"न्यायकुसुमाञ्जलिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
:: ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रमत्।
 
:: चेतो मे रमयत्वविघ्नमनघो(घं)(2)(घ)न्यायप्रसूनाञ्जलिः॥1॥
 
:: स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषीणः।
 
:: यदुपास्तिमसावत्र परमात्मा निरूप्यते॥2॥
 
Line २२ ⟶ २०:
 
:: न्यायचर्चेयमीशस्य मननव्यपदेशभाक्।
 
:: उपासनैव क्रियते श्रवणानन्तरागता॥3॥
: श्रुतो हि भगवान् बहुशः श्रुतिस्मृतीतिहासपुराणेष्विदानीं मन्तव्यो भवतिः, `श्रोतव्यो मन्तव्य' इति श्रुतेः;
 
:: `आगमेनानुमानेन ध्यानाभ्यासरसेन च।
 
 
:: त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तम्'॥ इति स्मृतेश्च।
 
Line ४१ ⟶ ३६:
 
:: हेतुभूतिनिषेधो न स्वानुपाख्यविधिर्न च।
 
:: स्वभाववर्णना नैवमवधेर्नियतत्वतः॥5॥
 
Line ७८ ⟶ ७२:
 
:: एकस्य न क्रमः क्वापि वैचित्र्यं च समस्य न।
 
:: शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः॥7॥
 
Line ८८ ⟶ ८१:
 
:: विफला विश्ववृत्तिर्नो न दुःखैकफलाऽपि वा।
 
:: दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः॥8॥
: यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनम्, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत। न हि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटेत; प्रागेव जगत्।
Line १०१ ⟶ ९३:
 
:: चिरध्वस्तं फलायाऽलं न कर्मातिशयं विना।
 
:: (33)सम्भोगो निर्विशेषाणां न भूतैः संस्कृतैरपि॥9॥
: तस्मादस्त्यतिशयः कश्चित्। ईदृशान्येवैतानि स्वहेतुबलाऽऽयातानि, येन नियतभोगसाधनानीति चेत्- तदिदममीषामतीन्द्रियं रूपं सहकारिभेदो वा? न तावत् ऐन्द्रियकस्यातीन्द्रियं रूपम्, व्याघातात्। द्वितीये त्वपूर्वसिद्धिः।
Line ११० ⟶ १०१:
 
:: भावो यथातथाऽभावः कारणं कार्यवन्मतः।
 
:: प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः॥10॥
: न ह्यभावस्याकारणत्वे प्रमाणमस्ति। न हि विधिरूपेणासौ तुच्छ इति स्वरूपेणापि तथा; निषेधरूपाभावे विधेरपि(रेव) तुच्छत्वप्रसङ्गात्। कारणत्वस्य भावत्वेन व्याप्तत्वात्तन्निवृत्तौ तदपि निवर्तत इति चेन्न- परिवर्तप्रसङ्गात्। अन्वयव्यतिरेकानुविधानस्य च कारणत्वनिश्चयहेतोर्भाववदभावेऽपि तुल्यत्वात्। अभावस्यावर्जनीयतयासन्निधिः न तु हेतुत्वेनेति चेत्- तुल्यम्। प्रतियोगिनमुत्सारयतस्तस्यान्यप्रयुक्तस्सन्निधिरिति चेत्- तुल्यम्। भावस्याभावोत्सारणं स्वरूपमेवेति चेत्- अभावस्यापि भावोत्सारणं स्वरूपान्नातिरिच्यते। तस्मात् यथा `भावस्यैव भावो जनक' इति नियमोऽनुपपन्नः, तथा `भाव एव जनक' इत्यपि। को ह्यनयोर्विशेषः।
Line १३२ ⟶ १२२:
 
: [कु.1.141] संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः।
 
 
:: स्वगुणाः परमाणूनां विशेषाः पाकजदयः॥11॥
: यथा हि देवताविशेषोद्देशेन हुताशने हविराहुतयः समन्त्राः प्रयुक्ताः पुरुषमभिसंस्कुर्वते, न वन्हिं, नापि देवताः; तथा व्रीह्याद्युद्देशेन प्रयुज्यमानः प्रोक्षणादिः पुरुषमेव संस्कुरुते, न तम्। तथा च कारीरीजनितसंस्काराधारपुरुषसंयोगाज्जलमुचां सञ्चरणजलक्षरणरूपा क्रिया, तथा व्रीह्यादीनां तत्तदुत्तरक्रियाविशेषाः। यथा चैकत्र कर्तृकर्मसाधनवैगुण्यात्फलाभावस्तथा परत्रापि; आगमिकत्वस्योभयत्रापि तुल्यत्वात्।
Line १५० ⟶ १३८:
 
