"कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८९:
सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीः श्रेयसीर्दधत् । अग्ने सपत्नाꣳ अपबाधमानो रायस्पोषमिषमूर्जमस्मामु धेहीत्याहितं गार्हपत्यमुपतिष्ठत इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति मध्यदेशे ह्रियमाणमभिमन्त्रयते समयार्धे वरं ददात्यानशे व्यानशे सर्वमायुर्व्यानश इत्याहितमाहवनीयमुपतिष्ठते।
ये ते अग्ने शिवे तनुवौ विराट्च स्वराट्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ सम्राट्चाभिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते मा जिन्वतां ये ते अग्ने शिवे तनुवौ प्रभ्वी च मभूतिश्च ते मा विशतां ते मा जिन्वतां यास्ते अग्ने शिवास्तनुवस्ताभिस्त्वा दध इति शिवाभिस्तनूभिराहितमाहवनीयमुपतिष्ठते स्निक्च स्नीहितिश्च स्निहितिश्च सदाम्नी चामतिश्चानाहुतिश्च निर्ऋतिरेतास्ते अग्ने घोरास्तनुवोऽमर्त्यो मर्त्यस्तान्गच्छन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति पुरस्तात्पूर्णाहुतेर्घोराभिरुपतिष्ठते पूर्णाहुतौ वरं ददात्युपरिष्टात्पूर्णाहुतेः शिवाभिरुपस्थाय ।
विराजक्रमैरुपतिष्ठतेऽथर्वपितुं मे गोपायान्नं प्राणेन संमितम् । त्वया गुप्ता इषमूर्जं मदन्तः शतं जीवेम शरदः सवीरा इति दक्षिणाग्निं नर्य प्रजां मे गोपाय मूलं लोकस्य संततिम् । आत्मनो हृदयान्निर्मितां ता ते परिददाम्यहमिति गार्हपत्यꣳ शꣳस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दं ताꣳस्ते परिददाम्यहमित्याहवनीयꣳ सप्रथसभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति स प्रथ सभां मे गोपाय ये च सभ्याः सभासदः। तानिन्द्रियावतः कुरु सर्वमायुरुपासतामिति सभ्यमहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियै यशः परिददाम्यहमित्यावसथ्यं पञ्चधाऽनीन्व्यक्रामद्विराट्सृष्टापञ्चधाऽग्नीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः ।
ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान् ।
यत्रास्मै ॥ १६ ।। शतमक्षान्प्रयच्छति तेषु कृतं विजित्य सभासद्भ्यः प्रयच्छति ते यज्जयन्ति तदुभयमन्नꣳ सꣳस्कृत्य ब्राह्मणान्भोजयति ।