"ब्रह्मपुराणम्/अध्यायः १३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २८७:
विश्वामित्रस्तु गाधयो विश्वमित्रात्तथाष्टकः॥ १३.९१ ॥
 
अष्टकस्य सुतो लौहिः प्रोक्तो ज गणोजह्नुगणो मया।
आजमीढोऽपरो वंशः श्रूयतां मुनिसत्तमाः॥ १३.९२ ॥**
 
अजमीढात्तु नील्यां वै सुशान्तिरुदपद्यत।
पङ्क्तिः ६५७:
 
इति श्रीब्राह्मे महापुराणे ययातिवंशानुकीर्त्तनं नाम त्रयोदशोऽध्यायः॥ १३ ॥
</poem>
<poem>
**अतिरिक्त पाठः (१.११.९२)
विश्वबाधिः श्वजिच्चैव तथा सत्यवती द्विजाः ॥
ऋचीकाज्जमदग्निस्तु सत्यवत्यामजायत ।
विश्वामित्रस्य तु सुता देवरातादयः स्मृताः ॥
प्रख्यातास्त्रिषु लोकेषु तेषां नामानि भो द्विजाः ॥
देवरातः कतिश्चैव यस्मात्कात्यायनः स्मृतः ॥
शालवत्यां हिरण्याक्षो रेणुर्यस्याथ रेणुका ॥
सांकृत्यां गालवा विप्रा मौद्गल्याश्चेति विश्रुताः॥
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ॥
पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ॥
पार्थिवा देवराताश्च शालङ्कायनसौश्रवाः ॥
लोहिता यामभूताश्च तथा कारीषयः स्मृताः ॥
विश्रुताः कौशिका विप्रास्तथाऽन्ये सैन्धवायनाः॥
ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः ॥
पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कौशिकस्य च ॥
संबन्धोऽस्याथ वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ॥
विश्वामित्रात्मजानां तु शुनःशेफोऽग्रजः स्मृतः॥
भार्गवः कौशिकत्वं हि प्राप्तः स मुनि पुंगवः ॥
देवरातादयश्चापि विश्वामित्रस्य वै सुताः ॥
दृषद्वतीसुतश्चापि विश्वामित्रस्तथाऽष्टकः ॥
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ॥
आजमीढोऽपरो वंशः श्रूयतां मुनिसत्तमाः ॥ ९२ ॥
</poem>
 
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१३" इत्यस्माद् प्रतिप्राप्तम्