"शुक्लयजुर्वेदः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९५:
 
 
{{भाष्यम्(उवट-महीधर)|
{{सायणभाष्यम्|
<poem><span style="font-size: 14pt; line-height: 200%">चतुर्थोऽध्यायः।
तत्र प्रथमा।
एदम॑गन्म देव॒यज॑नं पृथि॒व्या यत्र॑ दे॒वासो॒ अजु॑षन्त॒ विश्वे॑ । ऋ॒क्सा॒माभ्या॑ᳪ सं॒तर॑न्तो॒ यजु॑र्भी रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । इ॒मा आप॒: शमु॑ मे सन्तु दे॒वी रोष॑धे॒ त्राय॑स्व॒ स्वधि॑ते मैन॑ᳪ हिᳪसीः ।। १ ।।
उ० एदमगन्म।आग्निष्टोमिका मन्त्रा अवभृथपर्यन्ताः। प्रजापतेरार्षम् । द्वे अप्येते ऋचौ अत्यष्टी त्र्यवसाने । शालस्तम्भमन्वारभ्य यजमानो जपति । द्वावर्धर्चौ देवयजनदैवत्यौ । आ इदम् एदं देवयजनम् अगन्म वयम् आगताः स्मः। पृथिव्या उत्कृष्टम् । यत्र यस्मिन्देवयजने । देवासः देवा एव देवासः । 'आज्जसेरसुक्' । अजुषन्त । 'जुषी प्रीतिसेवनयोः' । सेवितवन्तः कामान् । विश्वे सर्वे तमागत्य देवयजनम् । ऋक्सामाभ्यां प्लवभूताभ्यां यज्ञसमुद्रं सन्तरन्तः यजुर्भिश्च रायस्पोषेण धनस्य पुष्ट्या निमित्तभूतया इषा अन्नेन च संमदेम हृष्येमहि तुष्येमहि । उन्दति । इमा आपः शमु मे सन्तु देवीः । शमिति सुखनाम । उ इति पादपूरणे । इमा आपः सुखरूपा मम भवन्तु । देव्यो दानादिगुणयुक्ताः । अपां वज्रश्रुतौ वज्रसंस्तवेऽतः शमाशास्यते । कुशतरुणमन्तर्दधाति । ओषधे त्रायस्व । त्रायतिः पालनार्थः।हे ओषधे, पालय एनं यजमानं क्षुरात् । क्षुरस्यापि वज्रसंबन्धः। शुरेणाभिनिदधाति । स्वधिते मैनᳪ हिᳪसीः । स्वधितिर्वज्रः । वज्रकर्म कुर्वन्नवज्रोऽपि वज्रमुच्यते । हे स्वधिते, मा एनं हिंसीः ॥१॥
म० आधानाग्निहोत्राग्न्युपस्थानचातुर्मास्यमन्त्रास्तृतीयाध्याये प्रोक्ताः । चतुर्थाध्यायमारभ्याष्टमस्य द्वात्रिंशत्कण्डिकापर्यन्तमग्निष्टोममन्त्रा उच्यन्ते । तेषां प्रजापतिर्ऋषिः । तत्र चतुर्थे यजमानसंस्कारपूर्वकं सोमक्रयमन्त्राः प्राधान्येनोच्यन्ते । तत्रादौ यजमानः षोडशर्त्विजो वृत्वारण्योरग्नी समारोप्य शालां गच्छेत् । तथा च 'समारोह्याग्नी शालास्तम्भं पूर्वार्धं गृहीत्वारणिपाणिराहेदमगन्मेति' (का० ७।१।३६) । द्वे अत्यष्टी त्र्यवसाने । तयोः कण्डिकयोः सप्त मन्त्राः । आद्यावर्धर्चौ देवयजनदेवत्यौ ॥ आ इदम् अगन्मेति पदानि । 'व्यवहिताश्च' (पा. १ । ४ । ८२) इति उपसर्गक्रियापदयोर्व्यवधानम् । इदमिति हस्तेन प्रदर्श्यते । वयमिदं पृथिव्याः संबन्धि देवयजनं देवा इज्यन्ते यस्मिंस्तद्देवयजनं स्थानम् आ अगन्म आगताः स्मः । गच्छतेर्लङ्युत्तमबहुवचने व्यत्ययेन शपो लुकि 'मो नो धातोः' (पा० ८।२। ६४) इति मस्य नः अडागमश्च । इदं किम् । यत्र देवयजने विश्वेदेवासः सर्वे देवाः अजुषन्ताप्रीयन्त । प्रीत्या स्थिता इत्यर्थः । किंच । वयं रायो धनस्य पोषेण पुष्ट्या इषा इष्यमाणेनान्नेन च संमदेम । 'मदी हर्षे' व्यत्ययेन शप् । हृष्टा भवेम धनैरन्नैश्च तृप्येम । किं कुर्वन्तः । ऋक्सामाभ्याम् ऋक् च साम च ऋक्सामे 'अचतुर-(पा० ५।४ । ७७ ) इति सूत्रेणाजन्तो निपातः । ताभ्यां यजुर्भिश्च वेदत्रयगतमन्त्रैः संतरन्तः । समुद्रवद्गम्भीरं सोमयागं समापयन्त इत्यर्थः । 'दक्षिणं गोदानं वितार्योनत्तीमा आपः' (का. ७।२।९) इति । इमा आपः । आपो देवताः । इमा आपः शिरःक्लेदाय सिच्यमाना एता आपो मे मम यजमानस्य शमु । उ एवार्थे । शं सुखार्थमव्ययम् । शं सुखकारिण्य एव सन्तु भवन्तु । किंभूता आपः । देवीः देव्यः दीव्यन्ति ताः देव्यः द्योतनाः । निर्मला इत्यर्थः । 'यूपवत् कुशतरुणं क्षुरेण चाभिनिधाय छित्त्वेति' (का. ७ । २ । १०-११)। यथा पश्वर्थयूपस्य छेदे मन्त्रः एवमत्रापि तृणान्तर्धानं क्षुरस्थापनं च मन्त्रद्वयेन कर्तव्यमिति सूत्रार्थः । ओषधे । कुशतरुणं देवता । हे ओषधे कुशतरुण, त्वं यजमानं त्रायस्व क्षुराद्रक्ष । स्वधिते । क्षुरो देवता । हे स्वधिते क्षुर, एनं यजमानं मा हिंसीः ॥१॥
 
