"न्यायकुसुमाञ्जलिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४३२:
 
== तृतीयस्तबकः ==
 
:: ॥श्रीः॥
:: ॥ न्यायकुसुमाञ्जलौ तृतीयस्तबकः ॥
 
 
नन्वेतदपि कथम्, तत्र बाधक(154)सद्भावात्। तथा हि- यदि स्यात्, उपलभ्येत। अयोग्यत्वात् सन्नपि नोपलभ्यत इति चेत्- एवं तर्हि शशशृङ्गमप्ययोग्यत्वान्नोपलभ्यत इति स्यात्। नैतदेवम्, शृङ्गस्य योग्यतयैव व्याप्तत्वादिति चेत्- (155)चेतनस्यापि योग्योपाधिमत्तयैव व्याप्तत्वात् तद्बाधे सोऽपि बाधित एवेति तुल्यम्। व्यापकस्वार्थाद्यनुपलम्भेनाप्यनुमीयते, नीस्तीति। को हि प्रयोजनमन्तरेण किञ्चित्कुर्यादिति।
 
[कु.3.302] उच्यते-
::: योग्यादृष्टिः कुतोऽयोग्ये प्रतिबन्दिः (156)कुतस्तराम्।
::: क्वायोग्यं बाध्यते शृङ्गं क्वानुमानमनाश्रयम्॥
 
[कु.3.303] स्वात्मैव तावत् योग्यानुपलब्ध्या प्रतिषिद्धुं न शक्यते; कुतस्त्वयोग्यः परात्मा(परमात्मा)? तथाहि- सुषुप्त्यवस्थायामात्मानमनुपलभमानः, नास्तीत्यवधारयेत्। कस्यापराधेनपुनः योग्योऽप्यात्मा तदानीं नोपलभ्यते? सामग्रीवैगुण्यात्। ज्ञानादिक्षणिकगुणोपधानो ह्यात्मा गृह्यत इति अस्य स्वभावः। ज्ञानमेव कुतो न जायत इति चिन्त्यते पश्चाद्वा कथमुत्पत्स्यत इति चेत्- मनसोऽनिन्द्रियप्रत्यासन्नतयाऽजननात्; तत्प्रत्यासत्तौ च पश्चाज्जननात्।
 
[कु.3.304] मनोवैभववादिनामिदमसम्मतम्। तथा हि। मनो विभु सर्वदा स्पर्शरहितद्रव्यत्वात्, (157)(सर्वदा) विशेषगुणशून्यद्रव्यत्वात् नित्यत्वे सत्यनारम्भकद्रव्यत्वात् ज्ञानासमवायिकारणसंयोगाधारत्वादित्यादे(158)रिति चेत्-
 
[कु.3.305] न सर्वेषामापाततः स्वरूपासिद्धत्वात्। तथा हि- यदि रू(यदा हि रू)पाद्युपलब्धीनां क्रियात्वेन करणतया मनोऽनुमितिः, न तदा द्रव्यत्वसिद्धिः; अद्रव्यस्यापि करणत्वात्। अथासामेव साक्षात्कारितयेन्द्रियत्वेन तदनुमातव्यम्, तथाऽपि व्यापकस्य निरुपाधेर्नेन्द्रियत्वमित्युपाधिर्वक्तव्यः। तत्र- यदि(तद्यदि) कर्णशष्कुलीवत् निपतशरीरावयवस्योपाधित्वम्, तदा तावन्मात्रे वृत्तिलाभः तद्दोषे च वृत्तिनिरोधः श्रोत्रवत् प्रसज्येत। ततः शऱीरमात्रमुपाधिरभिधेयः (रवसेयः)। तथा च तदवच्छेदेन वृत्तिलाभे, `शिरसि मे वेदना, पादे मे सुख'मित्याद्यव्याप्यवृत्तित्वप्रतीतिविरोधः; असमवायिकारणानुरोधेन विभुकार्याणां प्रादेशिकत्वनियमात्। शरीरतदवयवादिपरमाणुपर्यन्तोपाधिकल्पनायां कल्पनागौरवप्रसङ्गः, (159)नियमानुपपत्तिश्चेति- ततोऽन्यदेवैकं सूक्ष्ममुपाधित्वेनातीन्द्रियं कल्पनीयम्। तथा च तस्यैवेन्द्रियत्वे स्वाभाविकेऽधिककल्पनायां प्रमाणाभावात् धर्मिग्राहकप्रमाणबाधः।
 
[कु.3.306] अथ ज्ञानक्रमेणेन्द्रियसहकारितया तदनुमानम्; ततः सुतरां प्रागुक्तदोषः। यदि च मनसो वैभवेऽप्यदृष्टवशात् क्रम उपपाद्येत, तदा मनसोऽसिद्धेराश्रयासिद्धिरेव वैभवहेतूनामिति।
 
[कु.3.307] अथ यत्रादृष्टस्य दृष्टकारणोपहारेणोपयोगः, तत्र तत्पूर्णतायां कार्यमुत्पद्यत एव अन्यथा अन्त्यतन्तुसंयोगेभ्योऽपि कदाचित्, पटो न जायोत; जातोऽपि वा कदाचिन्निर्गुणः स्यात्; बलवत्ता कुलालेन दृढदण्डनुन्नमपि चक्रं न भ्राम्येत। यत्र तु दृष्टानुपहारेणादृष्टव्यापारः, तत्र तद्वैगुण्यात् कार्यानुदयः; यथा परमाणुकर्मणः। तदिहापि यदि विषयेन्द्रियात्मनां समवधानमेव ज्ञानहेतुः, तदा तत्सद्भावे सदैव कार्यं स्यात्। न ह्येतदतिरिक्तमप्यदृष्टस्योपहरणीयमस्ति। न च सदैव ज्ञानोदयः। ततोऽतिरिक्तमपेक्षितव्यम्। तच्च यद्यपि सर्वाण्येवेन्द्रियाणि व्यप्नोति, तथाऽपि करणधर्मत्वेन क्रियाक्रमः सङ्गच्छते। अकल्पिते तु तस्मिन्नायं न्यायः; प्रतिपत्तुरकरणत्वात्; चक्षुरादीनामनेकत्वात् इति चेत्-
 
[कु.3.308] नन्वेवमपि युगपद्ज्ञानानि मा भूवन् युगपद्ज्ञानं तु केन वार्यते। भवत्येव समूहालम्बनमेकं ज्ञानमिति चेन्न- एकेन्द्रियग्रह्येष्विव नानेन्द्रियग्राह्येष्वपि प्रसङ्गात्। (160)तेष्वपि भवत्येवेति चेन्न- व्यासङ्गकाले ज्ञानक्रमेण विवादविषये क्रमानुमानात्।
 
[कु.3.309] बुभुत्साविशेषेण व्यासङ्गे क्रियाक्रम इति चेत्- मै(नै)वम् नह्येष बुभुत्साया महिमा, यत् अबुभुत्सिते विषये ज्ञानसामग्र्यां सत्यामपि न ज्ञानम्। अपि तु न तत्र संस्कारातिशयाधायकः प्रत्ययः स्यात्। यदि त्वबुभुत्सिते विषये सामग्रीमेव सा निरुन्ध्यात्, घटायोन्मीलितं चक्षुः पटं नैव दर्शयेत्। तस्माद् बुभुत्सापीन्द्रियान्तरादाकृष्य बुभुत्सितार्थग्राहिणीन्द्रिये मनो निवेशयन्ती युगपद्ज्ञानानुत्पत्तावुपयुज्यते; न तु स्वरूपतः।
 
[कु.3.310] विभुनोऽपि मनसो व्यापारक्रमात् क्रम इति चेन्न- तस्य संयोगातिरिक्तस्य कर्मरूपत्वे वैभवविरोधात्, गुणरूपत्वे नित्यस्य क्रमानुपपत्तेः; अनित्यस्य च नित्यैकगुणस्याविभुद्रव्यसंयोगासमवायिकारणकत्वेन तदन्तरेणानुपपत्तेः। तदपि कल्पयिष्यत इति चेत्- तदेव तर्हि मनस्स्थाने निवेश्यतां लाघवाय। तस्मादण्वेव मन इति ।
 
[कु.3.311] तथा च तस्मिन्ननिन्द्रियप्रत्यासन्ने निरुपधानत्वादात्मनः सुषुप्त्यवस्थायामनुपलम्भः। एतदेव मनसः शीलमिति कुतो निश्चि(र्णी)तमिति चेत्- अन्वयव्यतिरेकाभ्याम्। न केवलं तस्य, किं तु सर्वेषामेवेन्द्रियाणाम्। न हि विशेषगुणमनपेक्ष्य चक्षुराद्यपिद्रव्ये प्रवर्तते। (161)स्वप्नावस्थायां कथं ज्ञानमिति चेत्- तत्तत्संस्कारोद्बोधे विषयस्मरणेन स्वप्नविभ्रमाणामुत्पत्तेः। उद्बोध एव कथमिति चेत्- मन्दतरतमादिन्यायेन बाह्यानामेव शब्दादीनामुपलम्भात्। अन्ततः शरीरस्यैवोष्मादेः प्रतिपत्तेः। यदा च मनस्त्वचमपि परिहृत्य पुरीतति वर्तते, तदा सुषुप्तिः।
 
[कु.3.312] स्यादेतत्- परात्मा तु कथं परस्यायोग्यः। न हि साक्षात्कारिज्ञानविषयतामेवायं न प्राप्नोति; स्वयमप्यदर्शनप्रसङ्गात्। नापि ग्रहीतुरेवायमपराधः, तस्यापि हि ज्ञानसमवायिकारणतैव (162) तद्योगता। नापि करणस्य; साधारणत्वात्। न ह्यासंसारमेकमेव मन एकमेवात्मानं गृह्णातीत्यत्र नियामकमस्ति। स्वभाव इति चेत्- तर्हि (163) मुक्तौ निःस्वभावत्त्वप्रसङ्गः; तदेकार्थताया अपायादिति- न; भोजकादृष्टोपग्रहस्य नियामकत्वात्। यद्धि मनो यच्छरीरं यानीन्द्रियाणि यस्यादृष्टेनाकृष्टानि, तानि तस्यैवेति नियमः। तदुक्तं प्राक्- `प्रत्यात्मनियमात् भुक्ते'रिति। एतेन परबुद्ध्यादयो व्याख्याताः।
 
[कु.3.313] तदेवं योग्यानुपलब्धिः परात्मादौ नास्ति। तदितरा तु न बाधिकेति तवापि सम्मतम्। अतः किमधिकृत्य प्रतिबन्दिः। न हि शशशृङ्गमयोग्यानुपलब्ध्या कश्चिन्निषेधति। न च प्रकृते योग्यानुपलब्धिं कश्चिन्मन्यते। अथायमाशयः- अयोग्यशशशृङ्गादावनुपलब्धिर्न बाधिका स्यात्- इति। ततः किम्। तत्सिद्ध्येदिति चेत्- एवमस्तु, यदि प्रमाणमस्ति। पशुत्वादिकमिति चेत्- परसाधने प्रतिबन्दिस्तर्हि; न तद्बाधने। तत्रैव भविष्यतीति चेत्- तत् किं तत्र प्रतिबन्दिरेव दूषणम्, अथ कथञ्चित्तुल्यन्यायतया योग्या एव परात्मबुद्ध्यादयः ते च बाधिता एवेत्यपहृतविषयत्वम्? न प्रथमः अव्याप्तेः। न हि पशुत्वादेः शशशृङ्गसाधकत्वेन कार्यत्वादेः कर्तृमत्त्वसाधकत्वं प्याप्तम्, येन तस्मिन्नसति तत् प्रतिषिद्ध्येत। न द्वितीयः; मिथोऽनुपलभ्यमानत्वस्य वादिप्रतिवादिस्वीकारात्। तथाऽपि पशुत्वादौ को दोष इति चेत्- न जीनीमस्तावत्; तद्विचारावसरे चिन्तयिष्यामः।
 
[कु.3.314] स्यादेतत्- यत्प्रमाणगम्यं हि यत्, तदभाव एव तस्याभावमावेदयति। यथा रूपादिप्रतिपत्तेरभावश्चक्षुरादेरभावम्। कायवाग्व्यापारैकप्रमाणकश्य परात्मा; तदभाव एव तस्याभावे प्रमाणमङ््कुरादिषु- तन्न- तदेकप्रमाणकत्वासिद्धेः। अन्यथा सुषुप्तोऽपि न स्यात्। श्वाससन्तानोऽपि तत्र प्रमाणमिति चेन्न- निरुद्धपवनोऽपि न स्यात्। कायसंस्थानविशेषोऽपि तत्र प्रमाणमिति चेन्न- विषमूर्च्छितोऽपि न स्यात्। शरीरोष्मापि तत्र प्रमाणमिति चेन्न- जलावसिक्तविषमू(सिक्तमू)र्च्छितोऽपि न स्यात्। तस्मात् यद्यत् कार्यमुपलभ्यते, तत्तदनुगुणश्चेतनस्तत्र तत्र सिद्ध्यति। न च कार्यमात्रस्य क्वचिद्व्यावृत्तिरिति। न च, त्वदभ्युपगतेनैव प्रमाणेन भवितव्यम्, नान्येनेति नियमोऽस्ति।
 
