"लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १६०" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीपुरुषोत्तम उवाच-
अथाऽऽययौ हिमाद्रिर्वै पूजार्थं परमात्मनः ।
सौवर्णं बहुधा धृत्वा स्थालेषु स्वर्णकाग्निषु ।। १ ।।
राजतेषु च पात्रेषु विद्रुमानुत्तमान् मणीन् ।
माणिक्याख्यान् मणींश्चापि पद्मरागमणींस्तथा ।। २ ।।
वज्रमणीन्मारकतान्नीलमणीन्महोज्ज्वलाम् ।
वैदूर्याख्यमणींश्चापि भृत्वा स्थालेषु चाययौ ।। ३ ।।
जातरूपप्रणद्धाँश्च वज्रमणींस्तथा परान् ।
शुक्तिसंख्यान्मारकतानिन्द्रनीलान्महोज्ज्वलान् ।। ४ ।।
कर्कोटकान् सूर्यकान्ताँश्चन्द्रकान्तान् स्यमन्तकान् ।
स्फटिकान् गोमेदकाँश्च धूलीमरकताँस्तथा ।। ५ ।।
राजमणीन् ब्रह्ममणीन् मुक्ताफलानि चानयत् ।
अपूजयद्धरिं नारायणं कृष्णं परेश्वरम् ।। ६ ।।
मणीनां मालिकाहारान् रत्नानां मालिका ददौ ।
हीरकाणां ददौ हारान् मौक्तिकानां ददौ तथा ।। ७ ।।
चन्दनाऽक्षतपुष्पाद्यैरारार्त्रिकादिभिर्हरिम् ।
अपूजयद्धिमशैलो मेना सतीरपूजयत् ।।८ ।।
एवं पूजोत्तरं चाद्रिर्निन्ये मेनालयं शुभम् ।
क्रोशाधिकपरिमाणं सरोवरेण राजितम् ।। ९ ।।
समन्तात् सरसस्तस्य सोपानानि सुभान्ति वै ।
सौवर्णैः राजतैर्वृक्षैर्द्रुमैर्युतानि चाभितः ।। 3.160.१ ०।।
नानामाणिक्यकुसुमैः सुप्रभाभरणोज्ज्वलैः ।
पत्रैर्मरकतैर्नीलवैदूर्यच्छदकैस्तथा ।। ११ ।।
तत्र सरसि पद्मानि पद्मरागच्छदानि वै ।
वज्रकेसरजालानि सुगन्धीनि विभान्ति वै ।। १२।।
मारकतानि पत्राणि नीलवैदूर्यकर्णिकाः ।
शोभन्ते वल्लिकादेहे महाश्चर्यकराणि वै ।।१ ३।।
सरोवरस्य या भूमिर्दिव्या नैसर्गकोमला ।
नानारत्नैरुपचिता जलजानां समाश्रया ।।१४।।
कपर्दिकानां शुक्तीनां शंखानां समुपाश्रया ।
मकराणां च मत्स्यानां चण्डानां कच्छपैः सह ।। १५।।
मारकतैरसंख्यैश्च शोभिता वज्रकोटिभिः ।
पद्मरागेन्द्रनीलैश्च महानीलैश्च शोभिता ।। १ ६।।
पुष्परागैः कोटिभिश्च कर्कोटकैरनन्तकैः ।
राजावर्तैस्तुत्थखण्डै रुचिराक्षैश्च कोटिभिः ।। १७।।
सूर्येन्दुकान्तकोट्याद्यैनींलैर्वर्णान्तिमैस्तथा ।
ज्योतीरसैः स्फटिकैश्च स्यमन्तकैर्वलक्षकैः ।। १८।।
गोमेदपित्तकैश्चापि धूलीमरकतैस्तथा ।
प्रराजमणिभिश्चापि वैदूर्यगन्धिभिर्युता ।।१९।।