द्वितीया ।
आपो॑ अ॒स्मान्मा॒तर॑: शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्व॒: पुनन्तु ।
विश्व॒ᳪ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्य॒: शुचि॒रा पू॒त ए॑मि ।
दी॒क्षा॒त॒पसो॑स्त॒नूर॑सि॒ तां त्वा॑ शि॒वाᳪ श॒ग्मां परि॑ दधे भ॒द्रं वर्णं॒ पुष्य॑न् ।। २ ।।
उ० स्नाति।आपो अस्मान्मातरः शुन्धयन्तु। आप उच्यन्ते। या एता आपः जगतो निर्मात्र्यः ता अस्मान् शुन्धयन्तु शोधयन्तु । किंच घृतेन च नः अस्मान् । घृतप्वः घृतेन पुनन्तीति घृतप्वः । घृतं हि अपां परमं तेजः पवित्रं च । । 'तद्वै सुपूतं यं घृतेन पुनन्ति' इति श्रुतिः । 'सुवर्णप्राशो घृतप्राश इति मेध्यानि' इति गौतमः । पुनन्तु यज्ञयोग्यं कुर्वन्तु । स्तुतिपूर्वं हि याज्या क्रियते नचात्र स्तुतिरत आह। विश्वं हि रिप्रं प्रवहन्ति देवीः । हिशब्दो यस्मादर्थे । 'रपो रिप्रमिति पापनामनी भवतः'। यस्मात्स्वभावत एव सर्व पापं प्रकर्षेण दहन्ति देव्यः । उत्क्रामत्युत्तरपूर्वार्धम् । उदिदाभ्यः शुचिरापूत एमि । उदेमि उद्गच्छामि । इत्शब्दोऽनर्थकः ।। आभ्योऽद्भ्यः शुचिः सन् आपूतश्च यावत्पापं पावितः । वासः परिधत्ते । दीक्षातपसोः। दीक्षैव दीक्षा । तपःशब्देन उपसद उच्यन्ते तपःप्रधानत्वात् । वासः तन्वास्त्राणं तनूशब्देनोच्यते । या त्वं दीक्षातपसोस्तनूः शरीरं भवसि 'तां त्वा शिवां शान्तां शग्मां ससुखां साध्वीं वा' इति श्रुतेः । परिदधे आच्छादयामि । भद्रं कल्याणम् । वर्णं दीक्षितरूपम् पुष्यन् वर्धयन् । अनेन हि दीक्षितरूपमभिव्यज्यते ॥ २ ॥
म०. 'आपो अस्मानिति स्नात्वेति' ( का० ७ । २ । १५)। मातरः मिमते ता मातरो जगन्निर्मात्र्यो मातृवत्पालयित्र्यो वा आपः अस्मान् कृतक्षीरान् यजमानान् शुन्धयन्तु 'शुन्ध शुद्धौ' शोधयन्तु । क्षौरकर्मनिमित्तामपहतिं निवारयन्त्वित्यर्थः । किंच घृतप्वः 'घृ क्षरणे' जिघर्ति क्षरतीति घृतं तेन क्षरितजलेन पुनन्तीति घृतप्वः जलदेवतास्ताश्च घृतेन क्षरितजलेन नोऽस्मान् पुनन्तु शुद्धान् कुर्वन्तु । किंच देवीः द्योतमाना आपो विश्वं हि । हि एवार्थः । सर्वमेव रिप्रं पापं प्रवहन्ति प्रकर्षेणापनयन्तु । 'रपो रिप्रमिति पापनामनी भवतः' (निरु० ४ । २१) इति यास्कः । 'उदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्धमिति' ( का० ७ । २ । १५) । अहमाभ्योऽद्भ्यः उदेमि इत् । इत् एवार्थे । उद्गच्छाम्येव । जलान्निर्गच्छामीत्यर्थः । किंभूतोऽहम् । शुचिः शुद्धः स्नानेन । तथा आपूतः समन्ताद्भावेनान्तरपि शुद्ध आचमनेन । शुचिरापूत इति शब्दाभ्यां स्नानाचमनाभ्यां बहिरन्तश्च शुद्धिरुक्ता ॥ 'क्षौमं वस्ते निष्पेष्टवै ब्रूयादहतं चेदद्भिरभ्युक्ष्य स्नातवस्यं(?)वाऽमौत्रधीतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति' (का० ७ । २ । १६-१९) ॥ दीक्षातपसोः वासो देवता । हे क्षौम वस्त्र, त्वं दीक्षातपसोस्तनूरसि । दीक्षा दीक्षणीयेष्टिः । तप उपसदिष्टिः । दीक्षाभिमानिदेवतायास्तपोभिमानिदेवतायाश्च त्वं शरीरवत्प्रियमसि । तां दीक्षातपसोस्तनूं तद्देवताद्वयशरीरभूतां त्वामहं परिदधे धारयामि । किंभूतां त्वाम् । शिवां शग्मां द्वयोरपि शब्दयोः सुखवाचकवादत्यन्तसुखरूपां कोमलत्वात् । किंभूतोऽहम् । भद्रं वर्णं पुष्यन् त्वत्परिधानेन कल्याणीं कान्तिं पुष्यन् ॥ २॥
 
