"ऋग्वेदः सूक्तं १.११२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६०:
याभिः । विप्रम् । प्र । भरत्ऽवाजम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१३
 
हे अश्विनौ "परावति दूरदेशे स्थितं सूर्यं तमोरूपेण स्वर्भानुनावृतमादित्यं तस्मात्तमसो मोचयितुं "याभिः ऊतिभिः "परियाथः युवां परितो गच्छथः । तथा “मन्धातारम् ऋषिऋषिं "क्षैत्रपत्येषु । क्षेत्राणां पतिरधिपतिः क्षेत्रपतिः । तत्संबन्धिषु कर्मसु "आवतम् अरक्षतम् । अपि च "याभिः ऊतिभिः “विप्रं मेधाविनं “भरद्वाजम् ऋषिमन्नप्रदानेन “प्र “आवतं प्रकर्षेणारक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सह रक्षणार्थमस्मानप्यागच्छतम् । क्षैत्रपत्येषु । ब्राह्मणादेराकृतिगणत्वात् कर्मण्यर्थे प्यञ् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११२" इत्यस्माद् प्रतिप्राप्तम्