"ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७०:
 
 
अग्नये मथ्यमानायानुब्रूहीत्याहाध्वर्युरभि त्वा देवा सवितरिति सावित्रीमन्वाह तदाहुर्यदग्नये मथ्यमानायानु वाचाहाथ कस्मात्सावित्रीमन्वाहेति सविता वै प्रसवानामीशे सवितृप्रसूता एवैनं तन्मन्थन्ति तस्मात्सावित्रीमन्वाह मही द्यौः पृथिवी च न इति द्यावापृथिवीयामन्वाह तदाहुर्यदग्नये मथ्यमानायानु वाचाहाथ कस्माद्द्यावापृथिवीयामन्वाहेति द्यावापृथिवीभ्यां वा एतं जातं देवाः पर्यगृह्णंस्ताभ्यामेवाद्यापि परिगृहीतस्तस्माद्द्यावापृथिवीयामन्वाह त्वामग्ने पुष्करादधीति तृचमाग्नेयं गायत्रमन्वाहाग्नौ मथ्यमाने स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयत्यथर्वा निरमन्थतेति रूपसमृद्धं एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धंयद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति स यदि न जायेत यदि चिरं जायेत राक्षोघ्न्यो गायत्र्योऽनूच्या अग्ने हंसि न्यत्रिणमित्येता रक्षसामपहत्यै रक्षांसि वा एनं तर्ह्यालभन्ते यर्हि न जायते यर्हि चिरं जायते स यद्येकस्यामेवानूक्तायां जायेत यदि द्वयोरथो तद्वयोरथोत ब्रुवन्तु जन्तव इति जाताय जातवतीमभिरूपा-मनुब्रूयाद्यद्यज्ञेऽभिरूपं तत्समृद्ध आ यं हस्ते न खादिनमिति हस्ताभ्यां ह्येन मन्थन्ति शिशुं जातमिति शिशुरिव वा एष प्रथमजातो यदग्निर्न बिभ्रति विशामग्निं स्वध्वरमिति यद्वै देवानां नेति तदेषामोमिति प्र देवं देववीतये भरता वसुवित्तममिति प्रह्रियमाणायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धमास्वेतत्समृद्धम् आ स्वे योनौ नि षीदत्वित्येष ह वा अस्य स्वो योनिर्यदग्निरग्नेरा जातं जातवेदसीति जात इतरो जातवेदा इतरः प्रियं शिशीतातिथिमित्येष ह वा अस्य प्रियो-ऽतिथिर्यदग्निरग्नेः स्योन आ गृहप्तिमितिगृहपतिमिति शान्त्यामेवैनं तद्दधात्यग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा हव्यवाद्जुह्वास्यहव्यवाड् जुह्वास्य इत्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धं त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सतेति विप्र इतरो विप्रः सन् इतरः सन्नितरः सखा सख्या समिध्यस इत्येष ह वा अस्य स्वः सखा यदग्निरग्नेस्तम्मर्जयन्त सुक्रतुम्पुरोयावानमाजिषुसुक्रतुं पुरोयावानमाजिषु स्वेषु क्षयेषु वाजिनमिति एष ह वा अस्य स्वः क्षयो यदग्निरग्नेर्यज्ञेन यज्ञमयजन्त देवा इत्युत्तमया परिदधाति यज्ञेन वै तद्देवा यज्ञमयजन्त यदग्निनाग्निमयजन्त ते स्वर्गं लोकमायंस्तानि धर्माणि प्रथमान्यासन्ते ह नाकम्महिमानःनाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा इति छन्दांसि वै साध्या देवास्तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्नादित्याश्चैवेहासन्नङ्गिरसश्च तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्सैषा स्वर्ग्याहुतिर्यदग्न्याहुतिर्यदि ह व अप्यब्राह्मणोक्तो यदि दुरुक्तोक्तो यजतेऽथ हैषाहुतिर्गच्छत्येव देवान्न पाप्मना संसृज्यते गच्छत्यस्याहुतिर्देवान्नास्याहुतिः पाप्मना संसृज्यते य एवं वेद ता एतास्त्रयोदशान्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ताः सप्तदश सम्पद्यन्ते सप्तदशो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवस्तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥1.16॥