तृतीया।
म॒हीनां॒ पयो॑ऽसि वर्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । वृ॒त्रस्या॑सि क॒नीन॑कश्चक्षु॒र्दा अ॑सि॒ चक्षु॑र्मे देहि ।। ३ ।।
उ० तमभ्यनक्ति । नवनीतमुच्यते । महीनां पयोऽसि । पयोविकारे नवनीते पयःशब्दः । महीनां गवां पयोऽसि । यतश्च 'वर्चोदा असि' वर्चस्तेज इत्यनर्थान्तरम् । अतो वर्चो मे देहि । अक्षिणी अनक्ति । वृत्रस्यासि । 'यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्' इत्यादिना त्रैककुदस्य चक्षुःसंस्तवस्तदयं मन्त्रोऽभिवदति । वृत्रस्य चक्षुषः संबन्धिनी भवसि त्वम् । कनीनकः पुरुषो यतः । हे त्रैककुद् , यतश्च स्वभावतः चक्षुर्दा असि अतश्चक्षुर्मे देहि ॥३॥
म० शालां पूर्वेण तिष्ठन्नभ्यङ्क्ते कुशेषु नवनीतेन शीर्णोऽध्यनुलोम सपादको महीनां पयोऽसीति' ( का० ७ । २।३३ )। प्राचीनशालापूर्वभागेषु कुशेषु स्थित्वा नवनीतं गृहीत्वा शिरस आरभ्य पादान्तं शरीराभ्यङ्गं कुर्यादिति सूत्रार्थः । महीनां पयः। नवनीतमुच्यते । हे नवनीत, त्वं महीनां गवां पयोऽसि । महीति गोनामसु पठितम् (निघ० २।११। ५ ) । नवनीतस्य क्षीरजन्यत्वात्पयस्त्वोपचारः । वर्चोदा असि । वर्चो ददातीति वर्चोदाः । अतिस्निग्धत्वेन कान्तिप्रदमसि । पुंस्त्वमार्षम् । अतो मे मह्यं यजमानाय वर्चो देहि कान्तिं प्रयच्छ ॥ 'वृत्रस्येत्यक्षावनक्ति त्रैककुदाञ्जनेनाभावेऽन्यदिति' (का० ७ । २ । ३४) । त्रिककुत्पर्वतादुत्पनाञ्जनं लभ्यते चेत्तेनाक्षिद्वयमञ्ज्यात्तदभावेऽन्यदप्यञ्जनं ग्राह्यमिति सूत्रार्थः । वृत्रस्य । अञ्जनं देवता । हे अञ्जन, त्वं वृत्रस्यासुरस्य कनीनकोऽसि नेत्रमध्यगतकृष्णमण्डलरूपोऽसि । 'यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्' (३।१।२ । १२) इत्यादिश्रुतिः । तथाच तित्तिरिः 'इन्द्रो वृत्रमहन् तस्य कनीनिका परापतत्तदेवाञ्जनमभवत्' इति । चक्षुर्दा असि कनीनिकारूपत्वात्त्वं दृष्टिप्रदोऽसि । अतो मे मह्यं चक्षुर्देहि सम्यग्दृष्टिपाटवं प्रयच्छ ॥३॥
 