[कु.3.315] न च प्रमेयस्य प्रमाणेन व्याप्तिः। सा हि कार्त्स्न्येन वा स्यात्, एकदेशेन वा स्यात्। न प्रथमः; प्रत्यक्षाद्यन्यतमा(म) सद्भावेऽपि तत्प्रमेयावस्थितेः। न द्वितीयः; पुरुषनियमेन सर्वप्रमाणव्यावृत्तावपि प्रमेयावस्थितेः। अनियमेन असिद्धेः; न हि सर्वस्य सर्वदा सर्वथाऽत्र प्रमाणं नास्तीति निश्चयः शक्य इति।
 
[कु.3.316] कथं तर्हि चक्षुरादेरभावो निश्चयः? व्यापकानुलब्धेः। (164)चरमसामग्रीनिवेशिनो हि कार्यमेव व्यापकम्; तन्निवृत्तौ तथाभूतान्यापि निवृत्तिः। (165)योग्यतामात्रस्य कदाचित् कार्यम्, (166)तन्निवृत्तौ तथाभूतस्यापि निवृत्तिः। अन्यथा तत्रापि (167)सन्देहः।
 
[कु.3.317] प्रकृतेऽपि व्यापकानुपलब्ध्या तत्प्रतिषेधोऽस्तु-न, आश्रयासिद्धत्वात्। न हीश्वरस्तद्ज्ञानं वा क्वचित् सिद्धम्। आभासप्रतिपन्नमिति चेन्न- तस्याश्रयत्वानुपपत्तः; प्रतिषेध्यत्वानुपपत्तेश्च।
::: व्यावर्त्याभाववत्तैव भाविकी हि विशेष्यता।
::: अभावविरहात्मत्वं वस्तुनः प्रतियोगिता॥2॥
: न चैतदाभासप्रतिपन्नस्यास्तीति कुतस्तस्य निषेधाधिकरणत्वं निषेध्यता चे(वे)ति।
 
[कु.3.318] कथं तर्हि शशशृङ्गस्य निषेधः? न कथञ्चित्। स ह्यभावप्रत्यय एव। न चायमपारमार्थिकप्रतियोगिकः परमार्थाभावो नाम, (168)तथापा(न चापा)रमार्थिकविषयं प्रमाणं नामेति। अपि च-
::: दुष्टोपलम्भसामग्री शशशृङ्गादियोग्यता।
::: न तस्यां नोपलम्भोऽस्ति नास्ति सानुपलम्भने॥3॥
: केन च शशशङ्गं प्रतिषिद्ध्यते, सर्वथानुपलब्धस्य योग्यत्वासिद्धेः। तदितरसामग्रीसाकल्यं हि तत्। ननूक्तमाभासोपलब्धं हि तत्। अत एवाशक्यनिषेधमित्युक्तम्। अनुपलम्भकाले आभासोपलम्भसामग्र्याः अभावात्; तत्काले चानुपलम्भाभावादिति। कस्तर्हि शशशृङ्गं नास्तीत्यस्यार्थः? शशेऽधिकरणे विषाणाभावोऽस्तीति।
 
[कु.3.319] स्यादेतत्- यद्यपीश्वरो नावगतः; यद्यपि च नाभाससिद्धेन प्रमाणव्यवहारः शक्यसम्पादनः, तथाऽपि, आत्मनः सिद्धाः, तेषां सार्वज्ञ्यं निषिद्ध्यते, क्षित्यादिकर्तृत्वं चेति। तथा हि- मदितरे न सर्वज्ञाः चेनत्वादहमिव। न च ते क्षित्यादिकर्तारः पुरुषत्वादहमिव। एवं वस्तुत्वादेरपि- इति। तदेतदपि प्रागेव परिहृतम्।
तथा हि-
 
[कु.3.320]
::: इष्टसिद्धिः प्रसिद्धेशे हेत्वसिद्धिरगोचरे।
::: नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा॥4॥
: प्रमाण(णेन)प्रतीतानां चेतनानां पक्षीकरणे सिद्धसाधनम्। ततोऽन्येषा(169)मसिद्धौ हेतोराश्रयासिद्धत्वम्। आत्मत्वमात्रेण सोऽपि सिद्ध इति चेत्- कोऽस्यार्थः? किमात्मत्वेनोपलक्षिता सैव वस्तुगत्या सर्वज्ञविश्वकर्तृव्यक्तिः, अथ तदन्या, आत्ममात्रं आत्मत्वमात्र(170)मेव वा पक्षः; सर्वत्र पूर्वदोषानतिवृत्तेः (त्तिः?) अथायमाशयः- आत्मत्वं न सर्वज्ञसर्वकर्तृव्यक्तिसमवेतं जातित्वात् गोत्ववत्- इति- तदसत्- निषेध्यासिद्धेर्निषेधस्याशक्यत्वात्। तथा चाप्रसिद्धविशेषणः पक्ष इत्याश्रयासिद्धिरिति स एव दोषः। त्वदुपगतागमलोकप्रसिद्धस्यैवेश्वरस्यासर्वज्ञत्वमकर्तृत्वं च साध्यत इति चेन्न-
::: आगमादेः प्रमाणत्वे बाधनादनिषेधनम्।
::: आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता (171)॥5॥
: निगदव्याख्यातमेतत् (172)।
 
[कु.3.321] चार्वाकस्त्वाह- किं (173)योग्यताविशेषा(षणा)ग्रहेण। यन्नोपलभ्यते, तन्नास्ति। विपरीतमस्ति। न चेश्वरादयस्तथा, ततो न सन्तीत्येतदेव ज्यायः। एवमनुमानादिविलोप इति चेत्- नेदमनिष्टम्। तथा च लोकव्यवहारोच्छेद इति चेन्न- सम्भावनामात्रेण तत्सिद्धेः। संवादेन च प्रामाण्याभिमानात्- इति- अत्रोच्यते-
 
[कु.3.322]
::: दृष्ट्यदृष्ट्योः क्व सन्देहो भावाभावविनिश्चयात्।
::: अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभम्॥6॥
: सम्भावना हि सन्देह एव। तस्माच्च व्यवहारस्तस्मिन् सति स्यात्। स एव तु कुतः? दर्शनदशायां भावनिश्चयात्; अदर्शनदशायामभावावधारणात्। तथा च गृहाद्बहिर्ग(न्निर्ग)तश्चार्वाको वराको न निवर्तते; प्रत्युत पुत्रदारधनाद्यभावावधारणात् सोरस्ताडं शोकविकलो (174)विक्रोशेत्। स्मरणानुभवान्नैवमिति चेन्न- प्रतियोगिस्मरण एवाभावपरिच्छेदात्। परावृत्तोऽपि कथं पुनरासादयिष्यति? सत्त्वादिति चेत्- अनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम्। तदैवोत्पन्ना इति चेन्न- अनुपलम्भेन हेतूनां बाधात्। अबाधे वा स एव दोषः।
 
[कु.3.323] अत एव प्रत्यक्षमपि न स्यात्; तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात्। उपलभ्यन्त एव; गोलकादि(175)रूपत्वात्तेषामिति चेन्न- तदुपलब्धेः पूर्वं तेषामनुपलम्भात्। न च यौगपद्यनियमः; कार्यकारणभावादिति।
 
[कु.3.324] एतेन- न परमाणवः सन्ति; अनुपलब्धेः। न ते नित्या निरवयवा वा, पार्थिवत्वात् घटादिवत्। न पाथसीयपरमाणुरूपादयो नित्याः रूपादित्वात् दृश्यमानरूपादिवत्। न रूपत्वपार्थिवत्वादि नित्याकार्यातीन्द्रियसमवायि जातित्वात् शृङ्गत्ववत्। नेन्द्रियाणि सन्ति, योग्यानुपलब्धेः। अयोग्यानि च शशशृङ्गप्रतिबन्दिनिरसनीयानीति (176)एवं स्वर्गापूर्वदेवतानिराकरणं नास्तिकानां निसनीयम्। मीमांसकश्च तोषयितव्यो भीषयितव्यश्चेति।
 
[कु.3.325] यद्येवमनुपलम्भेनादृश्यप्रतिषेधो नेष्यते, अनुपलभ्योपाधिप्रतिषेधोऽपि नैष्टव्यः। तथा च कथं तथाभूतार्थसिद्धिरपि; अनुमानबीजप्रतिबन्धासिद्धेः। तदभावे शब्दादेरप्यभावः; प्रामाण्यासिद्धेः। सेयमुभयतः पाशा रज्जुः (177)।
 
[कु.3.326] अत्र कश्चिदाह- मा भूदुपाधिविधूननम्, चतुःपञ्चरूपसम्पत्तिमात्रेणैव प्रतिबन्धनिर्वाहात्। तस्याश्य सपक्षासपक्षदर्शनादर्शनमात्रप्रमाणकत्वात्। यत्र तु तद्भङ्गः, तत्र प्रमाणभङ्गोऽप्यावश्यकः। न ह्यस्ति सम्भवो दर्शनादर्शनयोरविप्लवे (178)हेतुरूपविप्लव इति।
 
[कु.3.327] अप्रयोजकोऽपि तर्हि हेतुः स्यादिति चेत्- भूयोदर्शनाविप्लवे कोऽयमप्रयोजको नाम? न तावत् साध्यं प्रत्यकार्यमकारणं वा; सामान्यतो दृष्टानुमानस्वीकारात्। नापि सामग्र्यां कारणैकदेशः; पूर्ववदभ्युपगमात्। नापि व्यभिचारी; तदनुपलम्भात्। व्यभिचारोपलम्भे वा स एव दोषः। न च शङ्कितव्यभिचारः; निर्बीजशङ्कायाः सर्वत्र सुलभत्वात्। नापि व्याप्यान्तरसहवृत्तिः; एकत्रापि साध्येऽनेकसाधनोपगमात्। नाप्यल्पविषयः; धूमादेस्तथाभावेऽपि (थाभूतस्यापि) हेतुत्वात्। ननु धूमो (मोऽपि) वह्निमात्रेऽप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तेः। आर्द्रेन्धनवत्वं वह्निविशेषं प्रति तु प्रयोजकः; तन्निवृत्तौ तस्यैव निवृत्तेरिति- एतदप्ययुक्तम्- सामान्यप्रयोजकतायां विशेषसाधकत्वायोगात्; तदसिद्धौ तस्यासिद्धिनियमात्; सिद्धौ वा सामान्यविशेषभावानुपपत्तेः। नापि क्लृप्तसामर्थ्येऽन्यस्मिन् कल्पनीयसामर्थ्याप्रयोजकः; नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति।
 
[कु.3.328] तदेतदपेशलम्- कथं हि विशेषाभावात् कश्चिद्व्यभिचरति कश्चिच्च नेति श्कयमवगन्तुम्। ततो निर्णायकाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति क्वासौ निर्बीजा। एवं सति अतिप्रसक्तिरपि चार्वाकनन्दिनी (179)नोपालम्भाय।
 
[कु.3.329] स्वभावादेव कश्चित् किञ्चिद्व्यभिचरति, कश्चिच्च नेति स्वभाव एव विशेष इति चेत्- केन चिह्नेन पुनरसौ निर्णेय इति निपुणेन भावनीयम्; भूयोदर्शनस्य शतशः प्रवृत्तस्यापि भङ्गदर्शनात्। यत्र भङ्गो न दृश्यते (180)तत् तथेति चेत्- आपाततो न दृश्यते इति सर्वत्र कालक्रमेणापि न द्रक्ष्यत इति को नियन्तेति।
 
[कु.3.330] तस्मादुपाधितद्विरहावेव व्यभिचाराव्यभिचारनिवन्धनम्। तदवधारणं चाशक्यमिति। ननु यः सर्वैः प्रमाणैः सर्वदाऽस्मदादिभिर्यद्वत्तया नोपलभ्यते, नासौ तद्वान्; यथा बकः श्यमिकया। नोपलभ्यते च वह्नौ धूम उपाधिमत्तया- इति श्क्यमिति चेन्न- अस्याप्यनुमानतया तदपेक्षायामनवस्थानात्। (181)सर्वादृष्टेश्च सन्देहात्; स्वादृष्टेर्व्यभिचारातः; सर्वदेत्यसिद्धेः।
 
