"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२६२" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">ज्योतिर्वर्चसोर्भेदः । यद्वा श्रोत्रमेव हिरण्यज्योतिषाग्निरिव ज्योतिष्मदस्तु हिरण्यवर्चसा च वर्चस्वदस्तु । रुक्म इव सुवर्ण. पुरुष इव । उभयत्रेवाध्याहारेण लिङ्गव्यत्ययेन च योजनेत्यर्थः । 'सहस्रदा इति पुरुषशिर उद्गृह्य मध्ये' (का० १७१५।१४) पुरुषशिर आदायोखामध्ये वक्ष्यमाणमन्त्रेणोपदधातीति सूत्रार्थः । हे पुरुष, वं सहस्रदाः सहस्रसंख्यस्य दातासि अतः सहस्राय सहस्रधनलाभाय ला लामुद्गृहामीति शेषः । आदौ पुरुषशिरसि शकलप्रासनं ततोऽश्वगोऽव्यजानां क्रमेण । एकपशुपक्षे मुखादिषु प्रत्येकं सप्त-सप्त पञ्चकृत एकैकमित्यन्ये ( का० १७।५।११)॥ ४० ॥
<poem><span style="font-size: 14pt; line-height: 200%">ज्योतिर्वर्चसोर्भेदः । यद्वा श्रोत्रमेव हिरण्यज्योतिषाग्निरिव ज्योतिष्मदस्तु हिरण्यवर्चसा च वर्चस्वदस्तु । रुक्म इव सुवर्णपुरुष इव । उभयत्रेवाध्याहारेण लिङ्गव्यत्ययेन च योजनेत्यर्थः । 'सहस्रदा इति पुरुषशिर उद्गृह्य मध्ये' (का० १७।१५।१४) पुरुषशिर आदायोखामध्ये वक्ष्यमाणमन्त्रेणोपदधातीति सूत्रार्थः । हे पुरुष, त्वं सहस्रदाः सहस्रसंख्यस्य दातासि अतः सहस्राय सहस्रधनलाभाय त्वा त्वामुद्गृह्णामीति शेषः । आदौ पुरुषशिरसि शकलप्रासनं ततोऽश्वगोऽव्यजानां क्रमेण । एकपशुपक्षे मुखादिषु प्रत्येकं सप्त-सप्त पञ्चकृत एकैकमित्यन्ये ( का० १७।५।११)॥ ४० ॥


एकचत्वारिंशी।
एकचत्वारिंशी।
आ॒दि॒त्यं गर्भं॒ पय॑सा॒ सम॑ङ्धि स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम् ।
आ॒दि॒त्यं गर्भं॒ पय॑सा॒ सम॑ङ्धि स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम् ।
परि॑ वृङ्धि॒ हर॑सा॒ माऽभि म॑ᳪस्थाः श॒तायु॑षं कृणुहि ची॒यमा॑नः ।। ४१ ।।
परि॑वृङ्धि॒ हर॑सा॒ माऽभिम॑ᳪस्थाः श॒तायु॑षं कृणुहि ची॒यमा॑नः ।। ४१ ।।
उ० पुरुषशिर उपदधाति । आदित्यं गर्भम् इतउत्तरं पट्त्रिष्टुभः । आदत्ते पशूनिति आदित्यः । आदित्यइव वा ईष्टे स सर्वेषां पशूनामिति आदित्यः । गृह्णाति पशूनिति गर्भः चित्योऽग्निरुच्यते । आदित्यं गर्भं पयसा दुग्धेन समङ्ग्धि समञ्जयसि । पुरुषमपि दधातीत्येतदभिप्रायम् । सहस्रस्य प्रतिमाम् बहुनः प्रतिमाभूतं विश्वरूपं सर्वरूपम् । सर्वाणि हि रूपाण्यादित्यस्य आदित्यवञ्चायं स्तूयते । परिवृङ्ग्धि हरसा परित्यज एनं हरसा । वीर्यापहारकं ज्योतिरग्ने हर इत्युच्यते । माभिमंस्थाः अभिपूर्वो मनिर्हिंसार्थः माहिंसीः । सर्वथा शतायुषं कृणुहि चीयमानः ॥ ४१ ॥