चतुर्थी।
चचि॒त्पति॑र्मा पुनातु वा॒क्पति॑र्मा पुनातु दे॒वो मा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
तस्य॑ ते पवित्रपते प॒वित्र॑पूतस्य॒ यत्का॑मः पु॒ने तच्छ॑केयम् ।। ४ ।।
उ०. कुशपवित्रैः पावयति । चित्पतिर्मा पुनातु । 'चिती संज्ञाने' । अस्य चित् विज्ञानात्मा मनो वाभिधीयते । चित्पतिर्मा पुनातु ।'प्रजापतिर्वै चित्पतिः' इति श्रुतिः। वाक्पतिः। 'प्रजापतिर्वै वाक्पतिः' इति श्रुतिः । देवो मा सविता पुनातु । अच्छिद्रेणेति व्याख्यातम् । तस्य ते पवित्रपते । तस्य पवित्रपूतस्येति च षष्ठ्यन्तयोः संबन्धः । यजमानवाचित्वं च । तस्य मम पवित्रपूतस्य सतः । ते तव प्रसवे वर्तमानस्य हे पवित्रपते देव सवितः, एतद्भवतु । यस्कामः अहमात्मानं पुने पावयामि । तच्छकेयम् तच्छक्नुयाम् । 'यज्ञस्योदञ्चं गच्छामि' इति श्रुतिः । अच्छिद्रेणेत्येवमादित्रयाणामनुषङ्गो योज्यः ॥ ४ ॥
म० 'कुशपवित्रैः चित्पतिर्मेति पावयति सप्तभिः सप्तभिः प्रतिमन्त्रमच्छिद्रेणेति सर्वत्रेति' (का० ७।३।१)। अच्छिद्रेणेति शेषस्त्रिष्वपि मन्त्रेष्वनुषज्यते । चित्पतिर्मा । चितां ज्ञानानां पतिश्चित्पतिर्मनोभिमानी देवो मा मां यजमानं पुनातु शोधयतु । 'मनो वै चित्पतिः' इति तित्तिरिवाक्यात् । यद्वा चित्पतिः प्रजापतिः। 'प्रजापतिर्वै चित्पतिः' (३ । १।२। २२) इति श्रुतेः। किंचाच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः किरणैः । वायुरच्छिद्रं पवित्रं शुद्धिहेतुत्वात् छिद्ररहितत्वाच्च । यद्वादित्यमण्डलमच्छिद्रं पवित्रम् । 'असौ वा आदित्योऽच्छिद्रं पवित्रम्' इति श्रुतेः। हे पवित्रपते, पवित्रान् शुद्धान् पातीति पवित्रपतिस्तत्संबुद्धौ हे पवित्रपते शुद्धपालक, ते पवित्रपूतस्य तव पवित्रेण पूर्वोक्तेन शुद्धस्य तस्य यजमानस्याभीष्टं भूयादिति शेषः । तदेव स्पष्टयति । यत्कामोऽहं पुने तत् शकेयम् । यः कामो यस्य यत्कामः । यद्वा यस्मिन् कामो यस्य स यत्कामः । सोमयागानुष्ठाने कामवानहं पुने आत्मानं शोधयामि तत्सोमयागानुष्ठाने शक्तो भूयासम् । यज्ञानुष्ठानसामर्थ्यं मेऽस्त्वित्यर्थः । वाक्पतिः वाचां पतिर्बृहस्पतिर्मा मां पुनातु । सविता देवोऽन्तर्यामी मा मां पुनातु । एतन्मन्त्रद्वयं पूर्ववद्योज्यम् ॥ ४ ॥
 
