"अग्निपुराणम्/अध्यायः १८९" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ३:
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
श्रवणाद्वादशीं वक्ष्ये मासि भाद्रपदे सिते
श्रवणेन युता श्रेष्ठा(१) महती सा ह्युपोषिता
सङ्गमे सरितां स्नानाच्छ्रवणद्वादशोफलं(२)
बुधश्रवणसंयुक्ता दानादौ सुमहाफला
निषिद्धमपि कर्तव्यन्त्रयोदश्यान्तु पारणं
द्वादृश्याञ्च निराहारो वामनं पूजयाम्यहं
उदकुम्भे स्वर्णमयन्त्रयोदश्यान्तु पारणं
आवाहयाम्यहं विष्णुं वामनं शङ्खचक्रिणं
सितवस्त्रयुगच्छन्ने घटे सच्छत्रपादुके
स्नापयामि जलैः शुद्धैर्विष्णुं(३) पञ्चामृतादिभिः
छत्रदण्डधरं विष्णुं वामनाय नमो नमः
अर्घ्यं ददामि देवेश अर्घ्यार्हाद्यैः सदार्चितः(४)
भुक्तिमुक्तिप्रजाकीर्तिसर्वैश्वर्ययुतं कुरु
वामनाय नमो गन्धं होमोऽनेनाष्टकं शतं
- - - - - - - -- - - -- - - - -- - - -
<small><small>टिप्पणी
पङ्क्तिः २४:
४ मुदार्चित इति ग..</small></small>
- - - - - - - -- - - -- - - - -- - - -
ओं नमो वासुदेवाय शिरः सम्पूजयेद्धरेः
श्रीधराय मुखं तद्वत्कण्ठे कृष्णाय वै नमः
नमः श्रीपतये वक्षो भुजो सर्वास्त्रधारिणे
व्यापकाय नमो नाभिं वामनाय नमः कटिं
त्रैलोक्यजयकायेति(१) मेढ्रं जङ्घे यजेद्धरेः
सर्वाधिपतये पादौ विष्णोः सर्वात्मने नमः
घृतपक्वञ्च नैवेद्यन्दद्याद्दध्योदनैर्घटान्
रात्रौ च जागरं कृत्वा प्रातः स्नात्वा च सङ्गमे
गन्धपुष्पादिभिः पूज्य वदेत्पुष्पाञ्जलिस्त्विदं
नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञित
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव
प्रीयतान्देव देवेश मम नित्यञ्जनार्दन
वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयं
वामनः प्रतिगृह्णाति वामनो मे ददाति च
द्रव्यस्थो वामनो नित्यं वामनाय नमो नमः
प्रदत्तदक्षिणो विप्रान् सम्भोज्यान्नं स्वयञ्चरेत्
इत्याग्नेये महापुराणे श्रवणद्वादशीव्रतं नामैकोननवत्यधिकशतत्मोऽध्यायः ॥
|