"ऋग्वेदः सूक्तं ३.३३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३७:
मा । अदुःऽकृतौ । विऽएनसा । अघ्न्यौ। शूनं । आ । अरतां ॥१३॥
 
पूर्वमुत्तितीषुर्विश्वामित्रो नदीरुक्त्वाधुनोत्तितीर्घःनदीरुक्त्वाधुनोत्तितीर्षुः पुनराह । हे नद्यो "वो युष्माकमूर्मितरंगःयुष्माक् "ऊर्मिः तरंगः शम्या युगकीला युग्यकटपार्श्वादिसंलग्नायुग्यकण्ठपार्श्वादिसंलग्ना रज्जव उदूर्ध्वं यथा भवंति तथा हंतु । गच्छतु । स तरंगो रज्जूनामधो गच्छत्वित्यभिप्रायः। तथा हे आपो यूयं योक्त्राणि ता रज्जूर्मुंचत । यथा न स्पृशंति तथा यांत्वित्यभिप्रायः । व्येनसा विगतपापे अत एवादुष्कृतौ कल्याणकर्मकारिण्यौ अघ्न्यावघ्न्ये न केनापि तिरस्करणीये विपाट्छुतुद्र्यौ शूनं समृद्धिं मारतां । आगच्छतां। एवं विश्वामित्रो नदीः स्तुत्वा ताभिरनुज्ञातोऽतरदिति ॥ ऊर्मिः। ऋ गतौ। अर्तेरूच्चेति मिप्रत्ययः । ऊरित्ययमादेशो धातोः । ऋच्छतीत्यूर्मिः । प्रत्ययस्वरः । शम्याः । शमु उपशमे ।। पोरदुपधादिति यत्प्रत्ययः। यतोऽनाव इत्याद्युदात्तत्वं । हंतु । हन हिंसागत्योरित्यस्य लोटि रूपं । निघातः । योक्त्राणि । युजिर योगे । करणे दाम्नीशसयुयुजेत्यादिना द्रन्प्रत्ययः । नित्स्वरः । मुंचत । मुच्लृ मोक्षणे । निघातः । अदुष्कृतौ । इसुसोः सामर्थ्य इति विसर्जनीयस्य षत्वं । व्येनसा । बहुव्रीहौ पूर्वपदस्वरः। सुपो डादेशः । अघ्न्यौ । हन हिंसागत्योरित्यस्य नञ्पूर्वस्याघ्न्यादयश्चेति निपातनाद्यक्। कित्त्वादुपधालोपः । हो हंतेरिति घत्वं । सर्वविधीनां छंदसि विकल्पितत्वादत्रौङः शीभावाभावः। एकादेशस्वरः। शूनं। श्वयतेर्नपुंसके भावे क्त इति क्तः । यजादित्वात्संप्रसारणं । हल इति दीर्घत्वं । ओदितश्चेति निष्ठानत्वं । निष्ठा च द्व्यजनादित्याद्युदात्तः । अरतां । ऋ गतावित्यस्य लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्चेत्यङादेशः । ऋदृशोऽङि गुणः । न माङ्योग इत्यडभावः । निघातः ॥ ॥१४॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३३" इत्यस्माद् प्रतिप्राप्तम्