पञ्चमी।
आ वो॑ देवास ईमहे वा॒मं प्र॑य॒त्य॒ध्व॒रे । आ वो॑ देवास आ॒शिषो॑ य॒ज्ञिया॑सो हवामहे ।। ५ ।।
उ० आवो देवास इति वाचयति । देवी अनुष्टुप् । ईमहे इति याञ्चाकर्मसु पठितम् । हे देवासः, आ ईमहे आयाचे वो युष्मान् । किम् । वामम् 'वन षण संभक्तौ' । वननीयं संभजनीयं वस्तु । प्रयत्यध्वरे प्रयच्छति यज्ञे । किंच । हे देवासः । आहवामहे आ ह्वयामः । वः युष्माकं संबन्धिन्य आशिषः यज्ञियासः यज्ञसंपादिन्यः । यज्ञिया एव यज्ञियासः । आईमहे आयाचे वः ॥५॥
म० 'आ वो देवास इति वाचयतीति' ( का० ७ । ३ । ६)। अध्वर्युर्यजमानं वाचयति । दैवी अनुष्टुप् आशीः । हे देवासः देवाः, वयं वो युष्मान् वामं वननीयं यज्ञफलम् आ ईमहे साकल्येन याचामहे । वन्यते भज्यत इति वामम् । 'वन संभक्तौ' । मप्रत्ययः । ईमहे याचतिकर्मसु पठितो द्विकर्मकः (निघ०३।१९।१)। क्व सति । अध्वरे अस्मदीये यज्ञे प्रयति प्रवर्तमाने सति । प्रैतीति प्रयन् तस्मिन् । प्रपूर्वादिणः शतरि रूपम् । किंच हे देवासो देवाः, वो युष्मान् वयं हवामहे आह्वयामः । किं कर्तुम् । यज्ञियासः यज्ञस्येमा यज्ञिया यज्ञसंबन्धिनीराशिषः फलानि आ आनेतुं समानेतुमित्यर्थः । उपसर्गेण धातुरध्याहर्तव्यः । यज्ञफलप्राप्तुं युष्मानाह्वयाम इत्यर्थः ॥ ५॥
 
