"न्यायकुसुमाञ्जलिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७७५:
 
[कु.4.509] यदि हि (यदि तर्हि) स्मृतिर्न प्रमितिः, पूर्वानुभवे किं प्रमाणम्? स्मृत्यन्यथानुपपत्तिरिति चेन्न- तया कारणमात्रसिद्धेः। न तु तेनानुभवेनैव भवितव्यमिति नियामकमस्ति। अननुभूतेपि तर्हि स्मरणं स्यादिति चेत्- किं न स्यात्। नह्यत्र प्रमाणमस्ति। पूर्वानुभवाकारो(भवो)ल्लेखस्स्मृतेर्दृश्यते; सोऽन्यथा न स्यादिति चेत्- तत् किं बौद्धवत् विषयाकारान्यथानुपपत्त्या विषयसिद्धिस्त्वयापीष्यते? तथाभूतं ज्ञानमेव वा तत्सिद्धिः? आद्ये तद्वदेवानैकान्तिकत्वम्। न हि यदाकारं ज्ञानम्, तत्पूर्वकत्वं तस्येति नियमः; अनागतज्ञाने विभ्रमे च व्यभिचारात्। द्वितीये च (तु) स्मृतिप्रामाण्यमवर्जनीयम्। मा भूत् पूर्वानुभवसिद्धिः; किं नश्छिन्नमिति चेत्- न तर्हि स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरिति।
: न, तदप्रामाण्येऽपि पूर्वापरावस्थावदात्मप्रत्यभिज्ञानप्रामाण्यादेव तदुपपत्तेः। योऽहमन्वभवममुमर्थम्, सोऽहं स्मरामीति मानसप्रत्यक्षमस्तीति।
 
[कु.4.510] न च गृहीतग्राहित्वमीश्वरज्ञानस्य; तदीयज्ञानान्तरागोचरत्वाद् विश्वस्य। न च तदेव ज्ञानं कालभेदेनाप्रमाणम्; अनपेक्षत्वस्यापरावृत्तेः। तथापि वाऽप्रामाण्ये अतिप्रसङ्गादिति।
पङ्क्तिः ८३३:
::: शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः॥6॥
 
:::::::: ॥ इति न्यायकुसुमाञ्जलौ चतुर्थस्तबकः ॥4॥
 
== पञ्चमस्तबकः ==
"https://sa.wikisource.org/wiki/न्यायकुसुमाञ्जलिः" इत्यस्माद् प्रतिप्राप्तम्