[कु.3.331] तादात्म्यतदुत्पत्तिभ्यां नियम इत्यन्ये। तत्र तादात्म्यं विपक्षे बाधकात् भवति। तदुत्पत्तिश्च पौर्वापर्येण प्रत्यक्षानुपलम्भाभ्याम्। (182)न ह्येवं सति शङ्कापिशाची अवकाशमासादयति; आशङ्क्यमानकारणभावस्यापि पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति- (183) नैवमपि; उभयगामिनोऽव्यभिचारनिबन्धनस्यैकस्याविवेचनात्; प्रत्येकं चाव्यापकत्वात्। कुतश्च कार्यात्मानौ कारणमात्मानं च न व्यभिचारत इति।
 
[कु.3.332] अत्रोच्यते-
::: शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम्।
::: व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः॥7॥
 
[कु.3.333] कालान्तरे कदाचिद्व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्क्येत। तदाकलनं च नानुमानमवधीर्य कस्यचित्। मूहूर्तयामाहोरात्रपक्षमासर्त्वयनसंवत्सरादयो हि भाविनो भवन्मुहूर्ताद्यनुमेया एव, अनवगतेषु स्मरणस्याप्यनाशङ्कनीयत्वात्। अनाकलने वा कमाश्रित्य व्यभिचारः शङ्क्येत (रशङ्केति)। तथा च सुतरामनुमानस्वीकारः। एवं च देशान्तरेऽपि वक्तव्यम्।
 
[कु.3.334] स्वीकृतमनुमानम्। सुहृद्भावेन पृच्छामः- कथमाशङ्का निवर्तनीयेति चेत्- न- यावदाशङ्कं तर्कप्रवृत्तेः।
 
[कु.3.335] तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टमुपनयता इच्छाविच्छिद्यते। विच्छन्नविपक्षेच्छश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्यं लिङ्गगमनाकुलोऽधितिष्ठति; अधिष्ठिताच्च करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम्।
 
[कु.3.336] ननु तर्कोऽप्यविनाभावमपेक्ष्य प्रवर्तते। ततोऽनवस्थया भवितव्यम्- न- शङ्काया व्याघातावधित्वात्। तदेव ह्याशङ्क्यते, यस्मिन्नाशङ्क्यमाने स्वक्रियाव्याघातादयो दोषा नावतरन्तीति लोकमर्यादा। न हि हेतुफलभावो न भविष्यतीति शङ्कितुमपि शक्यते। तथा सति शङ्कैव न स्यात्, सर्वं मिथ्या भविष्यतीत्यादिवत्।
 
[कु.3.337] अथाव्यतीन्द्रियोपाधिनिषेधे किं प्रमाणमि(धः किंप्रमाणक इ)त्युच्यतामिति चेत्- न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति, यस्याभावे प्रमाणमन्वेषणीयम्। केवलं साहचर्ये निबन्धनान्तरमात्रं शङ्क्यते। ततः शङ्कैव फलतः स्वरूपतश्च निवर्तनीया। तत्र फलमस्याः विपक्षस्यापि जिज्ञासा तर्कादाहन्य निवर्तते; ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्वं सुस्थम्।
 
[कु.3.338] न चैतदनागमम्, न्यायाङ्गतया तर्कं व्युत्पादयतः सूत्रकारस्याभिमतत्वात्। अन्यथा तद् व्युत्पादनवैयर्थ्यात्।
 
[कु.3.339] तदयं सङ्क्षेपः- यत्रानुकूलतर्को नास्ति सोऽप्रयोजकः। स च द्विविधः शङ्कितोपाधिर्निश्चतोपाधिश्च; यत्रेदमुच्यते-
`यावच्चाव्यतिरेकित्वं शतांशेनापि शङ्क्यते।
विपक्षस्य कुतस्तावत् हेतोर्गमनिकाबलम्॥'
 
[कु.3.340] तत्रोपाधिस्तु- साधनाव्यापकत्वे सति साध्यव्यापकः। तद्धर्मभूता हि व्याप्तिर्जपाकुसुमरक्ततेव स्फटिके, साधनाभिमते चकास्तीत्युपाधिरसावुच्यत इति। तदिदमाहुः-
::: `अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः।
::: तैर्दृष्टैरपि नैवेष्टा व्यपकांशावधारणा॥' (मी.श्लो.वा.14.1-5.) इति।
 
[कु.3.341] तदनेन विपक्षदण्डभूतेन तर्केण सनाथे भूयोदर्शने, कार्यं वा कारणं वा ततोऽन्यद्वा, समवायि वा संयोगि वाऽन्यथा वा भावो वाऽभावो वा, सविशेषणं वा निर्विशेषणं वा लिङ्गमिति निश्शङ्कमवधारणीयम्; अन्यथा तदाभास इति रहस्यम्।
 
[कु.3.342] तादात्म्यतदुत्पत्त्योरप्येतदेव बीजम्। यदि हि का(यदि का)र्यात्मानौ कारणमात्मानं चातिपतेताम्, तदा तयोस्तत्त्वं व्याहन्येत। अत एव सामग्रीनिवेशिनश्चरमकारणादपि कार्यमनुमिमते (184)सौगता अपि। तस्माद्विपक्षबाधकमेव प्रतिबन्धलक्षणम्।
 
[कु.3.343] तथा हि- शाकाद्याहारपरिणतिविरहिणि मित्रातनये, न किञ्चिदनिष्टमिति नासौ तस्य व्यापिका; व्यापिका तु श्यामिकायाः, कारणत्वावधारणात्। कारणं च तत् तस्य; तदतिपत्य भवति चेति व्याहतम्। एवमन्यत्राप्यूहनीयमिति।
 
[कु.3.344] क्व पुनरप्रयोजकोऽन्तर्भवति? न क्वचिदित्येके। यथा हि सिद्धसाधनम्- न बाधितविषयम्, विषयापहाराभावात्; नापि निर्णये सति पक्षत्वातिपातादपक्षधर्मः, कालातीतविलोपप्रसङ्गात्; न चानैकान्तिकादिः, व्यभिचाराद्यभावात्- तथाऽयमपि। सूत्रं तूपलक्षणपरमिति- तदसत्- विभागस्य न्यूनाधिकसङ्ख्याव्यवच्छेदफलत्वात्।
 
[कु.3.345] क्व तर्हि द्वयोरन्तर्निवेशः? असिद्धे एव। तथा हि- व्याप्तस्य हि पक्षधर्मताप्रतीतिः सिद्धिः। तदभावोऽसिद्धि। इयं च व्याप्तिपक्षधर्मता(185)स्वरूपाणामन्यतमाप्रतीत्या भवन्ती यथासङ्ख्यमन्यथासिद्धिराश्रयासिद्धिः स्वरूपासिद्धिरित्याख्यायते। मध्यमाऽप्याश्रयस्वरूपाप्रतीत्या तद्विशेषणपक्षत्वाप्रतीत्या वेति द्वयी। तत्र, चरमासिद्धसाधनमिति व्यपदिश्यते; व्याप्तिस्थितौ पक्षत्वस्याहत्य विघटनात्। न त्वेवं बाधे; व्याप्तेरेव प्रथमं विघटनादिति विशेषः।
 
[कु.3.346] यत्त्वप्रयोजकः सन्दिग्धानैकान्तिक इत्यनैकान्तिकेऽन्तर्भाव्यते- तदसत्- व्याप्त्यसिद्ध्या हि निमित्तेन व्यभिचारः शङ्कनीयोऽन्यथा वा। प्रथमे असिद्धिरेव दूषणम्; उपजीव्यत्वात्; नानैकान्तिकम्; उपजीवकत्वात्। (186)अन्यथाशङ्कात्वदूषणमेव; निर्णीते तदनवकाशादिति।
 
:::::: ॥ तृतीयस्तबके ईश्वरस्योपमानाबाध्यत्वनिरूपणम् ॥
 
 
[कु.3.347] उपमानं तु बाधकमनाशङ्कनीयमेव, विषयानतिरेकादिति केचित् तथाहि- न तावदस्य विषयः सादृश्यव्यपदेश्यं पदार्थान्तरमेव सम्भावनीयम्;
::: परस्परविरोधे हि न प्रकारान्तरस्थितिः।
::: नैकताऽपि विरुद्धानामुक्तिमात्रविरोधतः॥8॥
: न हि भावाभावाभ्यामन्यः प्रकारस्सम्भावनीयः, परस्परविधिनिषेधरूपत्वात्। न भाव इति हि निषेधमात्रेणैवाभावविधिः। ततस्तं विहाय कथं स्ववचनेनैव पुनस्सहृदयो निषेधेत्, नाभाव इति। एवं नाभाव इति हि निषेध एव भावविधिः। ततस्तं विहाय स्ववाचैवानुन्मत्तः कथं पुनर्निषेधेत् न भाव इति। अत एवम्भूतानामेकताऽप्यशक्यप्रतिपत्तिः, प्रतिषेधविध्योरेकत्रा(त्वा)सम्भवात्। तस्माद्भावाभावावेव तत्त्वम्।
 
[कु.3.348] भावत्त्वेऽपि गुणवन्निर्गुणं वेति द्वयमेव (वेत्येतदपि) पूर्ववत्। पूर्वं द्रव्यमेव। उत्तरञ्चाश्रितमनाश्रितं वेति द्वयमेव पूर्ववत्। तत्रोत्तरं समवाय एव, अनवस्थाभयात्। आश्रितं तु सामान्यवन्निःसामान्यञ्चेति पूर्ववद्द्वयमेव। तत्र प्रथममपि स्पन्दोऽस्पन्द इति द्वयमेव। एतच्च यथासङ्ख्यं कर्म गुण इति व्यपदिश्यते। निस्सामान्यं निर्गुणमाश्रितं तु एकाश्रितमनेकाश्रितं वेति प्रागिव द्वयमेव। एतदपि यथासङ्ख्यं विशेषस्सामान्यञ्चेत्यभिधीयते। तत् (187) एतत्सादृश्यमेतास्वेकां विधामासादयत् नातिरिच्यते। अनासादयन्नपदार्थीभूय स्थातुमुत्सहते। एतेन (188) शक्तिसङ्ख्यादयो व्याख्याताः। ततोऽभावेन सह सप्तैव पदार्था इति नियमः। अतो नोपमानविषयोऽर्थान्तरमिति।
 
[कु.3.349] स्यादेतत्- भवतु सामान्यमेव सादृश्यम्, तदेव तस्य विषयस्स्यात्। तत्स(गोस)दृशोऽयमिति हि प्रत्ययो नेन्द्रियजन्यः, तदापातमात्रेणानुत्पत्तेरिति चेत्- न- पूर्वपिण्डानुसन्धानरूपसहकारिवैधुर्येणानुत्पत्तेः (ण प्रागजननात् सोऽयमिति प्रत्यभिज्ञानवदिति।
 
[कु.3.350] नन्वेतत्सदृशस्स इति नेन्द्रियजन्यम्, तेन तस्यासम्बन्धात्। नचेदं स्मरणम्, तत्पिण्डानुभवेऽपि विशिष्टस्याननुभवात्। नचैतदपि, अयं स इति विपरीतप्रत्यभिज्ञानवदुपपादनीयम्; तत्तेदन्तोपस्थापनक्रमविपर्ययेऽपि विशेष्यस्येन्द्रियेण सन्निकर्षाविरोधात्; तस्य सन्निहितवर्तमानगोचरत्वात्। प्रकृते तु तदभावात्। तस्मात् तत्पिण्डस्मरणसहायमेतत्पिण्डवर्तिसादृश्यज्ञानमेव तथाविधं ज्ञानमुत्पादयदुपमानं प्रमाणमिति।
 
[कु.3.351] एतदपि नास्ति-
::: साधर्म्यमिव वैधर्म्यं मानमेवं प्रसज्यते।
::: अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृतं न किम्॥9॥
: यदा हि एतद्विसदृशोऽसौ इति प्रत्येति, तत्रापि तुल्यमेतत्। न हि तत् प्रत्यक्षम्, असन्निकृष्टविषयत्वात्। न स्मरणम्, विशिष्टस्याननुभवात्। नोपमानम् असादृश्यविषयत्वात्। ननु- एतद्धर्माभावविशिष्टत्वमेव तस्य वैधर्म्यम्, तच्चाभावगम्यमेवेष्यते। न च प्रकृतेऽपि तथाऽस्तु, सादृश्यस्य भावरूपत्वादिति चेत्- न- इतो व्यावृत्तधर्मविशिष्टताया अपि वैधर्म्यरूपत्वात्; तस्य च भावरूपत्वात्। स्यादेतत्- तद्धर्मा इह न सन्तीत्यवगते, अर्थादापद्यते- इहाविद्यमानास्तत्र सन्तीति। न हि तद्विधर्मत्वमेतस्योपपद्यते, यद्येतद्विधर्माऽसौ न भवति इति चेत्- एवं तर्हि प्रकृतमप्यर्थापत्तिरेव। न हि तत्सादृश्यविशिष्टत्वमेतस्य प्रत्यक्षसिद्धमपि तस्यैतत्सादृश्यविशिष्टत्वं विनोपपद्यते।
 