षष्ठी ।
स्वाहा॑ य॒ज्ञं मन॑स॒: स्वाहो॒रोर॒न्तरि॑क्षा॒त्स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒j स्वाहा॒ वाता॒दार॑भे॒ स्वाहा॑ ।। ६ ।।
उ० अथ अङ्गुलीर्न्यचते । स्वाहायज्ञं मनसः । यज्ञं मनसः सकाशादहमारभे इत्यनुषङ्गः । उरोर्विस्तीर्णादन्तरिक्षादहमारभे यज्ञं, द्यावापृथिवीभ्यामहमारभे यज्ञम् । वातादहमारभे यज्ञम् । पञ्च स्वाहाकारा येषु यज्ञेषु तत्रार्थवादः । 'यज्ञो वै स्वाहाकारो यज्ञमेवैतदात्मन्धत्ते' इति । स्वाहाकारेण हि हविः प्रदीयत इति स्वाहाकारो यज्ञः ॥६॥
म०. 'स्वाहा यज्ञमित्यङ्गुलीर्न्यचते नानाहस्तयोरेवं शेषं प्रतिमन्त्रं मुष्टीकृत्वा स्वाहेत्युक्त्वा वाग्यतोऽङ्गुष्ठौ तत्सहिते चोत्सृजतीति' (का० ७।३। ७-१०) । आद्यमन्त्रेण हस्तद्वयकनिष्ठिकाद्वयं सङ्कोचयति एवमन्यत्रयेणान्याः । स्वाहा वातादारभ इत्युत्तमेन मुष्टिद्वयं कुर्यादिति सूत्रार्थः ॥ स्वाहा | यज्ञम् । चतुर्णां यजुषां यज्ञो देवता । स्वाहाशब्दस्य निपातत्वेनानेकार्थत्वादुचिता अर्था ब्राह्मणानुसारेण ग्राह्याः । तथाहि । स्वाहा यज्ञं मनसः । मनस इति पञ्चमी तृतीयार्थे । मनसा यज्ञं स्वाहा चित्तेन यज्ञमभिगच्छामि । अत्र स्वाहाशब्दोऽभिगमनार्थः । स्वाहोरोरन्तरिक्षात् । पञ्चमी सप्तम्यर्थे । उरौ विस्तीर्णेऽन्तरिक्षे स्वाहा यज्ञ आश्रितः । स्वाहाशब्दो | यज्ञार्थोऽतः प्रभृति । स्वाहा द्यावापृथिवीभ्याम् । द्यावापृथिव्योः स्वाहा यज्ञः श्रितः । लोकत्रयव्यापी यज्ञ इत्यर्थः । स्वाहा वातादारभे । वाताद्वायुप्रसादात् स्वाहा यज्ञमारभे प्रवर्तयामि । वायोः सर्वकर्मप्रवर्तकत्वात् । स्वाहा यज्ञ एवं सिद्ध इति शेषः ॥ ६ ॥
 