म० 'आदित्यं गर्भमिति प्रतिमन्त्रं क्रमेण' ( का० १७ । ५।१७) । पुरुषादीनां शिरसि पञ्चमन्त्रक्रमेणैकैकमुपदधातीत्यर्थः । पञ्च ऋचोऽग्निदेवत्यास्त्रिष्टुभः आदौ पुरुषशिर उपदधाति मध्ये । हे पुरुषशिरः, त्वमादित्यं चित्याग्निं पयसा समङ्ग्धि संरचय । अञ्जेर्लोटि मध्यमैकवचने रूपम् । पयसि स्थाप्य इत्येवमुच्यते । आदत्ते पशूनादित्यवदीष्टे वा सर्वपशूनामित्यादित्यश्चित्योऽग्निः। कीदृशमादित्यं । गर्भं गृह्णाति पशूनिति गर्भः पचाद्यच् 'हृग्रहोर्भश्छन्दसि' तम् । सहस्रस्य प्रतिमां बहुधनस्य प्रतिमाभूतं । बहुधनप्रदमित्यर्थः । विश्वरूपं सर्वरूपमादित्यत्वात् सर्वरूपप्रकाशकमित्यर्थः । सर्वाणि रूपाणि यस्मात् । किंच हरसा सर्ववीर्यापहारकमग्नेर्ज्योतिर्हरस्तेनाग्मितेजसा यजमानं परिवृङ्ग्धि परिवर्जय । 'वृजी वर्जने' रुधादिः लोट् । मा अभिमंस्थाः यजमानं मा हिंसीः । मन्यतेर्लुङ् अभिपूर्वो मन्यतिर्हिँसार्थः । किंच चीयमानः उपधीयमानः सन्यजमानं शतायुषं शताब्दजीविनं कृणुहि कुरु ॥४१॥
उ० पुरुषशिर उपदधाति । आदित्यं गर्भम् इतउत्तरं पब्रिष्टुभः । आदत्ते पशूनिति आदित्यः । आदित्यइव वा ईष्टे स सर्वेषां पशूनामिति आदित्यः । गृह्णाति पशूनिति गर्भः चित्योऽग्निरुच्यते । आदित्यं गर्भ पयसा दुग्धेन समन्धि समञ्जयसि । पुरुषमपि दधातीत्येतदभिप्रायम् । सहस्रस्य प्रतिमाम् बहुनः प्रतिमाभूतं विश्वरूपं सर्वरूपम् । सर्वाणि हि रूपाण्यादित्यस्य आदित्यवञ्चायं स्तूयते । परिवृग्धि हरसा परित्यज एनं हरसा । वीर्या- | पहारकं ज्योतिरग्ने हर इत्युच्यते । माभिमंस्थाः अभिपूर्वो मनिहिसार्थः माहिंसीः । सर्वथा शतायुषं कृणुहि चीयमानः ॥ ४१ ॥

म० 'आदित्यं गर्भमिति प्रतिमन्त्रं क्रमेण' ( का० १७ । ५।१७) । पुरुषादीनां शिरसि पञ्चमन्त्रक्रमेणैकैकमुपदधातीत्यर्थः । पञ्च ऋचोऽग्निदेवत्यास्त्रिष्टुभः आदो पुरुषशिर उपदधाति मध्ये । हे पुरुषशिरः, समादित्यं चित्याग्निं पचयसा समन्धि संरचय । अओर्लोटि मध्यमैकवचने रूपम् । पयसि स्थाप्य इत्येवमुच्यते । आदते पशूनादित्यवदीष्टे वा सर्वपशूनामित्यादित्यश्चित्योऽग्निः। कीदृशमादित्यं । गर्भ गृह्णाति पशूनिति गर्भः पचाद्यच् 'हृग्रहोर्भश्छन्दसि' तम् । सहस्रस्य प्रतिमां बहुधनस्य प्रतिमाभूतं । बहुधनप्रदमित्यर्थः । विश्वरूपं सर्वरूपमादित्यलात् सर्वरूपप्रकाशकमित्यर्थः । सर्वाणि रूपाणि यस्मात् । किंच हरसा सर्ववीर्यापहारकममेर्योतिर्हरस्तेनाग्मितेजसा यजमानं परिवृग्धि परिवर्जय । 'वृजी वर्जने' रुधादिः लोट् । मा अभिमंस्थाः यजमानं मा हिंसीः । मन्यतेर्लुङ् अभिपूर्वो मन्यतिहिँसार्थः । किंच चीयमानः उपधीयमानः सन्यजमानं शतायुषं शताब्दजीविनं कृणुहि कुरु ॥४१॥


