"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः २३७:
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥
पंचपञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षञ्चशूरमक्षं च निष्पिष्य ग्रहणँग्रहणं समुपागमत् ॥१-१-७५॥
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्पैतामहाद् वरात्
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥१-१-७६॥
पङ्क्तिः २४९:
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥१-१-७८॥
ततस्सुग्रीवततः सहितोसुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्य सन्निभैःशरैरादित्यसन्निभैः ॥१-१-७९॥
दर्शयामास चात्मानँचात्मानं समुद्रस्सरिताम्पतिःसमुद्रः सरितां पतिः
समुद्रसमुद्रवचनाच्चैव वचनाच्चैव नलँनलं सेतुमकारयत् ॥१-१-८०॥
तेन गत्वा पुरीँल्लङ्काँपुरीं लङ्कां हत्वा रावणमाहवे ।
रामस्सीतामनुप्राप्यरामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥१-१-८१॥
तामुवाच ततो रामः परुषं जन संसदिजनसंसदि
अमृष्यमाणा सा सीता विवेश ज्वलनँज्वलनं सती ॥१-१-८२॥
ततोऽग्निततोऽग्निवचनात् वचनात्सीतांसीतां ज्ञात्वा विगत कल्मषाम्विगतकल्मषाम्
कर्मणा तेन महता त्रैलोक्यँत्रैलोक्यं स चराचरम्सचराचरम् ॥१-१-८३॥
सदेवर्षिगणं देव ऋषि गणं तुष्टँतुष्टं राघवस्य महात्मनः ॥
बभौ रामस्संप्रहृष्टःरामः पूजितस्सर्वसम्प्रहृष्टः देवतैःपूजितः सर्वदेवतैः ॥१-१-८४॥
अभ्यषिच्य च लङ्कायाँलङ्कायां राक्षसेन्द्रं विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥
देवताभ्यो वराम्प्राप्यवरं प्राप्य समुत्थाप्य च वानरान् ।
अयोध्याम्प्रस्थितोअयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥१-१-८६॥
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।
भरद्वाजाश्रमङ्गत्वा रामस्सत्यपराक्रमः ।
भरतस्यान्तिकँभरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥१-१-८७॥
पुनराख्यायिकां जल्पन् सुग्रीव सहितस्तदासुग्रीवसहितस्तदा
पुष्पकंस्तत्पुष्पकं समारूह्यतत् नन्दिग्रामँसमारुह्य नन्दिग्रामं ययौ तदा ॥१-१-८८॥
नन्दिग्रामे जटाँजटां हित्वा भ्रातृभिस्सहितोऽनघःभ्रातृभिः सहितोऽनघः
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥१-१-८९॥
रामस्सीतामनुप्राप्य राज्यम्पुनरवाप्तवान् ॥१-१-८९॥
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
प्रहृष्टो मुदितो लोकः तुष्टः पुष्टस्सुधार्मिकः ।
निरामयो ह्यरोगश्च दुर्भिक्ष भय वर्जितःदुर्भिक्षभयवर्जितः ॥१-१-९०॥
पुत्र मरणंपुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥१-१-९१॥
न चाग्निजं भयं किञ्चित् नाप्सुकिञ्चिन्नाप्सु मज्जन्ति जन्तवः ।
न वातजं भयं किञ्चित् नापि ज्वर कृतंज्वरकृतं तथा ॥१-१-९२॥
न चापि क्षुद्भयन्तत्रक्षुद्भयं तत्रतस्करतस्करभयं भयन्तथातथा
नगराणि च राष्ट्राणि धन धान्य युतानिधनधान्ययुतानि च ॥१-१-९३॥
नित्यम्प्रमुदितास्सर्वेनित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।
अश्वमेध शतैरिष्ट्वाअश्वमेधशतैरिष्ट्वा तथा बहु सुवर्णकैःबहुसुवर्णकैः ॥१-१-९४॥
गवां कोट्ययुतं दत्त्वा विद्वभ्योविद्वद्भ्यो विधि पूर्वकम्विधिपूर्वकम्
असंख्येयं धनं दत्त्वा ब्राह्मणेभोब्राह्मणेभ्यो महायशाः ॥१-१-९५॥
राज वँशान्राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यञ्चचातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
दश वर्ष सहस्राणि दश वर्ष शतानि च ।
रामो राज्यमुपासित्वा ब्रह्मब्रह्मलोकं लोकम्प्रयास्यतिप्रयास्यति ॥१-१-९७॥
इदम्पवित्रंइदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद्रामपठेद् चरितँरामचरितं सर्व पापैःसर्वपापैः प्रमुच्यते ॥१-१-९८॥
एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
सपुत्रपौत्रः पुत्र पौत्रस्सगणःसगणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥
पठन् द्विजो वागृषभत्वमीयात् ।
स्यात् क्षत्रियो भूमि पतित्वमीयात्भूमिपतित्वमीयात्
वणिक् जनः पण्य फलत्वमीयात्पण्यफलत्वमीयात्
जनश्च शूद्रोऽपि महत्त्वमीयात् ॥१-१-१००॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥
'''श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥'''
 
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १-१-१॥
 
को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ १-१-२॥
 
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ १-१-३॥
 
आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ १-१-४॥
 
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ १-१-५॥
 
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ १-१-६॥
 
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥ १-१-७॥
 
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥ १-१-८॥
 
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छ्त्रुनिबर्हणः ।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ १-१-९॥
 
महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ १-१-१०॥
 
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥ १-१-११॥
 
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥ १-१-१२॥
 
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥ १-१-१३॥
 
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान्प्रतिभानवान् ।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥ १-१-१४॥
 
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः ॥ १-१-१५॥
 
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १-१-१६॥
 
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १-१-१७॥
 
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् ॥ १-१-१८॥
 
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।
यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ॥ १-१-१९॥
 
तस्याभिषेकसम्भारान्दृष्ट्वा भार्याथ कैकयी ।
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनं च रामस्य भरतस्याभिषेचनम् ॥ १-१-२०॥
 
स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ॥ १-१-२१॥
 
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् ॥ १-१-२२॥
 
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥ १-१-२३॥
 
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।
सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥ १-१-२४॥
 
पौरैरनुगतो दूरं पित्रा दशरथेन च ।
शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ॥ १-१-२५॥
 
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ॥ १-१-२६॥
 
रम्यमावसथं कृत्वा रममाणा वने त्रयः ।
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन्सुखम् ॥ १-१-२७॥
 
चित्रकूटं गते रामे पुत्रशोकातुरस्तदा ।
राजा दशरथः स्वर्गं जगाम विलपन्सुतम् ॥ १-१-२८॥
 
मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः ।
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ॥ १-१-२९॥
 
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ।
निवर्तयामास ततो भरतं भरताग्रजः ॥ १-१-३०॥
 
स काममनवाप्यैव रामपादावुपस्पृशन् ।
नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ॥ १-१-३१॥
 
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रे दण्डकान्प्रविवेश ह ॥ १-१-३२॥
 
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा ॥ १-१-३३॥
 
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥ १-१-३४॥
 
वसतस्तस्य रामस्य वने वनचरैः सह ।
ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ॥ १-१-३५॥
 
तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ १-१-३६॥
 
ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसं ॥ १-१-३७॥
 
निजघान रणे रामस्तेषां चैव पदानुगान् ।
रक्षसां निहतान्यासन्सहस्राणि चतुर्दश ॥ १-१-३८॥
 
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ।
सहायं वरयामास मारीचं नाम राक्षसं ॥ १-१-३९॥
 
वार्यमाणः सुबहुशो मारीचेन स रावणः ।
न विरोधो बलवता क्षमो रावण तेन ते ॥ १-१-४०॥
 
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ।
जगाम सहमरीचस्तस्याश्रमपदं तदा ॥ १-१-४१॥
 
तेन मायाविना दूरमपवाह्य नृपात्मजौ ।
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ॥ १-१-४२॥
 
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।
राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः ॥ १-१-४३॥
 
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ॥ १-१-४४॥
 
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ।
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ॥ १-१-४५॥
 
स चास्य कथयामास शबरीं धर्मचारिणीम् ।
श्रमणीं धर्मनिपुणामभिगच्छेति राघव ।
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ १-१-४६॥
 
शबर्या पूजितः सम्यग्रामो दशरथात्मजः ।
पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥ १-१-४७॥
 
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ १-१-४८॥
 
ततो वानरराजेन वैरानुकथनं प्रति ।
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
वालिनश्च बलं तत्र कथयामास वानरः ॥ १-१-४९॥
 
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ।
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥ १-१-५०॥
 
राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ॥ १-१-५१॥
 
बिभेद च पुनः सालान्सप्तैकेन महेषुणा ।
गिरिं रसातलं चैव जनयन्प्रत्ययं तदा ॥ १-१-५२॥
 
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः ।
किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ १-१-५३॥
 
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥ १-१-५४॥
 
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ १-१-५५॥
 
स च सर्वान्समानीय वानरान्वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ १-१-५६॥
 
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली ।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ १-१-५७॥
 
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ १-१-५८॥
 
निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ १-१-५९॥
 
पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ १-१-६०॥
 
अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया ॥ १-१-६१॥
 
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥ १-१-६२॥
 
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ १-१-६३॥
 
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसंनिभैः ॥ १-१-६४॥
 
दर्शयामास चात्मानं समुद्रः सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ १-१-६५॥
 
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् ॥ १-१-६६॥
 
कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ १-१-६७॥
 
तथा परमसन्तुष्टैः पूजितः सर्वदैवतैः ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ १-१-६८॥
 
देवताभ्यो वरान्प्राप्य समुत्थाप्य च वानरान् ।
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ॥ १-१-६९॥
 
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ १-१-७०॥
 
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
निरायमो अरोगश्च दुर्भिक्षभयवर्जितः ॥ १-१-७१॥
 
न पुत्रमरणं के चिद्द्रक्ष्यन्ति पुरुषाः क्व चित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ १-१-७२॥
 
न वातजं भयं किं चिन्नाप्सु मज्जन्ति जन्तवः ।
न चाग्रिजं भयं किं चिद्यथा कृतयुगे तथा ॥ १-१-७३॥
 
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ॥ १-१-७४॥
 
राजवंशाञ्शतगुणान्स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोकेऽस्मिन्स्वे स्वे धर्मे नियोक्ष्यति ॥ १-१-७५॥
 
दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ १-१-७६॥
 
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् ।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ १-१-७७॥
 
एतदाख्यानमायुष्यं पठन्रामायणं नरः ।
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ १-१-७८॥
 
पठन्द्विजो वागृषभत्वमीयात्
स्यात्क्षत्रियो भूमिपतित्वमीयात् ।
वणिग्जनः पण्यफलत्वमीयाज्
जनश्च शूद्रोऽपि महत्त्वमीयात् ॥ ७९॥
</poem>
 
'''इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥
 
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्