[कु.3.352] एतेन दृष्टा(189)सन्निकृष्टप्रत्यभिज्ञानं व्याख्यातम्। तत्रापि तद्धर्मशालित्वं तस्य स्मरणाभिव्यक्तमनुपपद्यमानं तदिदन्तास्पदस्यैकतां व्यवस्थापयति। तस्मान्नोपमानमधिकमिति।
 
[कु.3.353] एवं प्राप्तेऽभिधीयते-
::: सम्बन्धस्य परिच्छेदः (190)(दं?) सञ्ज्ञायास्सञ्ज्ञिना सह।
::: प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः॥10॥
: यथा गौस्तथा गवयः इति श्रुतातिदेशवाक्यस्य, गोसदृशं पिण्डमनुभवतः, स्मरतश्च वाक्यार्थं अयमसौ गवयशब्दवाच्य इति भवति मतिः। सेयं न तावत् वाक्यमात्रफलम्, अनुपलब्धपिण्डस्यापि प्रसङ्गात्। नापि प्रत्यक्षफलम्, अश्रुतवाक्यस्यापि प्रसङ्गात्। नापि समाहारफलम्, वाक्यप्रत्यक्षयोर्भिन्नकालत्वात्। वाक्यतदर्थयोः स्मृतिद्वारोपनीतावपि गवयपिण्डसम्बद्धेनापीन्द्रियेण तद्गतसादृश्यानुपलम्भे समयपरिच्छेदासिद्धेः। फलसमाहारे तु तदन्तर्भावे अनुमानादेरपि प्रत्यक्षत्वप्रसङ्गः। तत् किं तत्फलस्य तत्प्रमाणबहिर्भाव एव? अन्तर्भावे वा कियती सीमा?- तत्तदसाधारणेन्द्रियादिसाहित्यम्। अस्ति तर्हि सादृश्यादिज्ञानकालेविष्फारितस्य चक्षुषो व्यापारः- न- उपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यतदर्थस्मृतिमतः कालान्तरेऽप्यनुसन्धानबलात् समयपरिच्छेदोपपत्तेः।
 
[कु.3.354] ननु च वाक्यादेवानेन समयः परिच्छिन्नः, गोसदृशस्य गवयशब्दस्सञ्ज्ञेति। केवलमिदानीं प्रत्यभिजानाति अयमसाविति। प्रयोगाद्वऽनुमितः, यो यत्रासति वृत्त्यन्तरे वृद्धैः प्रयुज्यते, स तस्य वाचकः, यथा गोशब्द एव गोः, प्रयुज्यते चायं गोसदृशे इति किमुपमानेनेति- न-
::: सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः।
::: समयो दुर्गृहः पूर्वं शब्देनानुमयाऽपि वा॥11॥
: न हि गवयशब्दस्य सादृश्यं प्रवृत्तिनिमित्तम्, अप्रतीतगूनामव्यवहारप्रसङ्गात्। नचोभयमपि निमित्तम्, स्वयंप्रतीतसमयसङ्क्रान्तयेऽतिदेशवाक्यप्रयोगानुपपत्तेः। गवयत्त्वे ह्ययं व्युत्पन्नो वृद्धव्यवहारात्, न सादृश्ये। कथमेतन्निर्धारणीयमिति चेत्- वस्तुगतिस्तावदियम्, तदापाततस्सन्देहेऽपि न फलसिद्धिः, गन्धवत्त्वमिव पृथिवीत्वस्य, गोसादृश्यं गवयशब्दप्रवृत्तिनिमित्तस्योपलक्षणम्, इदमेव वा निमित्तमित्यनिर्धारणात्।
 
[कु.3.355] स्यादेतत्- पूर्वं निमित्तानुपलब्धेर्न फलसिद्धिः, इदानीन्तु तस्मिन्नुपलब्धे तदेव वाक्यं स्मृतिसमारूढं फलिष्यति, अध्ययनसमयगृहीत इव वेदराशिरङ्गोपाङ्गपर्यवदातस्य कालान्तरे। न च वाच्यम्, वाक्येन (191) स्वार्थस्य प्रागेव बोधितत्वात् प्रागेवपर्यवसितमिति- गोसादृश्यस्योपलक्षणनिमित्तत्वयोरन्यतरत्र तात्पर्ये सन्देहात्। इदानीन्तु गवयत्वेऽवगते तर्कपुरस्कारात्सादृश्यस्योपलक्षणतायां व्यवस्थितायाम्, गङ्गायां घोष इतिवदन्वयप्रतिपत्तिरिति चेत्- न-
::: श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति।
::: पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः॥12॥
: गोसदृशो गवयशब्दवाच्य इति सामानाधिकरण्यमात्रेणान्वयोपपत्तौ विशेषसन्देहेऽपि वाक्यस्य पर्यवसितत्वेन मानान्तरोपनीतानपेक्षणात्, तक्तारक्तसन्देहेऽपि घटो भवतीति वाक्यवत्। अन्यथा वाक्यभेददोषात्। न च गङ्गायां घोष इतिवत् पदार्था एवान्वयायोग्याः, येन प्रमाणान्तरोपनीतेनाऽन्वयस्स्यात्। अथ (192)प्रतीतवाक्यार्थबलायातोऽप्यर्थो यदि वाक्यस्यैव, दिवाभोजननिषेधवाक्यस्यापि रात्रिभोजनमर्थस्स्यात्। तस्माद्यथा गवयशब्दः कस्यचिद्वाचकः शिष्टप्रयोगादिति सामान्यतो निश्चितेऽपि, विशेषे मानान्तरापेक्षा, तथा गोसदृशस्य गवयशब्दो वाचक इति वाक्यान्निश्चितेपि सामान्ये, विशेषवाचकत्वेऽस्य मानान्तरमनुसरणीयमिति।
 
[कु.3.356] अस्त्वनुमानम्। तथाहि- गवयशब्दो गवयस्य वाचकः असति वृत्त्यन्तरेऽभियुक्तैस्तत्र प्रयुज्यमानत्वत्,गवि गोशब्दवदिति चेत्- न- असिद्धेः। न ह्यसति वृत्त्यन्तरे तद्विषयतया प्रयोगस्सङ्गतिमविज्ञाय ज्ञातुं शक्यते। सामानाधिकरण्यादिति चेन्न- पिण्डमात्रे सिद्धसाधनात्, निमित्ते चासिद्धेः, सादृश्यस्यानिमित्तत्वादित्युक्तम्।
 
[कु.3.357] ननु व्याप्तिपरमिदं वाक्यं स्यात्, यो गोसदृशः स गवयपदार्थ इति। तथाच वाक्यादवगतप्रतिबन्धोऽनुमिनुयात्- अयमसौ गवयो गोसदृशत्वादितिदेशवाक्यावगतपिण्डवदिति- न- विपर्ययात्। न हि गोसदृशं बुद्धावारोप्यानेन पृष्टः, स किं शब्दवाच्य इति। किन्तु सामान्यतो गवयपदार्थमवगम्य स कीदृगिति। तथाच यद्योगप्राथम्याभ्यां तस्यैव व्याप्यत्वम्। ततः किं तेन, प्रकृतानुपयोगात्।
 
[कु.3.358] अथ (193)किंलक्षणकोऽसाविति प्रश्नार्थः। तदा व्यतिरेकिपरं (194)स्यात्, लक्षणस्य तथाभवात्। तथाच गोसदृशो गवय इत्यस्यार्थः- यो गवय इति न व्यवह्रियते नाऽसौ गोसदृश इति। एवञ्च प्रयोक्तव्यम्- अयमसौ गवय इति व्यवहर्तव्यः गोसदृशत्वात्, यस्तु न तथा, गोसदृशः यथा हस्ती। न च हस्त्यादीनां विपक्षत्वे प्रमाणमस्ति, सर्वाप्रयोगस्य दुरवधार(ण)त्वात्; कतिपयाव्यवहारस्य चानैकान्तिकत्वात्।
 
[कु.3.359] ननु लिङ्गमात्रे प्रश्नो भविष्यति, कीदृक् किं लिङ्गमिति- न- न ह्यनेन लिङ्गमविज्ञाय गवयशब्दस्य वाचकत्वं कस्यचिद्वाच्यत्वं वाऽवगतम्, येन तदर्थं प्रश्नस्स्यात्। प्रवृत्तिनिमित्तविशेषलिङ्गे प्रश्नः, येन निमित्तेन गवयशब्दः प्रवर्तते तस्य किं लिङ्गमिति चेन्न- न हि तदवश्यमनुमेयमेवेत्यनेन निश्चितम्, यत इदं स्यात्। ज्ञानोपायमात्रप्रश्ने तद्विशेषेणोत्तरमिति चेन्न- अविशेषादिन्द्रियसन्निकर्षमप्युत्तरयेत्; पर्यायान्तरं वा। यथा- गवयमहं कथं जानीयामिति प्रश्ने, वनं गतो द्रक्ष्यसीति; यथा वा- कः पिक इत्यत्र, कोकिल इति। तस्मान्निमित्तभेदप्रश्न एवायम्, गवयो गवयपदवाच्यः कीदृक् केन निमित्तेनेति युक्तमुत्पश्यामः। तस्य च निमित्तविशेषस्य साक्षादुपदर्शयितुमश्क्यत्वात् पृष्टस्तदुलक्षणं किञ्चिदाचष्टे। तच्चोपमानसामग्रीसमुत्थापनमेव। तस्य च प्रमाणस्य सतस्तर्कस्सहायतामापद्यते- `सादृश्यस्यैव निमित्ततायां कल्पनागौरवम्, निमित्तान्तरकल्पने च क्लृप्तकल्प्यविरोध' इति तदेव निमित्तमवगच्छतीति।
 
[कु.3.360] लक्षणन्त्वस्य अनवगतसङ्गतिसञ्ज्ञासमभिव्याहृतवाक्यार्थस्य सञ्ज्ञिन्यनुसन्धानमुपमानम्। वाक्यार्थश्च क्वचित् साधर्म्यं क्वचिद्वैधर्म्यम्। अतो नाव्यापकम्। तस्मान्नियतविषयत्वादेव न तेन बाधः, न त्वनतिरेकादिति स्थितिः।
कु.3.[361] शब्दोऽपि न बाधकमनुमानानतिरेकादिति वैशेषिकादयः। तथा हि- यद्यपि एते पदार्था मिथः संसर्गवन्तः वाक्यत्वादिति व्यधिकरणम्; पदार्थत्वादिति चानैकान्तिकम्; पदैस्स्मारितत्वादित्यपि तथा। यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभावः। न ह्यत्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषणविशेष्यभावो वा सम्भवति। ज्ञाप्यज्ञापकभावस्तु स्वातन्त्र्येण अनुमानान्तर्भाववादिभिर्नेष्यते। न च लिङ्गतया ज्ञापकत्वं यत् लिङ्गस्य (195) विषयस्तदेव तस्य, परस्पराश्रयप्रसङ्गात्। तदुपलम्भे हि व्याप्तिसिद्धिस्तत्सिद्धौ च तदनुमानमिति। तथापि- आकाङ्क्षादिमद्भिः पदैः स्मारितत्वात् गामभ्याजेति पदार्थवदिति स्यात्। न च विशेषासिद्धिर्दोषः, संसर्गस्य संसृज्यमानविशेषादेव विशिष्टत्वात्। यद्वा एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमत्त्वे सति तत्स्मारकत्वात् गामभ्याजेति पदवत्। न चैवमर्थासिद्धिः, ज्ञानावच्छेदकतयैव तत्सिद्धेः। तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतिलम्भ इति।
 
[कु.3.362] अत्रोच्यते-
::: अनेकान्तः परिच्छेदे सम्भवे च न निश्चयः।
::: आकाङ्क्षा सत्तया हेतुर्योग्यासत्तिरबन्धना॥13॥
: एते पदार्थामिथस्संर्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः सम्भावितसंसर्गा इति वा।
 
[कु.3.363] न प्रथमः, अनाप्तोक्तपदकदम्बस्मारितैरनेकान्तात्। आप्तोक्त्या विशेषणीयमिति चेन्न- वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः। न ह्यविप्रलम्भकत्वमात्रमिहाप्तशब्देन विवक्षितम्, तदुक्तेरपि पदार्थसंसर्गव्यभिचारात्। अपितु तदनुभवप्रामाण्यमपि। न चैतच्छक्यम् (196)असर्वज्ञे सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम्, भ्रान्तेः पुरुषधर्मत्वात्। यत्र (197)क्वचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोपयोगः। ततोऽस्मिन्नर्थेऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम्। नचैतत् संसर्गविशेषमप्रतीत्य शक्यम्; बुद्धेरर्थंभेदमन्तरेण निरूपयितुमशक्यत्वात्। पदार्थमात्रे चाभ्रान्तत्वसिद्धौ न किञ्चित्; अनाप्तसाधारण्यात्। एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेन्न- एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धेः। अननुभूतचरे स्मरणायोगात्, तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति।
 