:: निमित्तभेदसंसर्गादुद्भवानुद्भवादयः।
 
:: देवता(47)सन्निधानेन प्रत्यभिज्ञानतोऽपि वा॥12॥
 
Line १५८ ⟶ १४५:
 
: [कु.1.150] जयेतरनिमित्तस्य वृत्तिलाभाय केवलम्।
:: परीक्ष्य समवेतस्य परीक्षाविधयो मताः॥13॥
: यद्यपि `धर्माद्यभिमानिदेवतासन्निधिरत्रापि क्रियते; ताश्च कर्मविभवानुरूपं लिङ्गमभिव्यञ्जयन्ती'त्यस्माकं सिद्धान्तः- तथाऽपि परविप्रतिपत्तेरन्यथोच्यते। तेनापि हि विधिना तदेव जयस्य पराजयस्य वा निमित्तमभिव्यक्तं (49)तद्विभावकं कार्यमुन्मीलयति। कर्मणश्चाभिव्यक्तिः सहकारिलाभ एव। तच्च सहकारि `सोऽहमनेन विधिना तुलामधिरूढः, योऽहं पापकारी निष्पापो वे'ति प्रत्यभिज्ञानम्। यदाहुः- `तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः'। अथ वा प्रतिज्ञानुरूपां विशुद्धिमपेक्ष्य तेन धर्मो जन्यते, निमित्ततो विधानाद्विजयफलश्रुतेश्च। अविशुद्धिं चापेक्ष्याधर्मः। पराजयलक्षणानपेक्षितफलोपदर्शनेन फलतो (50)निषेधात्।
 
Line १७४ ⟶ १६१:
 
:: कर्तृधर्मा नियन्तारः चेतिता च स एव नः।
 
:: अन्यथाऽनपवर्गः स्यादसंसारोऽथवा ध्रुवः॥14॥
: कृतिसामानाधिकरण्यव्यवस्थितास्तावद्धर्मादयो नियामका इति व्यवस्थितम्। चेतनोऽपि कर्तैव; कृतिचैतन्ययोः सामानाधिकरण्येनानुभवात्। न चायं (नायं) भ्रमः; बाधकाभावात्। परणामित्वाद्घटवदिति बाधकमिति चेन्न- कर्तृत्वेऽपि समानत्वात्। तथा च कृतिरपि (56)(स्वा)भाविकी महतो न स्यात्। दृष्टत्वादयमदोष इति चेत् तुल्यम्। (57)अचेतनाकार्यत्वं बाधकम्, कार्यकारणयोस्तादात्म्यादिति चेन्न- असिद्धेः। न हि कर्तुः कार्यत्वे प्रमाणमस्ति। प्रत्युत `वीतरागजन्मादर्शना'(न्या-3.1.25.)दिति न्यायादनादितैव सिद्ध्यति। यद्यच्च कार्ये रूपं दृश्यते तस्य तस्य कारणात्मकत्वे रागादयोऽपि प्रकृतौ स्वीकर्तव्याः स्युः। तथा च सैव बुद्धिः, न प्रकृतिः; भावाष्टकसम्पन्नत्वात्। स्थूलतामपहाय सूक्ष्म(रूप)तया ते तत्र सन्तीति चेत् चैतन्यमपि तथा भविष्यति। तथाऽप्यसिद्धो हेतुः। तथा सति घटादीनामपि चैतन्यप्रसङ्गः, तादात्म्यादिति चेत्- रागादिमत्त्वप्रसङ्गोऽपि दुर्वारः। सौक्ष्म्यं च समानमिति। तस्मात् यज्जातीयात् कारणाद्यज्जातीयं कार्यं दृश्यते, तथा भूतात्तथाभूतमात्रमनुमातव्यम्; न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्यम्, व्यभिचारादिति किमनेनाप्रस्तुतेन।
Line १८५ ⟶ १७१:
 
