"जैमिनीयं ब्राह्मणम्/काण्डम् ३/०२१-०३०" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १३:
तासु माधुच्छन्दसम्। मधुच्छन्दा वै वैश्वामित्रो ऽकामयताग्र्यो मुख्यो ब्रह्मवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। अग्र्या मुख्या ब्रह्मवर्चसिनो ऽसामेति सत्रम् आसते। अग्र्या एव मुख्या ब्रह्मवर्चसिनो भवन्ति। यद् उ मधुच्छन्दा वैश्वामित्रो ऽपश्यत् तस्मान् माधुच्छन्दसम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व एवैतत् प्रतितिष्ठन्ति॥3.27॥
यस् ते मदो वरेण्य इत्य् आर्भवस्य पवमानस्य मद्वतीर् गायत्र्यो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयं सवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद्
प्रोक्तिश् च ह खलु वा एते सामनी हविषो निरुक्तिश् च। तद् यद् धाविष्मतं द्वितीये ऽहनि भवति, हविष्मन्त स्म इत्य् एवैतद् देवेभ्यः प्राहुः। हविष्मन्त इव ह्य् एतर्हि भवन्ति। अथ यद् धाविष्कृतं नवमे ऽहनि भवति, हविष्कृत स्म इत्य् एवैतद् देवेभ्यो निराहुः। हविष्कृत इव हि तर्हि भवन्ति। ते ह वा एते सामनी प्रोक्तिश् चैव हविषो निरुक्तिश् च। यद् उ हविष्मांश्च हविष्कृच् चाङ्गिरसाव् अपश्यतां तस्माद् धाविष्मत - हाविष्कृते इत्य् आख्यायेते। पवस्व मधुमत्तम इति मधुमतीः ककुभो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मधुमतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य् ऐवैनद् एतेन प्याययन्ति।
|