[कु.3.364] नापि द्वितीयः, योग्यतामात्रसिद्धावपि संसर्गानिश्चयात्, वाक्यस्य च तदेकफलत्वात्। योग्यतामात्रस्य प्रागेव सिद्धेः। अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मारितत्वादित्येव हेतुस्स्यात्। तथाचाग्निना सिञ्चेदित्यादिना स्मारितैरनैकान्तः; तथाविधानां सर्वथा संसर्गायोग्यत्वादिति।
 
[कु.3.365] एवं द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति। तत्र केयमाकाङ्क्षा नाम? न तावद्विशेषणविशेष्यभावः, तस्य संसर्ग(र्गविशेष)स्वभावतया साध्यत्वात्। नापि तद्योग्यता, योग्यतयैव गतार्थत्वात्। नाप्यविनाभावः, नीलं सरोजमित्यादौ तदभावेऽपि वाक्यार्थप्रत्ययात्। तत्राऽपि विशेषाक्षिप्तसामान्ययोरविनाभावोऽस्तीति (वोप्याकाङ्क्षेति) चेन्न- अहो विमलं जलं नद्याः, कच्छे महिषश्चरतीत्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात्। नापि प्रतिपत्तुर्जिज्ञासा, पटो भवतीत्यादौ शुक्लादिजिज्ञासायां (सया)रक्तः पटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात्। `गुणक्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाङ्क्षा। पट इत्युक्ते किंरूपः, कुत्र किं करोतीत्यादिरूपजिज्ञासा। तत्र, भवतीत्युक्ते, किं करोतीत्येषैव पदस्मारितविषया, न तु किं रूप इत्यादिरपि। यदा तु रक्त इत्युच्यते, तदा किंरूप इत्येषाऽपि स्मारितविषया स्यात् इति न किञ्चिदनुपपन्न'मिति चेत्- एवं तर्हि चक्षुषी निमील्य परिभावयतु भवान्, किमस्यां जातायामन्वयप्रत्ययः अथ ज्ञातायामिति। तत्र प्रथमे नानया व्यभिचारव्यावर्तनाय (वारणाय)हेतुर्विशेषणीयः, मनस्संयोगादिवत् सत्तामात्रेणोपयोगात्। आसत्तियोग्यतामात्रेण विशिष्टस्तु निश्चितोऽपि न गमकः; अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ व्यभिवचारात्।
 
[कु.3.366] द्वितीयस्तु स्यादपि, यद्यनुमानान्तरवत्तत्सद्भावेऽपि तज्ज्ञानवैधुर्यादन्वयप्रत्ययो न जायते। नत्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साकाङ्क्षस्य सर्वत्र वाक्यार्थप्रत्ययात्। निवृत्ताकाङ्क्षस्य च तदभावात्। कथमेष निश्चयः, साकाङ्क्ष एव प्रत्येति, न तु ज्ञाताकाङ्क्ष इति चेत्- तावन्मात्रेणोपपत्तावनुपलभ्यमानज्ञानकल्पनाऽनुपपत्तेः। अन्यत्र तथा दर्शनाच्च। यथा (दा) हि दूराद्दृष्टसामान्यो जिज्ञासते कोऽयमिति, प्रत्यासीदंश्च, स्थाणुरयमिति प्रत्येति, तदाऽस्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावेऽपि स्थाणुरयमित्यर्थ(न्वय)प्रत्ययो भवति- तथेहाप्यविशेषात् विशेषोपस्थानकाले संसर्गावगतिरेव जायते, न तु जिज्ञासावगतिरिति। न च विशेषोपस्थानात्प्रागेव जिज्ञासावगतिः प्रकृतोपयोगिनी, तावन्मात्रस्यानाकाङ्क्षा(ङ्क्ष)त्वात्।
 
[कु.3.367] न चैवम्भूतोऽप्ययमैकान्तिको हेतुः। यदा ह्ययमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति वक्तोच्चारयति, श्रोता च व्यासङ्गादिना निमित्तेन अयमेति पुत्र इत्यश्रुत्वैव; राज्ञः पुरुषोऽपसार्यतामिति श्रृणोति, तदाऽस्त्याकाङ्क्षादिमत्त्वे सति पदकदम्बकत्वम्? न च स्मारितार्थसंसर्गज्ञानपूर्वकत्वमिति।
 
[कु.3.368] स्यादेतत्- यावत्समभिव्याहृतत्वेन विशेषिते हेतौ नायं दोषः, तथाविधस्य व्यभिचारोदाहरणासंस्पर्शात्। कुतस्त्यस्तर्हि कतिपयपदश्राविणः संसर्गप्रत्ययः? अलिङ्ग एव लिङ्गत्वाध्यारोपात्। एतावानेवायं समभिव्याहार इति तत्र श्रोतुरभिमानः- न- तत्सन्देहेऽपि श्रुतानुरूपसंसर्गावगमात्। भवति हि तत्र प्रत्ययः, न जाने किमपरमनेनोक्तम्, एतावदेव श्रुतम्, यद्राज्ञः पुरुषोऽपसार्यतामिति। भ्रान्तिरसाविति चेत्- न तावदसौ दुष्टेन्द्रियजा, परोक्षाकारत्वात्। न लिङ्गाभासजा, लिङ्गाभिमानाभावेऽपि जायमानत्वात्। एतावत्प(दृक्प)दकदम्बप्रतिसन्धानमेव तां जनयतीति चेत्। यद्येवम्, तदेवादुष्टं सदभ्रान्तिं जनयत् केन वारणीयम्। व्याप्तिप्रतिसन्धानं विनाऽपि तस्य संसर्गप्रत्यायने सामर्थ्यावधारणात् चक्षुरादिवत्।
 
[कु.3.369] नास्त्येव तत्र संसर्गप्रत्ययः; असंसर्गाग्रहमात्रेण तु तथा व्यवहार इति चेत्- तर्हि यावत्समभिव्याहारेणापि विशेषणेनाप्रतीकारः, तथाभूतस्यानाप्तवाक्यस्य संसर्गज्ञानपूर्वकत्वाभावात्। असंसर्गाग्रहपूर्वकत्वमात्रे साध्ये न व्यभिचार इति चेत्- एवं तर्हि संसर्गो न सिद्ध्येत्। आप्तवाक्येषु सेत्स्यतीति चेन्न- सर्वविषयाऽऽप्तत्वस्यासिद्धेः, यत्र क्वचिदाप्तत्वस्यानैकान्तिकत्वात्, प्रकृतविषये चाप्तत्वसिद्धौ संसर्गविशेषस्य प्रागेव सिद्ध्यभ्युपगमादित्युक्तम्।
 
[कु.3.370] न च सर्वत्र जिज्ञासा निबन्धनम्, अजिज्ञासोरपि वाक्यार्थप्रत्ययात्। आकाङ्क्षापदार्थस्तर्हि कः? जिज्ञासां प्रति योग्यता। सा च स्मा(198)रिततदाक्षिप्तयोर(प्ता)विनाभावे सति श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः। न चैषोऽपि ज्ञानमपेक्षते, (199)प्रतियोगिनिरूपणाधीननिरूपणत्वात्तदभावस्य, तस्य च विषयनिरूप्यत्वादिति।
 
[कु.3.371] प्राभाकरस्तु लोकवेदसाधारणव्युत्पत्तिबलेनान्विताभिधानं प्रसाध्य वेदस्यापौरुषेयतया वक्तृज्ञानानुमानानवकाशात् संसर्गे शब्दस्यैव स्वातन्त्र्येण प्रामाण्यमास्थिषत; लोके त्वनुमानत एव वक्तृज्ञानोपसर्जनतया संसर्गस्य सिद्धेरन्विताभिधानबलायातेपि प्रतिपादकत्वेऽनुवादकतामात्रं वाक्यस्येति निर्णीतन्तः। तदतिस्थवीयः-
::: निर्णीतशक्तेर्वाक्यस्याद्धि प्रागेवार्थस्य निर्णये।
::: व्याप्तिस्मृतिविलम्बेन लिङ्गस्यैवानुवादिता॥14॥
:यावती हि वेदे सामग्री, तावत्येव लोकेऽपि भवन्ती कथमिव नार्थं गमयेत्। नह्यपेक्षणीयान्तरमस्ति। लिङ्गे तु परिपूर्णेऽप्यवगते व्याप्तिस्मृतिरपेक्षणीयाऽस्तीति, विलम्बेन किं निर्णेयम्; अन्वय(अर्थ)स्य प्रागेव प्रतीतेः।
 
[कु.3.372] लोके वक्तुराप्तत्वनिश्चयोऽपेक्षणीय इति चेन्न- तद्रहितस्यापि स्वार्थप्रत्यायने शब्दस्य शक्तेरवधारणात्। अन्यथा वेदेऽप्यर्थप्रत्ययो न स्यात्, तदभावात्। न च लोके अन्यान्येव पदानि; येन शक्तिवैचित्र्यं स्यात्। अनाप्तोक्तौ व्यभिचारदर्शनात् तुल्याऽपि सामग्री सन्देहेन शिथिलायते इति चेन्न- चक्षुरादौ व्यभिचारदर्शनेन (रसत्वेन) शङ्कायामपि सत्यां ज्ञानसामग्रीतस्तदुत्पत्तिदर्शनात्। ज्ञायमानस्यायं विधिः, यत् सन्देहे सति न निश्चायकम्,(200) यथा लिङ्गम्; चक्षुरादि तु सत्तयेति चेन्न- वाक्यस्य निश्चतत्वात्; आप्तोक्तत्वस्य चार्थप्रत्ययं प्रत्यनङ्गत्वात्। लोकेऽपि चाप्तत्वानिश्चयेऽपि वाक्यार्थप्रतीतेः। भवति हि वेदानुकारेण पठ्यमानेषु अपौरुषेयत्वाभिमानिनो गौड(201)मीमांसकस्यार्थनिश्चयः। न चासौ (चायं) भ्रान्तिः, पौरुषेयत्वनिश्चयदशायामपि तथानिश्चया(थात्वा)दिति।
 
[कु.3.373] स्यादेतत्- नाप्तोक्तत्वमर्थप्रतीतेरङ्गमिति ब्रूमः; किन्त्वनाप्तोक्तत्वशङ्कानिरासः (सम्)। स च क्वचिदपौरुषेयत्वनिश्चयात्, क्वचिदाप्तोक्तत्वावधारणादिति चेत्- तत् किमपौरुषेयत्वस्याप्रतीतौ, सन्देहे वा वेदवाक्याद्विदितपदार्थसङ्गतेरर्थप्रत्यय एव न भवेत्, भवन्नपि वा न श्रद्धेयः? प्रथमे सत्यादय एव प्रमाणम्। नचासंसर्गाग्रहे तदानीं संसर्गव्यवहारः, बाधकस्यात्यन्तमभावात्। तथापि तत्कल्पनायामन्वयोच्छेदप्रसङ्गात्। द्वितीये त्वश्रद्धा प्रत्यक्षवत् निमित्तान्तरान्निवर्त्स्यतीति वेदे यदि, लोकेऽपि तथा स्यादविशेषात्।
 
[कु.3.374] अन्यथा वेदस्याप्यनुवाकताप्रसङ्गः (ङ्गात्)। तदुच्यते। (थाहि)।
::: व्यस्तपुम्दूषणाशङ्कैः स्मारितत्वात् पदैरमी।
::: अन्विता इति निर्णीते वेदस्यापि न तत् कुतः॥ 15॥
:यदा ह्यपौरुषेयत्वनिश्चयात् प्राक् वेदो न किञ्चिदभिधत्ते इति पक्षः,तदा आप्तोक्तत्वनिश्चयोत्तरकालं (202)लोकवत्, वेदेऽप्यपौरुषेयत्वनिश्चयात् पश्चादनुमानावतारः। इयांस्तु विशेषः- यदत्र पदार्थानेव पक्षीकृत्य निरस्तपुम्दोषाशङ्कैराकाङ्क्षादिमद्भिः पदैः स्मारितत्वादाप्तोक्तपदकदम्बकस्मारितपदार्थवत् संसर्ग एवाहत्य साध्यः,बुद्धिव्यवहितस्त्वितरत्रेति। फलतो न कश्चिद्विवशेष इति । तथा चान्विताभिधानेऽपि जघन्यत्वाद्वेदस्यानुवादकत्वप्रसङ्गः। न चैवं सति तत्र प्रमाणमस्ति। विशिष्टप्रतिपत्यन्यथानुपपत्या हि शब्दस्य तत्र शक्तिः परिकल्पनीया। सा चानुमानेनैवोपपन्नेति वृथा प्रयासः। तस्माल्लोके शब्दस्यानुवादकतेति विपरीतकल्पनेयमायुष्मताम्।
 