मुक्ताफलैस्तथा ब्रह्ममणिभिर्मौक्तिकैर्युता ।
एतादृशी क्षितिः सौम्या सरसः परितोऽभवत् ।।3.160.२०।।
सुखोष्णं च सरस्तोयं स्नानाच्छैत्यविनाशकम् ।
तस्योदकं बहु स्वादु लघुशीतं सुगन्धिकम् ।।२१ ।।
न क्षिणोति यथा कण्ठं कुक्षिं नाऽऽपूरयत्यपि ।
तृप्तिं विधत्ते परमां शरीरे च महत् सुखम् ।।२२।।
जलमध्येऽभवछ्रेष्ठः प्रासादो रुक्मभित्तिजः ।
सर्वरत्नमयश्चन्द्रकान्तिकान्तितभूस्तरः ।।२३।।
रम्यवैदूर्यसोपानो विद्रुमाऽमलसारकः ।
इन्द्रनीलमहास्तम्भो मरकतोत्थवेदिकः ।।२४।।
वज्रांशुजालैः स्फुरितो रम्यो दृष्टिमनोहरः ।
प्रासादे तादृशे मेनकया पूजार्थमच्युतः ।।२५।।
नित्यं संरक्षितश्चास्ते भक्तेच्छाधीनमाधवः ।
भोगिभोगावलिसुप्तः सर्वालंकारभूषितः ।।२६।।
जान्वा तु कुञ्चितस्त्वेकः पादः श्रीस्वामिनस्तथा ।
फणीन्द्रसन्निविष्टोऽङ्घ्रिद्वितीयश्च परात्मनः ।।२७।।
लक्ष्म्युत्संगगतोऽङ्घ्रिश्च शेषभोगप्रशायिनः ।
फणीन्द्रभोगसन्न्यस्तबाहुः केयूरभूषणः ।।२८।।
अङ्गुलिपृष्ठविन्यस्तस्वशीर्षध्रैकहस्तकः ।
जानुस्थमणिबन्धाऽऽकुञ्चितलम्ब्यन्यहस्तकः ।।२९।।
किञ्चिदाकुञ्चितनाभिदेशहस्ततृतीयकः ।
आत्तगुच्छघ्राणदेशस्थितचतुर्थहस्तकः ।।3.160.३०।।
लक्ष्म्या संवाह्यमानांऽघ्रिः पद्मपत्रनिभैः करैः ।
सन्तानमालामुकुटो हारकेयूरभूषितः ।।३ १ ।।
भूषितश्च विभूषाभिरङ्गदैरंगुलीयकैः ।
फणीन्द्रफणविन्यस्तचारुरत्नशिरोज्ज्वलः ।।३२।।
अज्ञातवस्तुचरितः प्रतिष्ठितो हिमाद्रिणा ।
मेनानुपूज्यः सततं सन्तानकुसुमार्चितः ।।३३।।
दिव्यगन्धानुलिप्तांगो दिव्यधूपेन धूपितः ।
सुरसैः सुफलैर्हृद्यैश्चामृतैः पायसादिभिः ।।३४।।
भोजितो मेनकादेव्या सुप्तश्चोत्पलशीर्षकः ।
शोभितोत्तमपार्श्वश्च सर्वाभिर्दृष्ट एव सः ।।३५।।
अनादिश्रीकृष्णनारायणेन वीक्षितो हरिः ।
मूर्तिमयोऽपि भगवान् दिव्यश्चोत्थाय सन्निधौ ।।३६।।
नत्वा हृदये चाश्लिष्य ववन्दे पुरुषोत्तमम् ।
अनादिश्रीहरिः कृष्णनारायणो जगद्गुरुः ।।३७।।
अवतारगुरुर्व्यूहगुरुश्चांशगुरुः स्वयम् ।
नारायणानां सर्वेषां गुरुर्मद्गृहमागतः ।।३८।।
धन्योऽस्मि कृतकृत्योऽस्मीत्युक्त्वा पुपूज कारणम् ।
पूजां कृत्वाऽभवत्तत्राऽदृश्यो मूर्तौ भुजङ्गमः ।।३९।।
परमेशस्ततोऽप्यग्रे हिमाद्रेर्भवनं ययौ ।
सर्वरत्नमयं दिव्यप्रभायुक्तं समृद्धिकम् ।।3.160.४०।।