सप्तमी।
आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॑ सर॑स्वत्यै पू॒ष्णेऽग्नये॒ स्वाहा॑ ।आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथिवी॒ उरो॑ अन्तरिक्ष । बृह॒स्पत॑ये ह॒विषा॑ विधेम॒ स्वाहा॑ ।। ७ ।।
उ०. [https://sa.wikisource.org/s/eri औद्ग्रभणानि] जुहोति । आकृत्यै प्रयुजे । आकुवनमाकूतिः प्रयत्नः आत्मनो धर्मः । मनसः प्रेरणाय भवति । प्रयुङ्क्त इति प्रयुक् आकूतिलक्षणाय प्रयोगलक्षणाय च अग्नयेस्वाहा सुहुतमस्तु । मेधायै मनसे मेधालक्षणाय मनोलक्षणाय च अग्नये स्वाहा । जपति दीक्षायै तपसे । दीक्षालक्षणाय तपोलक्षणाय च अग्नये स्वाहा । तपःशब्देन चोपसद उच्यन्ते । सरस्वत्यै पूष्णे । 'वाग्वै सरस्वती पशवो वै पूषा' इति श्रुतिः । वाग्लक्षणाय पशुलक्षणाय च अग्नये स्वाहा । पशुसाध्यत्वाद्यज्ञस्य पशुग्रहणम् । आपो देवीः विराट् लिङ्गोक्ता देवता । हे आपोदेव्यः, बृहत्यो महत्यः । विश्वशंभुवः सर्वस्य जगतः सुखेन भावयित्र्यः । हे द्यावापृथिव्यौ, हे उरो हे विस्तीर्ण अन्तरिक्ष, युष्मभ्यं च बृहस्पतये च । हविषा विधेम । विदधातिर्दानकर्मा । हविषेति प्रथमाया विपरिणामः । हविर्दध्मः ॥ ७ ॥
म० अतः परं षडौद्ग्रभणहोममन्त्राः । चतुर्णामग्निर्देवता । 'औद्ग्रभणानि जुहोति स्थाल्याः स्रुवेणाकूत्या इति प्रतिमन्त्रमिति' (का० ७।३।१६)। आकूत्यै प्रयुजेऽग्नये स्वाहा । अग्नये वह्निदेवाय स्वाहा सुहुतमिदमस्तु । किंभूतायाग्नये । आकूत्यै प्रयुजे । यज्ञं करिष्यामीत्येवंविधो मानसः संकल्प आकूतिः तस्यै तत्संपूर्त्यै । प्रयुजे प्रयुङ्क्तेऽसौ प्रयुक् तस्मै । संकल्पसिद्ध्यै निर्विघ्नं प्रेरयते इत्यर्थः । इति प्रथमो मन्त्रः ॥ मेधायै मनसेऽग्नये स्वाहा । श्रुतयोर्मन्त्रयोर्धारणशक्तिर्मेधा तत्सिद्ध्यर्थं मनसे मदीयमनोभिमानिनेऽग्नये स्वाहा सुहुतमस्तु । विद्याधारणशक्तिर्हि मनसः स्वास्थ्ये सत्येव भवति । इति द्वितीयः ॥ जपति । दीक्षायै तपसेऽग्नये स्वाहा । व्रतनियमो दीक्षा तत्सिद्ध्यर्थं मदीयशारीरतपोभिमानिनेऽग्नये स्वाहा । नियमसंरक्षणं तपसैव भवति । ततस्तपोदात्रे इत्यर्थः । इति तृतीयः ॥ सरस्वत्यै पूष्णेऽग्नये स्वाहा । मन्त्रोत्चारणशक्तिः सरस्वती तत्सिद्ध्यर्थं पूष्णे पुष्णातीति पूषा तस्मै वागिन्द्रियपोषकायाग्नये सुहुतमस्तु । इति चतुर्थः ॥ आपो देवीः । लिङ्गोक्तदेवता विराट् । यस्या एकादशाक्षराः त्रयः पादाः सा विराट् । दशकास्त्रयो विराडेकादशका वेत्युक्तेः । अत्र प्रथमो द्वादशार्णस्तेनैकाधिका । हे आपः, हे द्यावापृथिवी द्यावापृथिव्यौ, हे उरो विस्तीर्ण अन्तरिक्ष, युष्मभ्यं बृहस्पतये च हविषा विधेम हविर्दद्मः । द्वितीयार्थे तृतीया । विधतिर्दानकर्मा । स्वाहा सुहुतमस्तु । किंभूता आपः । देवीः देव्यो द्योतमानाः । बृहतीः बृहत्यः प्रभूताः । उभयत्र पूर्वसवर्णः । विश्वशंभुवः विश्वस्य जगतः शं सुखं भावयन्ति जनयन्ति वा विश्वशंभुवः । इति पञ्चमो मन्त्रः ॥ ७ ॥
 
अष्टमी।
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।। ८ ।।
उ० विश्वो देवस्य । सावित्र्यनुष्टुप् । विश्वः सर्वो जनः देवस्य दानादिगुणयुक्तस्य नेतुः प्रणेतुः प्रसवितुः मर्त्यः मनुष्यः वुरीत वृणीत सख्यं सखिताभावम् । किंच विश्वः सर्वः धनाय इषुध्यते प्रार्थयते सवितारम् । इपुध्यतिर्यात्राकर्मसु पठितः । किंच द्युम्नं वृणीत । द्युम्नं द्योततेर्यशो वाऽन्नं वा प्रार्थयते । पुष्यसे पोषाय स्थितये । य इत्थंभूतः सविता तस्मै स्वाहा ॥८॥
म० अथ षष्ठः । सवितृदेवत्यानुष्टुप् स्वस्त्यात्रेयदृष्टा । विश्वो मर्तः सर्वो मनुष्यो नेतुः फलप्रापकस्य देवस्य दानादिगुणयुक्तस्य सवितुः सख्यं सखिभावं वुरीत वृणुते प्रार्थयते । 'वृञ् वरणे' अस्माल्लिङि तङि प्रथमैकवचने व्यत्ययेन शपो लुकि 'उदोष्ठ्यपूर्वस्य' (पा. ७ । १ । १०२) इति ऋत उदादेशः। किंच विश्वः सर्वो जनो राये धनाय इषुध्यति सवितारं प्रार्थयते । इषुध्यतिर्याञ्चाकर्मसु पठितः ( निघ० ३ । १९ । १४)। किंच द्युम्नं द्योततेर्यशो वान्नं वा तच्च वृणीत प्रार्थयते । किमर्थम् । पुष्यसे पोषाय स्वप्रजापालनाय । पुषेस्तुमर्थे असेप्रत्ययः । यः इत्थंभूतः सविता तस्मै स्वाहा । इति षष्ठ औद्ग्रभणमन्त्रः । समाप्तास्ते ॥ ८ ॥
 