[कु.3.375] किं चेदमन्विताभिधानं नाम? न तावदन्वितप्रतिपादनमात्रम्, अविवादात्। नापि स्वार्थाभिधायास्तत्र तात्पर्यम्, अविवादादेव। नापि सङ्गतिबलेन तत्प्रतिपादनम्, वाक्यार्थस्यापूर्वत्वात्। नापि स्वार्थसङ्गतिबलेन, तस्य स्वार्थ एवोपक्षयात्। नापि सैव सङ्गतिरुभयप्रतिपादिका, प्रतीतिक्रमानुपपत्तेः। यौगपद्याभ््युपगमे तु योग्यत्वादिप्रतिसन्धानशून्यस्यापि पदार्थप्रत्ययवत् वाक्यार्थप्रत्ययप्रसङ्गात्। नापि सैव सङ्गतिः स्वार्थे निरपेक्षा, वाक्यार्थे तु पदार्थप्रतिपादनावान्तरव्यापारेति युक्तम्- तस्याः स्वयमकरणत्वात्। सङ्गतानि पदानि हि करणम्, न तु सङ्गतिः। तथापि तत्प्रतिपादनानुगुणसङ्गतिशालीनि पदानीति चेत्- न तावद्वाक्यार्थप्रतिपादनानुगुणता सङ्गरेस्तदाश्रयत्वेन; सामान्यमात्रगोचरत्वात्, तद्वन्मात्रगोचरत्वाद्वा। नापि तदनुगुणव्यापारवत्वेन, अकरणत्वादित्युक्तम्। तदनुगुणकरणव्यापारोत्थापकत्वात्तदनुगुणत्वे न नो विवादः। अन्वित एव शक्तिरिति चेत्- उक्तमत्र वाक्यार्थस्यापूर्वत्वात् प्रतीतिक्रमानुपपत्तेश्चेति।
 
[कु.3.376] स्मृतक्रियान्विते कारके स्मृतकारकान्वितायाञ्च क्रियायां सङ्गतिः। अतो नोक्तदोषावकाशः। नापि पर्यायतापत्तिः, प्राधान्येन नियमात्। नापि पौनरुक्त्यम्, विशेषान्वये तात्पर्यात्। नापीतरेतराश्रयत्वम्, स्वार्थस्मृतावनपेक्षणात्। नापिवाक्यभेदापत्तिः, परस्परपदार्थस्मृतिसन्निधौ तदितरानपेक्षणात्- इति चेत्- न अन्विते सङ्गतिग्रह इति कोऽर्थः? यदि यत्र सङ्गतिस्तद्वस्तुगत्या पदार्थान्वितम्, न किञ्चित् प्रकृतोपयोगि। न हि यत्र चक्षुषः सामर्थ्यमवगतं तद्वस्तुगत्या स्पर्शवदिति, तद्वत्ताऽपि तस्य विषयः। अथाऽन्विततयैव तत्र व्युत्पत्तिरित्यर्थः- तदसत्, प्रमाणाभावात्।
 
[कु.3.377] अन्वितार्थप्रतिपत्त्यन्यथानुपपत्तिरिति चेन्न। अनन्विताभिधानेनाप्युपपत्तेः। आकाङ्क्षानुपपत्तिरस्तु। न हि सामान्यतोऽन्वितानवगमेऽन्वयविशेषे जिज्ञासा स्यात्- न- दृष्टे फलविशेषे रसविशेषजिज्ञासावदाक्षेपतोऽप्युपपत्तेः।
 
[कु.3.378] शब्दमहिमानमन्तरेण यतः कुतश्चिदपि स्मृतेषु पदार्थेषु अन्वयप्रतीतिः स्यात्। न चैवम्। ततः शब्दशक्तिरवश्यं कल्पनीयेति चेत्- कुतस्तर्हि कविकाव्यानि विलसन्ति। न हि संसर्गविशेषमप्रतीत्य वाक्यरचना नाम। न च स्वोत्प्रेक्षायां प्रत्यक्षमनुमानं शब्दस्तदाभासा वा सम्भवन्ति, अन्यत्र चन्तावशेन पदार्थस्मरणेभ्यः। असंसर्गाग्रहोऽसाविति चेत्; मम तावत् संसर्गग्रह एवासौ। तवापि सैव पदावली क्वचिदन्वये पर्यवस्यति, क्वचिदनन्वयाग्रहे इति कुतो विशेषात्?
 
[कु.3.379] आप्तानाप्तवक्तृकतयेति चेत्; किं तथाविधेन वक्त्रा तत्र कश्चिद्विशेष आहितः? आहो वक्तैवाच्छेदकतया विशेषः? प्रथमे अभिहितान्वयवादिनामिव तवापि शक्तिकल्पनागौरवम्। द्वितीये तु वक्तुरिव पदानामप्यवच्छेदकतयैव विशेषकत्वमस्तु। एवं तर्हि पदानामप्यन्वयप्रतीतावस्त्युपयोगः। कस्सन्देहः। परं पदार्थाभिधानेन; न त्वन्यथा। यथा तवैव, आप्तस्य संसर्गपरतया पदसमभिव्याहारमात्रेण; न त्वन्यथा। अन्यथा गुरुमतविदामेव श्लोक आप्तपदप्रक्षेपेण पठनीयः-
::: प्राथम्यादभिधातृत्वात् तात्पर्योपगमादपि।
::: आप्तानामेव सा शक्तिर्वरमभ्युपगम्यताम्॥इति॥
 
[कु.3.380] तस्मात् प्रकारान्तरेण संसर्गप्रत्ययो भवतु मा वा, पदार्थानामाकाङ्क्षादिमत्त्वे सति अभिहितानामवश्यमन्वय इति कुतोऽतिप्रसङ्गः?
 
[कु.3.381] न चैवं सति पदार्था एव करणम्, तेषामनागतादिरूपतया कारकत्वानुपपत्तौ तद्विशेषस्य करणत्वस्यायोगात्। तत्संसर्गे प्रमाणान्तरासङ्कीर्णोदाहरणाभावाच्च। पदानां तु पूर्वभावनियमेन पदार्थस्मरणावान्तरव्यापारवत्तया तदुपपत्तेः; व्यापारस्याव्यवधायकत्वादिति कृतं प्रसक्तानुप्रसक्त्या।
 
[कु.3.382] अस्तु तर्हि शब्द एव बाधकं सर्वज्ञे कर्तरि। तथाहि-
::: प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
::: अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥ (गी.) इत्यादि पठन्ति।
: अस्यायमर्थः- न पारमार्थिकं चेतनस्य कर्तृत्वमस्ति। आभिमानिकं तु तत्। न च सर्वज्ञस्याभिमानः। न चासर्वज्ञस्य जगत्कर्तृत्वमस्ति- उच्यते-
::: न प्रमाणमनाप्तोक्तिर्नादृष्टे क्वचिदाप्तता।
::: अदृश्यदृष्टौ सर्वज्ञो न च नित्यागमः क्षमः॥16॥
: यदि हि सर्वज्ञकर्त्रभावाऽऽवेदकः शब्दो नाप्तोक्तः, न तर्हि प्रमाणम्। अथाप्तोऽस्य वक्ता, कथं न तदर्थदर्शी। अतीन्द्रियार्थदर्शीति चेत्- कथमसर्वज्ञः, कथं वा न कर्ता, आगमस्यैव प्रणयनात्। न च नित्यागमसम्भवः, विच्छेदादित्यावेदितम्।
 
[कु.3.383] अपिच-
::: न चासौ क्वचिदेकान्तः सत्त्वस्यापि प्रवेदनात्।
::: निरञ्जनावबोधार्थो न च सन्नपि तत्परः॥17॥
: नह्यसत्त्वपक्ष एवागमो नियतः, ईश्वरसद्भावस्यैव भूयस्सु प्रदेशेषु प्रतिपादनात्। तथाचाग्रे दर्शयिष्यामः। तथाच सति क्वचिदसत्त्वप्रतिपादनमनेकान्तं न बाधकम्। सत्त्वप्रतिपादनमपि तर्हि न साधनमिति चेत्- आपाततस्तावदेवमेतत्। यदा तु निःशेषविशेषगुणशून्यात्मस्वरूपप्रतिपादनार्थत्वमकर्तृकत्वागमानामवधारयिष्यते तदा न तन्निषेधे तात्पर्यममीषामिति सत्त्वप्रतिपादकानामेवागमानां प्रामाण्यं भविष्यतीति। न च तेषामप्यन्यत्र तात्पर्यमिति वक्ष्यामः।
 
[कु.3.384] अस्त्वर्थापत्तिस्तर्हि बाधिका। तथाहि- यद्यभविष्यत्, नोपादेक्ष्यत्। न ह्यसावनुपदिश्य प्रवर्तयितुं न जानाति। अत उपदेश एवान्यथानुपपद्यमानस्तथाविधस्याभावमौदासीन्यं वाऽऽवेदयति- न- अन्यथैवोपपत्तेः।
::: हेत्वभावे फलाभावात् प्रमाणेऽसति न प्रमा।
::: तदभावात् प्रवृत्तिर्नो कर्मवादेऽप्ययं विधिः॥18॥
: बुद्धिपूर्वां हि प्रवृत्तिर्न बुद्धिमनुत्पाद्य शक्यसम्पादना। न च प्रकृते बुद्धिरप्युपदेशमन्तरेण शक्यसिद्धिः, तस्यैव तत्कारणत्वात्। भूतावेशन्यायेन प्रवर्तयेदिति चेत् - प्रवर्तयेदेव, यदि तथा फलसिद्धिः स्यात्। न त्वेवम्। कुत एतदवसितम्? उपदेशान्यथानुपपत्त्यैव। यस्यापि मते अदृष्टवशादेव भूतानां प्रवृत्तिः, तस्यापि तुल्यमेतत्। यद्यस्ति प्रवृत्तिनिमित्तमदृष्टम्, किमुपदेशेन, तत एव प्रवृत्तिसिद्धेः। न चेत्, तथापि किमुपदेशेन, तदभावे तस्मिन् सत्यप्यप्रवृत्तेः। नित्यः स्वतन्त्र उपदेशो न पर्यनुयोज्य इति चेत्- यूयं पर्यनुयोज्याः, ये तम(मन)वधानतो धारयन्ति विचारयन्ति चेति।
 
[कु.3.385] न चार्थापत्तिरनुमानतो भिद्यते, लोके तदसङ्कीर्णोदाहरणाभावात् प्रकारान्तराभावाच्च। तथाहि-
::: अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः।
::: न मानयोर्विरोधोऽस्ति प्रसिद्धे वाऽप्यसौ समः॥19॥
: जीवंश्चैत्रो गृहे नास्तीति अनुपपद्यमानमसति बहिःसद्भावे, तमाप(मावे)दयतीत्युदहरन्ति। तत्र चिन्त्यते- किमनुपपन्नं जीवतो गृहाभावस्येति। न ह्यनियमयस्यानियामकं विना किञ्चिदनुपपन्नम्, अतिप्रसङ्गात्। ननु स्वरूपमेव। तत् न तावद्बहिः सत्त्वेन कर्तव्यम्, तदकार्यत्वात् तस्य। स्थितिरेवास्य तेन विना न स्यादित्यस्य स्वभाव इति चेत्- एवं तर्हि तन्नियतस्वभाव एवासौ; व्याप्तेरेव व्यतिरेकमुखनिरूप्यायास्तथाव्यपदेशात्।
 
[कु.3.386] कथं वा (च) बहिःसत्त्वमस्योपपादकम्? न हि अनियामको भवन्नप्यनियम्यमुपपादयति, अतिप्रसङ्गादेव। स्वभावोऽस्य, यदनेन बहिःसत्त्वेन गेहासत्वं क्रोडीकृत्य स्थातव्यमिति चेत्- सेयं व्याप्तिरेवान्वयमुखनिरूप्या तथा व्यपदिश्यते इति।
 
[कु.3.387] न वयमविनाभावमर्थापत्तावपजानीमहे, किन्तु तज्ज्ञानम्। न चासौ सत्ता मात्रेण तदनुमानत्वमापादयतीति चेत्- न- अनुपपत्तिप्रतिसन्धानस्यावश्याभ्युपगन्तव्यत्वात्। अन्यथात्वतिप्रसङ्गात्। अर्थापत्त्याभासानवकाशाच्च। यदा ह्यन्यथैवो(थाप्यु)पपन्नमन्यथाऽनुपपन्नमिति मन्यते, तदाऽस्य विपर्ययः, न त्वन्यथेति।
 