सर्वोपस्करसंयुक्तं सर्वभोज्यसमन्वितम् ।
सर्वपेययुतं दिव्यं कोमलासनशोभितम् ।।४१ ।।
सर्वसुगन्धसंव्याप्तं - कल्पलताभिशोभितम् ।
सर्वकामप्रदं दासदासीकोटिसमन्वितम् ।।४२।।
स्वर्णहीरकरत्नानां सिंहासनेन राजितम् ।
तस्मिन्न्यषादयत्कृष्णनारायणं हि मेनका ।।४३।।
पुपूज परया प्रीत्याऽऽरार्त्रिकं प्रचकार च ।
हरिस्तत्राऽमृतभोज्यं गृहीत्वा चोपदादिकम् ।।४४।।
पावयित्वाऽऽलयं चाऽद्रेस्त्वाज्ञयाऽग्रेऽम्बरे ययौ ।
विमानेन द्रुतं प्राप केदारं शिखरं शुभम् ।।४५।।
केदारेशो महादेवः श्रीपतेः पुरतोऽभवत् ।
पुपूज परमात्मानं ब्रह्मप्रियादिसंयुतम् ।।४६।।
बहुरत्नादिभिश्चापि फलपुष्पादिभिस्तथा ।
लब्ध्वा पूजां हरिश्चाग्रे ययौ कैलासपर्वतम् ।।४७।।
त्रिपुरारिसेवितं च कल्पद्रुमसमन्वितम् ।
शंकरः सर्वगणयुक् सतीयुग् वीक्ष्य माधवम् ।।४८।।
समीपे चाऽऽजगामाऽपि पुपूज परमेश्वरम् ।
कुबेरो गुह्यकैः साकं पुपूज श्रीपतिं हरिम् ।।४९।।
सर्वरत्नैः फलपुष्पैः प्राप्य पूजां हरिस्ततः ।
सौगन्धिकं गिरिं वीक्ष्य सुवेलं पर्वतं तथा ।।3.160.५०।।
चन्द्रप्रभं गिरिं चापि दिव्यमच्छोदकं सरः ।
चैत्ररथं वनं वीक्ष्य सर्वौषधिं गिरिं तथा ।।५१ ।।
दिव्यारण्यं विशोकाख्यं वीक्ष्य ककुद्मिनं गिरिम् ।
वैद्युतं च गिरिं वीक्ष्य वैभ्राजं च वनं ततः ।।५२।।
अरुणं पर्वतं वीक्ष्य शैलोदं च सरस्ततः ।
गौरं तु पर्वतं वीक्ष्य सरः काञ्चनवालुकम् ।।५३।।
राजतं भ्राजमानं वै हिमाद्रिं भूमिमण्डलम् ।
ऊर्ध्वं चाब्भ्रसमुद्रं वै वीक्षमाणाः पुरो ययुः ।।५४।। -
पर्वतानां श्रेणिकाश्च दृष्ट्वा श्रीमानसं सरः ।
व्यलोकयन् विमानस्था कृष्णपत्न्यः सुहर्षिताः ।।५५।।
कृष्णेन साकं तत्तीरे चावतेरुः समन्ततः ।
स्रस्नुस्ताः स्वामिना साकं चक्रुश्च जलखेलनम् ।।५६।।
स्नपयन्ति स्नापयन्ति समाश्लिष्यन्ति माधवम् ।
हर्षयन्ति मोदयन्ति स्नान्ति मोदन्त इत्यपि ।।५७।।
आनन्दयन्ति कान्तं श्रीहरिणा हृदि संधृताः ।
आनन्दिताः कान्तमय्यो रञ्जयन्ति प्रियं स्त्रियः ।।५८।।
पतिं विविधचेष्टाभी रञ्जयन्ति तदङ्गनाः ।
कमलानि समादाय कान्ते ता योजयन्ति वै ।।५९।।
काश्चिदाताडयन् कान्तमुदकैः करताडितैः ।
ताड्यमानाश्च कान्तेन प्रीतिमत्योऽभवँस्तदा ।।3.160.६० ।।