:: नान्यदृष्टं स्मरत्यन्यो नैकं भूतमपक्रमात्।
 
:: वासनासङ्क्रमो नास्ति न च गत्यन्तरं स्थिरे॥15॥
: न हि भूतानां समुदायपर्यवसितं चैतन्यम्; प्रतिदिनं तस्यान्यत्वे पूर्वपूर्वदिवसानुभूतस्यास्मरणप्रसङ्गात्। नापि प्रत्येकपर्यवसितम्; करचरणाद्यवयवापाये तदनुभूतस्य स्मरणायोगात्। नापि मृगमदवासनेव वस्त्रादिषु, संसर्गादन्यवासनाऽन्यत्र सङ्क्रामति; मात्रानुभूतस्य गर्भस्थेन भ्रूणेन स्मरणप्रसङ्गात्। न चोपादानोपादेयभावनियमो गतिः; स्थिरपक्षे परमाणूनां तदभावात्। खण्डावयविनं प्रति च विच्छिन्नानामनुपादानत्वात्। पूर्वसिद्धस्य चावयविनो विनाशात्।
Line १९२ ⟶ १७७:
 
: [कु.1.161] न वैजात्यं विना तत्स्यान्न तस्मिन्ननुमा भवेत्।
 
:: विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना॥16॥
: न हि, `करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्र'मित्यभ्युपगमे क्षणिकत्वसिद्धिः; तथैकव्यक्तावप्यविरोधात्। तद्वा तादृग्वेति न कश्चिद्विशेष इति न्यायात्। ततस्तावनादृत्य वैजात्यमप्रामाणिकमेवाभ्युपेय(गन्तव्य)म्।
Line २१९ ⟶ २०३:
 
:: स्थैर्यदृष्ट्योर्न सन्देहो न प्रामाण्ये विरोधतः।
 
:: एकतानिश्चयो येन क्षणे, तेन स्थिरे मतः॥17॥
: न हि स्थिरे तद्दर्शने वा स्वरसवाही सन्देहः; प्रत्यभिज्ञानस्य दुरपह्नवत्वात्। नापि तत्प्रामाण्ये; स हि न तावत्सार्वत्रिकः; व्याघातात्। तथा हि- प्रामाण्यासिद्धौ सन्देहोऽपि न सिद्ध्येत्; तत्सिद्धौ वा तदपि सिद्ध्येत्। (68)निश्चयस्य तदधीनत्वात् कोटिद्वयस्य चादृष्टस्यानुपस्थाने कः सन्देहार्थः? तद्दर्शने च कथं सर्वथा तदसिद्धिः। एतेनाप्रामाणिकस्तद्व््यवहार इति निरस्तम्; सर्वथा प्रामाण्यासिद्धौ तस्याप्यसिद्धेः?
Line २२८ ⟶ २११:
 
: [कु.1.175] हेतुशक्तिमनादृत्य नीलाद्यपि न वस्तुसत्।
 
:: तद्युक्तं तत्र तत् शक्तमिति साधारणं न किम्॥18॥
: सर्वसाधारणनीलादिवैधर्म्येण काल्पनिकत्वं कार्यकारणभावस्य व्युत्पादयता नीलादि पारमार्थिकमेवाभ्युपगन्तव्यम्, अन्यथा तद्वैधर्म्यैण हेतुफलभावस्यापारमार्थिकत्वानुपपत्तेः। न च कार्यकारणभावस्यापारमार्थिकत्वे नीलादि पारमार्थिकं भवितुमर्हति, नित्यत्वप्रसङ्गात्। तस्मादस्य पारमार्थिकत्वेऽपरमपि तथा, नवोभयमपीति।
Line २३७ ⟶ २१९:
 
: [कु.1.178] पूर्वभावो हि हेतुत्वं मीयते येन केनचित्।
 
:: व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि॥19॥
: भवेदेवम्, यद्यन्वयव्यतिरेकावेव कारणत्वम्; किं तु कार्यान्नियतः पूर्वभावः। स च क्वचिदन्वयव्यतिरेकाभ्यामवसीयते, क्वचिद्धर्मिग्राहकात्प्रमाणात्। अन्यथा कार्यात् कारणानुमानं क्वापि न स्यात्; तेन तस्यानुविधानानुपलम्भात् उपलम्भे वा कार्यलिङ्गानवकाशात्। प्रत्यक्षत एव तत्सिद्धेः। तज्जातीयानुविधानदर्शनात्सिद्धिरन्यत्रापि न वार्यते।
Line २४४ ⟶ २२५:
 
: [कु.1.180] इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतितः
 
:: मूलत्वात्प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता।
 
:: देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः
 
:: साक्षात्साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम॥20॥
 
"https://sa.wikisource.org/wiki/न्यायकुसुमाञ्जलिः" इत्यस्माद् प्रतिप्राप्तम्