[कु.3.388] तथापि कथमत्र व्याप्तिर्गृह्येतेति चेत्- यदाऽहमिह तदा नान्यत्र, यदान्यत्र तदा नेहेति सर्वप्रत्यक्षासिद्धमेतत्; का तत्रापि कथन्ता? सर्वदेशाप्रत्यक्षत्वे तत्राभावो दुरवधारण इत्यपि नास्ति, तेषामेव संसर्गस्यात्मनि प्रतिषेधात्। अयोग्यानां प्रतिषेधे का वार्तेति चेत्- तदवयवानां तत्संसर्गप्रतिषेधादेवानुमानात्; अन्येषां न काचित्। न ह्यकारणीभूतेन परमाणुना नेदं संसृष्टमिति निश्चेतुं शक्यमिति।
 
[कु.3.389] न चा(नाप्य)विनाभावनिश्चयेनापि गमयन्नपक्षधर्मोऽर्थापत्तिरिति युक्तम्- पक्षधर्मताया अनिमित्तत्वप्रसङ्गात्; अविशेषात्। व्यधिकरणेनाविनाभावनिश्चयायोगाच्च; यत् (203) यत्र यदेति प्रकारानुपपत्तेः।
 
[कु.3.390] प्रमाणयोर्विरोधे अर्थापत्तिरविरोधोपपादिका, न त्वेवमनुमानमित्यपि नास्ति। विरोधे हि रज्जुसर्पादिवदेकस्य बाध एव स्यात्, न तूभयोः प्रमाण्यम्। प्रामाण्ये वा न विरोधः, स्थूलमिदमेकमितिवत् सहसम्भवात्; चैत्रोऽयमयं तु मैत्र इतिवद्वा विषयभेदात्। प्रकृते क्वाप्यस्तीति सामान्यतो गेहस्यापि प्रवेशादेकविषयताऽप्यस्तीति चेत्- यद्येवम्, क्वचिदस्ति क्वचिन्नास्तीतिवन्न विरोधः। अत्रापि विरोध एवेति चेत्- एकं तर्हि भज्येत।
 
[कु.3.391] न भज्येत, अर्थापत्त्या उभयोरप्युपपादनादिति चेत््- किमनुपपद्यमानम्? विरोध एवान्यथानुपपद्यमानो विभिन्नविषयतया व्यवस्थापयतीति चेत्- अथाभिन्नविषयतयैव किं न व्यवस्थापयेत्। व्यवस्थापनमविरोधापादनम्। एकविषयतयैव चानयोर्विरोधः। स कथं तयैव शमयितव्यः न हि यो यद्विषमूर्च्छितः, स तेनैवोत्थाप्यते इति चेत्- एकविषयतया अनयोर्विरोध इत्येतदेव कुतः। विभिन्नदेशस्वभावतयैव सर्वत्रोपलम्भादिति चेत्- नन्वियं व्याप्तिरेव। तथाच घट्टकुट्यां (204) प्रभातमिति।
 
[कु.3.392] धूमोपि वानुपपद्यमानतयैव वह्निं गमयेत्। न हि तेन विना असावुपपद्यते। विरोधोऽपि- धूमाद्वह्निना भवितव्यम्,अनुपलब्धेश्च न भवितव्यमिति। तथाचानुपलब्धेरर्वाग्भागव्यवस्थापनम्, धूमस्य च व्यवधानेनानुपलभ्यवह्निविषयत्वस्थितिरर्थापत्तिरिति कुतोऽनुमानम्। वह्निमानयमित्यमनुमानं व्याप्तेः; अन्यथा अनुमानाभावे विरोधासिद्धेः। अर्वाग्भागानुपलब्धिविरोधेन परभागेऽस्य वह्निरित्यस्यार्थापत्तिरेवेति चेत्- न- व्याप्ति ग्राहकेण प्रमाणेन विरोधस्योक्तत्वात्। नाप्युत्तरा अर्थापत्तिः। अन्यथा पाण्डरत्वस्यापालालत्वविरोधेन पालालत्वस्थितिरप्यर्थापत्तिरेव स्यात्। तद्विशिष्टस्य तेनैव व्याप्तेर्नैवमिति चेत्- यद्येवम्, अर्वाग्भागानुपलभ्यमानवन्हित्वेन (मत्वेन) विशिष्टस्य धूमस्य तेनैव व्याप्तेः कथमेवं भविष्यतीति तुल्यम्।
 
[कु.3.393] केवलव्यतिरेक्यानुमानं पराभिमतमर्थापत्तिः; अन्वयाभावादिति चेत्- एवमेतावता विशेषेणानुमानेऽर्थापत्तिव्यवहारं न वारयामः। तत्रानुमानव्यवहारः कुत इति चेत्- अविनाभूतलिङ्गसमुत्पन्न(मुत्थ)त्वात्। साध्यधर्मेण विना ह्यभवनमन्वयिन इव व्यतिरेकिणोऽप्यविशिष्टम्, तन्निश्चयश्चाऽन्वयव्यतिरेकाभ्यामन्यतरेण वेति। तस्मादर्थापत्तिरित्यनुमानस्य पर्यायोऽयम्, तद्विशेषवचनं वा पूर्ववदादिवदिति युक्तम्।
 
[कु.3.394] अनुपलब्धिस्तु न बाधिकेति चिन्तितम्। न च प्रत्यक्षादेरतिरिच्यते। तदुच्यते-
::: प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्यानुपक्षयात्।
::: अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः॥20॥
 
[कु.3.395] या हि साक्षात्कारिणी प्रतीतिः, सा इन्द्रियकरणिका, यथा रूपादिप्रतीतिः; तथेह भूतले घटो नास्तीत्यपि। साक्षात्कारित्वमस्या असिद्धमिति चेन्न- एकजातीयत्वे ज्ञाताज्ञातकरणत्वानुपपत्तेः। न हि तस्मिन्नेव कार्ये तदेव करणमेकदा ज्ञातम् अज्ञातञ्चैकदोपयुज्यते, लिङ्गेन्द्रिययोरपि व्यत्ययप्रसङ्गात्, ज्ञानस्याकारणत्वप्रसङ्गाच्च। न हि तदतिपत्यापि भवतस्तत्कारणत्वम्,व्याघातात्। तस्मात् ज्ञातानुपलब्धिजन्यस्य साक्षात्कारित्वात् तद्विपरीतकारणकमिदं तद्विपरीतजातीयमिति न्याय्याम्। ननु क्व नाम ज्ञातानुपलब्धिरसाक्षात्कारिणीमभावप्रतीतिं जनयति? तद्यथा- निपुणतरमनुसृतो मया मन्दिरे चैत्रः; न चोपलब्ध इति श्रुत्या श्रोताऽनुमिनोति, नूनं नासीदेवेति। एतेन प्राङ्नास्तिताऽपि व्याख्याता। ननु तथाप्यवान्तरजातिभेदोऽस्तु; अज्ञातानुपलब्धिजन्ये साक्षात्कारस्तु कुत इति चेत्- कारणविरोधात् कार्यविरोधेन भवितव्यमित्युक्तमेव।
 
[कु.3.396] अनन्यत्रोपक्षीणेन्द्रियव्यापारानन्तरभावित्वाच्च। अधिकरणग्रहणे तदुपक्षीणमिति चेन्न- अन्धस्यापि त्वगिन्द्रियोपनीते घटादौ रूपविशेषाभावप्रतीतिप्रसङ्गात्। अस्ति हि तस्याधिकरणग्रहणम्। अस्ति च प्रतियोगिस्मरणम्। अस्ति च श्यामेरक्तत्वस्य योग्यस्याभावोऽनुपलब्धिश्च। अधिकरणग्राहकेन्द्रियग्राह्याभाववादिनोऽपि समानमेतदिति चेन्न- प्रतियोगिग्राहकेन्द्रियग्राह््योऽभाव इत्यभ्युपगमात्। ममापि प्रतियोगिग्राहकेन्द्रियगृहीतेऽधिकरणे अनुपलब्धिः प्रमाणमित्यभ्युपगम इति चेन्न- वायौ त्वगिन्द्रियोपनीते रूपाभावप्रतीत्यनुदयप्रसङ्गात्। तथापि तत्तत्र सन्निकृष्टमिति चेत्- हन्तैवमनन्यत्रचरितार्थमिन्द्रियमवश्यमपेक्षणीयं रूपाभावानुभवेन।
 
[कु.3.397] स्यादेतत्- तथापि वस्त्वन्तरग्रह एव तस्योपयोग इति चेन्न- तस्य तं प्रत्यकारणत्वात्। कारणत्वे वा महान्धकारे करपरामर्शेन स्पर्शवद्द्रव्याभावं न प्रतीयात्। प्रतीयाच्च पुरोविस्फारिताक्षः पृष्ठलग्नस्याश्यामत्वम्। आर्जवावस्थानमप्यधिकरणस्योपयुज्यते इति चेत्- तर्हि नयनसन्निकर्षोऽप्युपयोक्ष्यते। तदेकसहकारिप्रभासन्निकर्षापेक्षणात्; वातायन(205)विवरविसारिकरपरामृष्टेऽप्यधिकरणे तदुपलम्भप्रसङ्गाच्च।
 
[कु.3.398] तथापि योग्यतापादनोपक्षीणञ्चक्षुः। तदितर(206)सामग्रीसाकल्ये ह्यनुपलभ्यमानस्याभावो निश्चीयते। तच्च चक्षुष्यधिरकरणसन्निकृष्टे सति स्यादिति चेत्- ननु परिपूर्णानि कारणान्येव साकल्यम्। तथाच किं कुत्रोपक्षीणम्। अथान्योन्यमेलनं (207)मिथः प्रत्यासत्त्यादिशब्दवाच्यं तदुपक्षयविषयः, न तर्हि क्वचिच्चक्षुः कारणं स्यादिति। न हि रूपाद्युपलब्धिमप्यसन्निकृष्टमेतदुपजनयति।
 
[कु.3.399] अथाधिकरणसमवेतकिञ्चिदुपलम्भोऽपि तद्विषयाभावग्रहेऽनुपलब्धेरपेक्षणीयः। ततस्तत्रेदं चरितार्थम्। वाय्वादिषु तु रूपाद्यभावप्रतीतिरानुमानिकी। तथा(208)नुपलब्ध्या ह्यनुमीयते, अयं नीरूपो वायुरिति- न- असिद्धेः। न ह्युपलम्भाभावो भवतामभावोपलम्भः। उपलम्भस्यातीन्द्रियत्वाभ्युपगमात्। प्राकट्याभावेनानुमेय इति चेन्न- वायौ रूपवत्ताप्राकट्याभावस्याप्यसिद्धेः। रूपाभावेन समानत्वात्। व्यवहाराभावेनानुमेय इति चेन्न- कायवाग्व्यापाराभावेऽप्युपेक्षाज्ञानभावाभ्युपगमात्; मूकस्वप्नोपपत्तेश्च। न च व्यवहाराभावमात्रेणानुमातुमपि शक्यते, अनैकान्तिकत्वादसिद्धेश्च। तद्विषयस्तु व्यवहारस्तद्विषयज्ञानजन्यो वा, तद्विषयज्ञानजनको, वा तदाश्रयधर्मजनको वा। तदभावश्च तज्ज्ञानतदाश्रयधर्माभावान्तर्भूत एवेत्यशक्यनिश्चय एव। आत्माश्रयेतरेतराश्रयचक्रकप्रवृत्तिप्रसङ्गात्।
 
[कु.3.400] न चाज्ञातस्योपलम्भाद्यभावस्य लिङ्गता। न च प्राकट्याभावः सत्तामात्रेणोपलम्भाभावमावेदयतीति युक्तम्- लिङ्गाभावस्य तथात्वेऽतिप्रसङ्गात्। अविनाभावबलेन तु नियमे तत्प्रतिसन्धानापत्तेः। न ह्यविनाभावः सत्तामात्रेण ज्ञानहेतुं नियमयति, धूमादावपि तथाभावप्रसङ्गादिति।
 
[कु.3.401] ज्ञानप्रत्यक्षत्वेन त्वद्दिशा भविष्यतीति चेन्न- शब्दध्वंसादिनोक्तोत्तरत्वात्।
 
[कु.3.402] अपिच प्रतियोगिग्राहकेन्द्रियेणाधिकरणधर्मप्रतीतिरनुपलब्धेरङ्गमिति, तद्रहितायास्तस्याः कार्यव्यभिचाराद्व्यवस्थाप्येत, व्याप्तिबलाद्वा (208)। न तावदुक्तरूपानुपलब्धिस्तां विना अभावप्रत्ययमजनयन्ती दृश्यते। नापि व्याप्तेः, तथा सति वयौ रूपाभावप्रत्ययस्तामाक्षिपेत्, एवम्भूतत्वात्। अनाक्षेपे वा,न तत्कारणको भवेत्, न वा भवेत्। ततो न भवत्येव, लिङ्गात्तदुत्पत्ति(209)रिति चेत्- ननु लिङ्गमपि सैव; न तत्त्वान्तरम्। यथा योनिसम्बन्धोऽलिङ्गदशायामिन्द्रियसन्निकर्षमपेक्षते, लिङ्गदशायां तु तदनपेक्ष एव ब्राह्मण्यज्ञाने, तथैतत् स्यादिति चेन्न- कार्यजातिभेदात्तदुपपत्तेः; प्रकृते च तदनभ्युपगमात्। पारोक्ष्यापारोक्ष्ये विहायान्यथाऽप्यसौ भविष्यतीति चेन्न- अनुपलम्भात्। सम्भाव्यते तावदिति चेत्- सम्भाव्यताम्, न त्वेतावताऽपि तमाश्रित्य करणनियमनिश्चयः।
 