अदृश्यन्त तदा लक्ष्म्यः श्वासनृत्यत्पयोधराः ।
कान्ताम्बुताडनोच्छीर्णकेशपाशनिबन्धनाः ।।६१ ।।
स्नाताः शीतापदेशेन काश्चित्कान्तं समाश्लिषत् ।
एवं कान्तं रामयित्वा रमयित्वा ततः स्त्रियः ।।६२।।
निर्ययुर्मण्डयन्ति स्म गात्राणि तटमास्थिताः ।
शृंगारयन्ति गात्राणि भूषयन्ति विभूषणैः ।।६३।।
सज्जा भूत्वा विमानस्था बभूवुः पतिवाञ्च्छया ।
विमानेन ततः सर्वा धवलं गिरिमाययुः ।।६४।।
ततश्च वनशोभाढ्यं हनुमत्पर्वतं ययुः ।
हनूमता पूजितश्च श्रीपतिः पुरुषोत्तमः ।।६५।।
लक्ष्म्या सम्पूजितश्चापि हनूमान् तपसः स्थितौ ।
सहायकृत् पर्वतेऽपि पुरा रक्षाकरः कपिः ।।६६।।
ततो विमानमार्गेण ययुर्गगां तु काञ्चनीम् ।
जलानि तत्र पीत्वैव शिवेश्वरपुरीं ययुः ।।६७।।
वाराणसीं महाश्रेष्ठां पावनीं वरणान्विताम् ।
गंगां सुशोभनां प्राप्य दृष्ट्वा विश्वेश्वरं शिवम् ।
विश्वेश्वरगृहे सर्वा रात्रिं निन्युः सुखान्विताम् ।।६८।।
शंकरेण तु कृष्णस्य सम्मानं बहुधा कृतम् ।
भोजनाच्छादनाद्यैश्च पानैः संवाहनादिभिः ।।६९।।
शयनैः सुखभोगाद्यैः प्रसादितः परेश्वर ।
वैकुण्डसदृशे हर्म्ये रात्रिं निनाय माधवः ।।3.160.७०।।
पूजां प्राप्य भोजनादि कृत्वा विदायमालभत् ।
विमानेन द्रुतं विन्ध्याचलं वीक्ष्य ततः परम् ।।७१ ।।
सप्तपुटं पर्वतं च भृगुकच्छं श्रियाः पुरम् ।
गोपनाथं ततो वीक्ष्य निजां लोमशभूमिकाम् ।।७२।।
नगरीमाययुः सर्वा विश्रान्तिमापुरुत्तमाम् ।
अथ सायं स्थिताः स्वामिनाथस्य पुरतः स्त्रियः ।।७३।।
भोजनादि विधायैव पप्रच्छुः परमेश्वरम् ।
रत्नानीमानि सर्वाणि हीरकादीनि केशव ।।७४।।
कदा कस्मात् प्रजातानि हिमालयाऽर्पितानि वै ।
भौतिकानि हि सर्वाणि न तु दिव्यानि सन्ति वै ।।७५।।
कौस्तुभादेर्लेशमात्रदिव्यतैतेषु नास्ति यत् ।
मणिरत्नकथां श्रोतुमिच्छामहे वयं प्रभो ।।७६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने हिमाद्रिकृतपूजां प्रगृह्य केदारकैलासमानसरोहनूमत्पर्वतकाशीविन्ध्यसप्तपुटभृगुकच्छगोपनाथादीन् वीक्ष्य हरेः लोमशवापिकागमनं ब्रह्मप्रियाणां भौतिकहीरकाद्युत्पत्तिजिज्ञासा चेत्यादिनिरूपणनामा षष्ट्यधिकशततमोऽध्यायः ।। १६० ।।
 
</span></poem>
३५,९०६

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/274312" इत्यस्माद् प्रतिप्राप्तम्