द्विचत्वारिंशी।
द्विचत्वारिंशी।
वात॑स्य जू॒तिं वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नᳪ स॑रि॒रस्य॒ मध्ये॑ ।
वात॑स्य जू॒तिं वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नᳪ स॑रि॒रस्य॒ मध्ये॑ ।
शिशुं॑ न॒दीना॒ᳪ ह॒रि॒मद्रि॑बुध्न॒मग्ने॒ मा हि॑ᳪसीः पर॒मे व्यो॑मन् ।। ४२ ।।
शिशुं॑ न॒दीना॒ᳪ ह॒रि॒मद्रि॑बुध्न॒मग्ने॒ मा हि॑ᳪसीः पर॒मे व्यो॑मन् ।। ४२ ।।
उ० अश्वमुपदधाति । वातस्य जूतिम् । जूतिर्गतिः प्रीतिर्वा । वातस्य गतिभूतं प्रीतिजनकं वा । वरुणस्य नाभिम् वरुणस्य नाभिमिवान्तरम् । अश्वं जज्ञानं सरिरस्य मध्ये । अश्वं जज्ञानं यजमानं सरिरस्योदकस्य मध्ये । शिशुं पुत्रम् नदीनां हरितवर्णम् । अद्रिबुध्नम् अद्रिः पर्वतः तस्य बुध्नमादिः तत्र भवा आपः अद्रिबुध्नाः । इह तु अद्भ्यो जातोऽश्वोऽपत्यप्रत्ययलोपाइद्रिबुध्नशब्देनोच्यते । प्रकरणात् हे अग्ने चित्य, मा हिंसीः मावधीः । परमेव्योमन् निषीदन्तम् । इमे वै लोकाः परमं व्योमेत्यधिलोकं व्याख्यातम् ॥ ४२ ॥

म० अश्वशिर ईशाने उपदधाति । हे अग्ने चित्याग्ने, त्वमश्वमिमं मा हिंसीः ज्वालया मा दह । कीदृशम् । वातस्य जूतिं जूतिर्गतिः प्रीतिर्वा । वायोर्गतिस्वरूपं वायुवच्छीघ्रगतिमित्यर्थः । वायोः प्रीतिं प्रेमपात्रं वरुणस्य नाभिं जलेशस्य नाभिमिव नाभिः अन्तरं यथा नरेण स्वनाभिर्वस्त्रावरणादिना पाल्यते मध्ये समुद्रे जज्ञानं जायमानम् । 'जन् जनने' ह्वादिः शानच् 'गमहन-'(पा० ६ । ४ । ९८ ) इत्युपधालोपः । अप्सुयोनिर्वा अश्वः' इति श्रुत्यन्तरात् । अतएव नदीनां शिशुं बालं नदीपतिः समुद्रः पिता अतएव नदीनां मातृत्वात्तच्छिशुम् । हरिं हरितवर्णं यद्वारूढं नरं हरतीति हरिस्तम् । अद्रिबुध्नमद्रिर्गिरिः बुघ्नं मूलं कारणं यासां ता अद्रिबुध्ना आपस्तज्जातमद्रिबुध्नम् अपत्य प्रत्ययलोपः । यद्वा बुध्नपदे नकार उपजनश्छान्दसः । अद्रिबुध्नमद्रिभिर्बुद्धं ज्ञातम् पथि तत्खुरैः क्षुण्णानद्रीन्पाषाणान्दृष्ट्वा नरैर्ज्ञातं यदत्राश्वो गत इति उत्कृष्टमित्यर्थः । परमे व्योमन् एषु लोकेषु निषीदन्तमिति शेषः । 'इमे वै लोकाः परमं व्योम' ( ७ । ५।२।१८) इति श्रुतेः । यद्वा विविधमोम अवनं रक्षणं परममुत्कृष्टं यद्व्योम नानोपद्रवेभ्यः पालनं तत्र स्थापितमिति शेषः ॥ ४२ ॥
उ० अश्वमुपदधाति । वातस्य जूतिम् । जूतिर्गतिः प्रीतिवी । वातस्य गतिभूतं प्रीतिजनकं वा । वरुणस्य नाभिम् वरुणस्य नाभिमिवान्तरम् । अश्वं जज्ञानं सरिरस्य मध्ये । अश्वं जज्ञानं यजमानं सरिरस्योदकस्य मध्ये । शिशु | पुत्रम् नदीनां हरितवर्णम् । अद्रिबुध्नम् अद्रिः पर्वतः तस्य बुध्नमादिः तत्र भवा आपः अद्रिबुध्नाः । इह तु अन्यो जातोऽश्वोऽपत्यप्रत्ययलोपाइद्रिबुध्नशब्देनोच्यते । प्रकरणात् हे अने चित्य, मा हिंसीः मावधीः । परमेव्योमन् निषीदन्तम् । इमे वै लोकाः परमं व्योमेत्यधिलोकं | व्याख्यातम् ॥ ४२ ॥