[कु.3.403] अज्ञातकरणत्वाच्च। यदज्ञायमानकरणजं ज्ञानं तत्साक्षादिन्द्रियजम्, यथा रूपप्रत्यक्षम्। तथाचेह भूतले घटो नास्तीति ज्ञानमिति। यथा वा स्मरणमज्ञायमानकरणजं साक्षान्मनोजन्म। कुतस्तर्हि न साक्षात्कार्यनुभवरूपम्? संस्कारातिरिक्तसन्निकर्षाभावादिति वक्ष्यामः।
 
[कु.3.404] तथापि भावविषये इयं व्यवस्था, अभावज्ञानं त्वज्ञातकरणत्वेऽपि न साक्षादिन्द्रियजं भविष्यतीति चेन्न- उत्सर्गस्य बाधकाभावेन सङ्कोचानुपपत्तेः। अन्यथा सर्वव्याप्तीनां भावमात्रविषयत्वप्रसङ्गः, अविशेषात्। तथापि विपक्षे किं बाधकमिति चेत्- नन्विदमेव तावत्। अन्यदप्युच्यमानमाकर्णय। तद्यथा- अकारणककार्यप्रसङ्गः, रूपाद्युपलब्धीनामपि वाऽनिन्द्रियकरणत्वप्रसङ्गः। न ह्यनुमित्यादिभिरुपलभ्यमानकरणिकाभिश्चक्षुरादिव्यवस्थापनम्, अपित्वनुपलभ्यमानकरणिकाभी रूपाद्युपलब्धिभिरेव। यद्यपि साक्षात्कारिताऽपि तत्रैव पर्यवस्यति, तथापि प्रथमतोऽनुपलभ्यमानकरणत्वमेव प्रयोजकं चक्षुरादिकल्पने। न ह्युपलभ्यमाने करणान्तरे साक्षात्कारिणीष्वपि तासु चक्षुरादि अनुपलभ्यमानं कश्चिदकल्पयिष्यत्। अत एवासाक्षात्कारित्वेऽपि स्मृतेर्मन एव करणमुपागमन् धीराः। संस्कारस्त्वर्थविशेषप्रत्त्यासत्तावुपयुज्यते, इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनात्।
 
[कु.3.405] भावावेशाच्च चेतसः। सर्वत्र हि बाह्यार्थानुभवे जनयितव्ये भावभूतप्रमाणाविष्टमेव चेत उपयुज्यते, नातोऽन्यथेति व्याप्तिः, तथैव शक्तेरवधारणात्। न ह्यनुपलब्धिमात्रसहायं तत् अभावेऽप्यनुभवमाधातुमुत्सहते, शब्दलिङ्गादेरपेक्षादर्शनात्। न च यत्र यदपेक्षं यस्य जनकत्वमुपलब्धम्,तदेव तस्यैव तदनपेक्षं जनकमिति न्यायसहम्। आर्देन्धनसम्बन्धमन्तरेणापि दहनाद्धूमसम्भावनापत्तेः। तथाच गतं कार्यकारणभावपरिग्रहव्यसनेन।
 
[कु.3.406] अपि च -
::: प्रतियोगिनि सामर्थ्यात् व्यापाराव्यवधानतः।
::: अक्षाश्रयत्वाद्दोषाणामिन्द्रियाणि विकल्पनात्॥21॥
: यद्धि प्रमाणं यद्भावावगाहि, तत् तदभावगाहि, यथा लिङ्गं शब्दो वा; घटाद्यवगाहि चेन्द्रियमिति। अन्यथा हि शब्दादिकमपि नाभावमावेदयेत्, भाव एव सामर्थ्यावधारणात्। न चैवमेव न्याय्यम्। देवदत्तो गेहे नास्तीति शब्दात्, मया तत्र जिज्ञासमानेनापि न दृष्टो मैत्र इत्यवगतानुपलब्ध्याऽनुमानादप्यवगतेः।
 
[कु.3.407] ग्राहयतु वाऽऽश्रयमिन्द्रियम्, तथापि न तेनेदं व्यवधीयते, व्यापारत्वात्। अन्यथा सर्वसविकल्पकानां प्रत्यक्षत्वाय दत्तो जलाञ्चलिः स्यात्। नन्वेवं सति धूमोपलम्भोऽप्यस्य व्यापारस्स्यात्। तथा च गतमनुमानेनापीति चेन्न- यया क्रियया विना यस्य यत्कारणत्वं न निर्वहति, तं प्रति तस्या एव व्यापारत्वात्। न च धूमाद्युपलब्धिमन्तरेण चक्षुषो वन्हिज्ञानकारणत्वं न निर्वहति संयोगवदिति।
 
[कु.3.408] अस्ति च भावाभावविपर्ययः। सोऽयं यस्य दोषमनुविधत्ते, तदेवात्र करणमिति न्याय्यम्। न चानुपलब्धिः स्वभावतो दुष्टा; नाप्यधिकरणग्रहणं प्रतियोगिस्मरणं वा स्वभावतो दुष्टम्; अनुपत्पत्तिदशायामनुत्पत्तेः,उत्पत्तिदशायाञ्च स्वार्थप्रकाशनस्वभावताया अपरावृत्तेः। असंसृष्टयोरधिकरमप्रतियोगिनोः संसृष्टतया प्रतिमानं दुष्टम्; संसृष्टयोश्चासंसृष्टतयेति चेत्- नन्वयमेव विपर्ययः। तथाचाऽऽत्माश्रयो दोषः। तस्माद्दुष्टेन्द्रियस्य तद्विपर्ययसामर्थ्ये अदुष्टस्य तत्समीचीनज्ञानसामर्थ्यमपि। तथाच प्रयोगः- इन्द्रियमभावप्रमाकरणं तद्विपर्ययकरणत्वात्, यत् यद्विपर्ययकरणं तत् तत्प्रमाकरणम्, यथा रूपप्रमाकरणं चक्षुरिति।
 
[कु.3.409] विकल्पनात्खल्वपि। अघटं भूतलमिति हि विशिष्टधीरवश्यमिन्द्रियकरणिका स्वीकर्तव्या; प्रमाणान्तरं वा सप्तममास्थेयम्। यथा हि विशेष्यमात्रोपक्षीणमिन्द्रियमकरणमत्र, तथा विशेषणमात्रोपक्षीणाऽनुपलब्धिरपि न करणं स्यात्। स्वस्वविषयमात्रप्रवृत्तयोः प्रमाणयोः समाहारः कारणमिति चेन्न- विषयभेदे फलवैजात्ये च तदनुपपत्तेः। न हि मृत्सु तन्तुषु च व्याप्रियमाणयोः कुलालकुविन्दयोः समाहारस्स्यात्। नापि घटपटादिकारिणां चक्रवेमादीनां समाहारः क्वचिदुपयुज्यते। तत्र कर्बुरकार्याभावान्न तथा; प्रकृते तु विशिष्टप्रत्ययस्य परोक्षापरोक्षरूपस्य दर्शनात्तथेति चेन्न- विरुद्धजातिसमावेशाभावात्। भावे वा करम्बित (कर्बुर) एव कार्ये द्वयोरपि शक्तिरभ्युपगन्तव्या; दर्शनबलात्। न हि नियतविषयेण सामर्थ्येन कर्बुरकार्यसिद्धिः; अन्यत्रापि तथा प्रसङ्गात्। ननूभयोरप्युभयत्र सामर्थ्ये कोऽर्थो मिथःसन्निधानेनेति चेन्न- तत्सहितस्यैव तस्य तत्र सामर्थ्यादिति। एतेन सुरभि चन्दनमित्यादयो व्याख्याताः। तथाचाभावविषयेऽपीन्द्रियसामर्थ्यस्य दुरपह्नवत्वादलमसद्ग्रहेणेति।
 
[कु.3.410] स्यादेतत्- नागृहीते विशेषणे विशष्टबुद्धिरुदेति, तत्कार्यत्वात्। न च विशिष्टसामर्थ्ये केवलविशेषणेऽपि सामर्थ्यम्, केवलसौरभेऽपि चक्षुषो वृत्तिप्रसङ्गात्। अतोऽभावविशेषणग्रहणाय मानान्तरसम्भवः। अपि च कथमनालोचितोऽर्थ इन्द्रियेण विकल्प्येत? न च मानान्तरस्याप्येषा रीतिः,अनुमानादिभिरनालोचितस्याप्यर्थस्य विकल्पनात्। अप्राप्तेश्च। न ह्यभावेनेन्द्रियस्य संयोगादिः सम्भवति। न च विशेषणत्वम्, सम्बन्धान्तरपूर्वकत्वात्तस्य। अवश्याभ्युपगन्तव्यत्वाच्चानुपलब्धेः। न हि तदुपलब्धौ तस्याभावोपलम्भ इति चेत्-
 
[कु.3.411] उच्यते-
::: (210)अवच्छेदग्रहध्रौव्यादध्रौव्ये सिद्धसाधनात्।
::: प्राप्त्यन्तरेऽनवस्थानात्र चेदन्योऽपि दुर्घटः॥22॥
 
[कु.3.412] स ह्यर्थविशेषणीभविष्यन् केवलोऽपि विस्फुरेत्, यस्यावच्छेदकज्ञानं न व्यञ्जकम्। स च (वा) विकल्पयितव्य आलोच्यते, यो विशेषणज्ञाननिरपेक्षेणेन्द्रियेण विज्ञाप्यते। यस्तु तत्पुरःसर एव प्रकाशते, तत्र तस्य विकल्पसामग्रीसमवधानवत एव सामर्थ्यान्नायं विधिः।
 
[कु.3.413] स्वभावप्राप्तौ सत्यामप्यधिका प्राप्तिः प्रतिपत्तिबलेन रूपादावभ्युपगता। इह त्वनवस्थादुस्थतया न तदभ्युपगमः; न तु स्वभावप्रत्यासत्तिरेतावतैव विफलायते।
 
[कु.3.414] न चेदेवं, प्रमाणान्तरेऽपि सर्वमेतद्दुर्घटं स्यात्। तथाहि- सर्वमेव मानं साक्षात्परम्परया वा निर्विकल्पकविश्रान्तम्। न ह्यनुमानादिकमप्यनालोचनपूर्वकम्। ततोऽनालोचितोऽभावः कथमनुपलब्ध्यापि विकल्प्येत। न च तया तदालोचनमेव जन्यते,प्रतियोग्यनवच्छिन्नस्य तस्य निरूपयितुमशक्यत्वात्। शक्यत्वे वा किमपराद्धमिन्द्रियेण। तथा सम्बन्धान्तरगर्भत्वनियमेन विशेषणत्वस्य, मानान्तरेऽपि कः प्रतीकारः; तदभावस्य तदानीमपिसमानत्वात्। परस्य तादात्म्यमस्तीति चेत्- ननु यद्यसावस्ति, अस्त्येव; न चेत्, नैव।न ह्यभ्युपगमेनार्थाः क्रियन्ते, अनभ्युपगमेन वा निवर्तन्ते इति।
 
[कु.3.415] अवश्याभ्युपगन्तव्यत्वे कारणत्वं सिद्धयेत्, न तु मानान्तरत्वम्। अन्यथा भावोपलम्भेऽप्यभावानुपलब्धिरेव प्रमाणं स्यात्; नेन्द्रियम्। अभावोपलम्भे भावानुपलम्भवत्भावोपलम्भे अभावानुपलम्भस्यापि वज्रलेपायमानत्वादिति।
 
[कु.3.416]
::: (212) प्रत्यक्षादिभिरेभिरेवम् अधरो दूरे विरोधोदयः।
::: प्रायो यन्मुखवीक्षणैकविधुरैरात्माऽपि नासाद्यते॥
::: तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवम्।
::: देवानामपि देवमुद्भवदतिश्रद्धाः प्रपद्यामहे॥ 23॥
 
:::::: ॥ इति न्यायकुसुमाञ्चलौ तृतीयः स्तबकः ॥3॥
 
== चतुर्थस्तबकः ==
"https://sa.wikisource.org/wiki/न्यायकुसुमाञ्जलिः" इत्यस्माद् प्रतिप्राप्तम्