"ऋग्वेदः सूक्तं १.१५६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
अध । ते । विष्णो इति । विदुषा । चित् । अर्ध्यः । स्तोमः । यज्ञः । च । राध्यः । हविष्मता ॥१
 
हे विष्णो “मित्रो “न । मितेर्दुःखात् त्राता सखा आदित्यो वा मित्रः। ‘प्रमीतेस्त्रायते' (निरु. १०. २१) इति निरुक्तम् । तद्वत् "शेव्यः सुखे साधुः सुखकर्ता “घृतासुतिः । घृतमुदकम् आसूयते येन स तादृशः । यद्वा । घृतमाज्यमाभिमुख्येन नीयते यस्मै स तादृशः । “विभूतद्युम्नः प्रभूतयशाः प्रभूतान्नो वा “एवयाः रक्षणस्य मिश्रयिता प्रापयिता । "सप्रथाः सर्वतः पृथुः । प्रतिविशेषणं नः “भव इति संबन्धः । द्व्यचोऽतस्तिङः ' इति दीर्घः। “उ इति पादपूरणः ॥ हे “विष्णो त्वं यस्मादीदृशो भवसि “अध अस्मात् “ते तव “स्तोमः“[https://puraana.tripod.com/pur_index30/stoma.htm स्तोमः] स्तोत्रविशेषः “विदुषा त्वन्माहात्म्यवेदित्रा यजमानेन “अर्ध्यः पुनःपुनः प्रवर्धनार्हः । एकवारकरणे न संपूर्यते इत्यर्थः । तथा ते “यज्ञश्च "हविष्मता तेन यजमानेन “राध्यः समाराधनीयः। यद्वा । विदुषा होत्रा स्तोमो राध्यो हविष्मता यज्ञश्च राध्यः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५६" इत्यस्माद् प्रतिप्राप्तम्