"ऋग्वेदः सूक्तं १.१५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ५२:
अनक्ति । यत् । वाम् । विदथेषु । होता । सुम्नम् । वाम् । सूरिः । वृषणौ । इयक्षन् ॥२
 
हे मित्रावरुणौ “वां युवयोः संबन्धिनो यागस्य “प्रस्तुतिः प्रस्तावना करोमीति संकल्प एव “न “प्रयुक्तिः कृत्स्नप्रयोगो न संपन्नः । तावतैव युवयोः “धाम तेजःस्थानम् “अयामि प्राप्नोमि । “सुवृक्तिः युवयोः शोभनावर्जकश्च युष्मत्परिग्रहादस्मि । “यत् यदा तु “विदथेषु यज्ञेषु “वां युवां “होता होमनिष्पादकोऽयमध्वर्युः “अनक्ति हविषा आगच्छति होमं करोतीत्यर्थः। यद्वा । होता देवानामाह्वाता एतन्नामकः ऋत्विक् शस्त्रादिना वाम् अनक्ति व्यञ्जयति । तदा “सूरिः युष्मन्माहात्म्यवित् “इयक्षन् यागं कर्तुमिच्छन् अहं हे “वृषणौ कामानां वर्षितारौ “वां युवयोः “सुम्नं“[http://puranastudy.byethost14.com/pur_index24/yaksha.htm सुम्नं] युष्मत्संबन्धि सुखं देवत्वलक्षणम् अयामीति शेषः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५३" इत्यस्माद् प्रतिप्राप्तम्