नवमी।
ऋ॑क्सा॒मयोः॒ शिल्पे॑ स्थ॒स्ते वा॒मार॑भे॒ ते मा॑ पात॒मास्य य॒ज्ञस्यो॒दृच॑: ।
शर्मा॑सि॒ शर्म॑ मे यच्छ॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः ।। ९ ।।
उ०. कृष्णाजिनयोः शुक्लकृष्णसंधिमालभते ऋक्सामयोरिति । ये युवामृचां साम्नां च शिल्पे स्थः । 'यद्वै प्रतिरूपं तच्छिल्पम्' इति श्रुतिः । प्रतिरूपे प्रतिभूते भवथः। ते वां युवाम् । आरभे आलभे । ते च मा पातं गोपायतम् । आ अस्य यज्ञस्य उदृचः उत्तमा ऋचः आसमाप्तेरित्यर्थः । । दक्षिणजानुमारोहति । शर्मासि कृष्णाजिनमुच्यते । शर्म शरणं यतस्त्वमसि अतः शर्म शरणं मे मह्यं यच्छ प्रयच्छ । नमस्ते अस्तु नमस्तुभ्यं भवतु । मा मां माहिᳪसीः॥९॥
म० 'कृष्णाजिनयोः सन्धिमालभत ऋक्सामयोरिति' (का. ७ । ३ । २३ ) इति । कृष्णाजिने देवते । हे कृष्णाजिनगते शुक्लकृष्णरेखे, युवामृक्सामयोः शिल्पे स्थः ऋगभिमानिसामाभिमानिदेवतयोः संबन्धिनी शिल्पे चातुर्ये तद्रूपे भवतः । 'यद्वै प्रतिरूपं तच्छिल्पम्' (३ । २ । १।५) इति श्रुतेः । ते वां तथाविधे युवामारभे अहं स्पृशामि । ते मा पातं तथाविधे युवां मा मां पालयतम् । कियन्तं कालमिति चेत्तदाह । अस्य यज्ञस्य आ उदृचः उत्तमा चरमा ऋगुदृक् तस्या उदृचः आ तत्पर्यन्तम् । ‘पञ्चम्यपाङ्परिभिः' (पा० २ । ३ । १० ) इति पञ्चमी । एतद्यज्ञसमाप्तिपर्यन्तमित्यर्थः । ऋक्सामाभिमानिन्यौ देवते देवानां यज्ञार्थं स्थिते सत्यौ केनापि निमित्तेन कृष्णमृगरूपं कृत्वा देवेभ्यः पलाय्य दूरे कुत्राप्यतिष्ठतां तन्मृगचर्मणि यच्छुक्लं तदृचो रूपं यत् कृष्णं तत् साम्नो रूपम् । तदुक्तं तित्तिरिणा 'ऋक्सामे वै देवेभ्यो यज्ञार्थ तिष्ठमाने कृष्णमृगरूपं कृत्वापक्राम्यातिष्ठतामेष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनमस्यै साम्नो यत्कृष्णम्' (६। १। ३) इति । 'दक्षिणजानुमारोहति शर्मासि' (का० ७ । ३ । २४) इति । हे कृष्णाजिन, त्वं शर्म शरणमसि ।
 
</span></poem>
 
 
 
 
 
 
 
}}
 
 
{{टिप्पणी|
 
}}
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्