"ऋग्वेदः सूक्तं १०.४९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १८५:
स्पार्हम् । गवाम् । ऊधःऽसु । वक्षणासु । आ । मधोः । मधु । श्वात्र्यम् । सोमम् । आऽशिरम् ॥१०
 
“अहं “तत् प्रसिद्धं पयः “आसु गोषु “धारयं धृतवानस्मि । धृञ् धारणे । ण्यन्तस्य लङि रूपम् । “यत् पयः “आसु गोषु “देवश्चन “त्वष्टा देवशिल्पी सूर्यो वा देवः “न “चन “अधारयत धर्तुं नाशक्नोत् । कीदृक् पयोऽधारयमिति चेत् उच्यते । “रुशत् दीप्तं “स्पार्हं स्पृहणीयम् । केषु प्रदेशेष्विति उच्यते । “गवामूधःसु उद्धततरेषु गवां पयोधारणप्रदेशेषु । किंच “मधु उदकं “वक्षणासु । नदीनामैतत् । वहनशीलासु नदीषु धारयामीत्यनुषज्यते । नद्युदकधारणस्थावधिरुच्यते । “आ “मधोः आ उदकोत्पत्तेः । आगामिवर्षासमयपर्यन्तमित्यर्थः । कीदृशं मध्विति तदुच्यते । “श्वात्र्यम्“[http://vipin110012.tripod.com/pur_index28/shvaa.htm श्वात्र्यम्] । श्वात्रमिति क्षिप्रनाम । क्षिप्रगमनार्हम् । यद्वा । श्वात्र्यमित्युत्तरत्र संबध्यते । श्वात्र्यं सुखावहं “सोमं प्रति “आशिरं धारयम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४९" इत्यस्माद् प्रतिप्राप्तम्