म० अश्वशिर ईशाने उपदधाति । हे अग्ने चित्याग्ने, लमश्वमिमं मा हिंसीः ज्वालया मा दह । कीदृशम् । वातस्य जूति | जूतिर्गतिः प्रीतिर्वा । वायोर्गतिखरूपं वायुवच्छीघ्रगतिमित्यर्थः । वायोः प्रीतिं प्रेमपात्रं वरुणस्य नाभिं जलेशस्य नाभिमिव नाभिः अन्तरं यथा नरेण खनाभिर्वत्रावरणादिना पाल्यते मध्ये समुद्रे जज्ञानं जायमानम् । 'जन् जनने' हादिः शानच् 'गमहन-'(पा० ६ । ४ । ९८ ) इत्युपधालोपः । अप्सुयोनिर्वा | अश्वः' इति श्रुत्यन्तरात् । अतएव नदीनां शिशुं बालं नदीपतिः समुद्रः पिता अतएव नदीनां मातृवात्तच्छिशुम् । हरिं हरित| वर्ण यद्वारूढं नरं हरतीति हरिस्तम् । अद्रिबुध्नमद्रिगिरिः वुघ्नं | मूलं कारणं यासां ता अद्रिवुना आपस्तजातमद्रिबुध्नम् अपत्य प्रत्ययलोपः । यद्वा बुध्नपदे नकार उपजनश्छान्दसः । अद्रि| बुधमद्रिभिर्बुद्धं ज्ञातम् पथि तत्खुरैः क्षुण्णानदीन्पाषाणान्दृष्ट्वा | नरैतिं यदत्राश्वो गत इति उत्कृष्टमित्यर्थः । परमे व्योमन् एषु लोकेषु निषीदन्तमिति शेषः । 'इमे वै लोकाः परमं व्योम' F ( ७ । ५।२।१८) इति श्रुतेः । यद्वा विविधमोम अवनं - रक्षणं परममुत्कृष्टं यद्वयोम नानोपद्रवेभ्यः पालनं तत्र स्थापि. - तमिति शेषः ॥ ४२ ॥


त्रिचत्वारिंशी।
त्रिचत्वारिंशी।
अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तिं॒ नमो॑भिः ।
अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तिं॒ नमो॑भिः ।
पर्व॑भिरृतु॒शः कल्प॑मानो॒ गां मा हि॑ᳪसी॒रदि॑तिं वि॒राज॑म् ।। ४३ ।।
पर्व॑भिर्ऋतु॒शः कल्प॑मानो॒ गां मा हि॑ᳪसी॒रदि॑तिं वि॒राज॑म् ।। ४३ ।।
उ०. गामुपदधाति । अजस्रम् । यस्य तव संस्कारार्थम् अजस्रमनुपक्षीणम् इन्दुं सोमं चन्द्रमसम् अरुषम् अरोचनम् भुरण्युम् भेत्तारं वाहदोहादिभिः अग्निम् आग्नेयम्

उ०. गामुपदधाति । अजस्रम् । यस्य तव संस्कारार्थम् अजस्रमनुपक्षीणम् इन्दुं सोमं चन्द्रमसम् अरुषम् अरो. चनम् भुरण्युम् भेत्तारं वाहदोहादिभिः अग्निम् भामेयम्


</span></poem>
</span></poem>