञ्चन्त्यः प्रकृष्टगमनाः सत्यो “यद्ध यदा खलु “अजगन्त अगच्छत ।। गमेर्लङि मध्यमबहुवचने छान्दसः शपः श्लुः । ' तप्तनप्तनथनाश्च ' इति तस्य तबादेशः । अत एव ङित्त्वाभावादनुनासिकलोपो न भवति ।। तदानीमेव “सर्वे “इन्द्रस्य “शत्रवः “बुद्बुदयाशयः“बुद्बुदयाशवः । यान्ति गच्छन्तीति याः । अश्नुवत इत्याशवः । याश्च त आशवश्च याशवः । बुद्बुदवद्यातारो व्यापनशीलाश्च सन्तः “हताः नष्टा आसन् ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५५" इत्यस्माद् प्रतिप्राप्तम्