"गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०९६-१००" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य गणेश पुराणम्/क्रीडाखण्डः/अध्यायः ७४ पृष्ठं [[गणेशपुराणम्/खण्...
"{{header | title = गणेशपुराणम् - गणेशपुराणम्/ख..." इत्यनेन सह आधेस्य विनिमयः कृतः ।
अङ्कनम् : बदला गया
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height: 175%">
| title = [[गणेशपुराणम्]] - [[गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)|खण़्डः २(क्रीडाखण्डम्)]]
अध्याय ७४ प्रारंभ –
| author =
क उवाच ।
| translator =
त्यक्ते गर्भे तया सिन्धौ बालोऽजनि महाबलः ।
| section = अध्यायाः ९६--१००
तेजस्वी विकरालास्यो दीर्घभालस्त्रिलोचनः १
| previous = [[../अध्यायाः ०९१-०९५|अध्यायाः ९१-९५]]
रक्तकेशजटाभारश्चक्रपाणिस्त्रिशूलभृत् ।
| next = [[../अध्यायाः १०१-१०५|अध्यायाः १०१-१०५]]
बालशब्देन तस्याथ चकम्पे भुवनत्रयम् २
| notes =
आजानुबाहुराक्रान्तुमियेष विष्टपत्रयम् ।
}}
चुक्षुभे सागरस्तेन यादोभिर्मुनिसत्तम ।।३
<poem><span style="font-size: 14pt; line-height:200%">
तत्र स्थितस्तु बालोऽसौ समुद्रमुपशोषयत् ।
समुद्र उवाच ।
जीवनाय मम सुतं नेष्य एनं नृपालयम् ।। ४
क उवाच ।
इत्यानिनाय तं बालं समुद्रो नृपमन्दिरम् ।
दम्पत्योः पुरतः स्थाप्य प्रोच एवं द्विजस्तदा ५
तव पत्न्याऽत्याजि गर्भो दुःसहत्वान्ममोदरे ।
उग्रो बालस्ततो जातोऽखिल- लोकभयंकरः ६
यस्य प्रथमशब्देन कम्पितं भुवनत्रयम् ।
नेत्राभ्यां नेक्षितुं शक्योऽत एवैनमुपानयम् ७
इत्युक्त्वा बालकं मुक्त्वाऽ न्तर्दधे सागरस्तदा ।
तत एनं कराभ्यां सा कटौ दध्रे नृपांगना ८
स्थापयित्वा ददौ प्रेम्णा स्तनपानं मुदान्विता ।
उभावानन्द युक्तौ तौ दम्पती पुत्रदर्शनात् ९
यथा चिरं योगनिष्ठो लब्ध्वा ब्रह्मामृतं परम् ।
तत आकारयामास ब्राह्मणान्सुहदोऽपि च 2.74.१०
ज्योतिर्विद्भिर्विचार्यास्य सिन्धुरित्यभिधां शुभाम् ।
राज्ञी चक्रे नृपश्चास्य जातकर्मं यथाविधि ११
कृत्वा ददौ ततो दानमनेकं हर्षनिर्भरः ।
अनेकेभ्यो द्विजातिभ्यो वस्त्राणि विविधानि च १२
दापयामास नगरे पताकाभिरलंकृते ।
वाद्यत्सु सर्ववाद्येषु शर्करां च गृहे गृहे १३
गतेषु सर्वलोकेषु रक्तांग इति नाम च ।
चक्रतुर्दम्पती स्नेहादथामात्यै समूचतुः १४
उग्रायास्तनयश्चायमुग्रमुद्राध- रोऽपि च ।
अयमुग्रेक्षण इति नाम्ना ख्यातो भविष्यति १५
विप्रप्रसादन इति पौरा नाम प्रचक्रिरे ।
ततः सर्वे पौरजना उपदा विविधास्तदा १६
ददुर्नृपाय सोऽप्येतान्दापयामास तत्क्षणात् ।
ववृधे बालकः सोऽथ शुक्लपक्षे यथा शशी १७
यथाऽग्निर्वायु- वेगेन वर्धते क्षणमात्रतः ।
तथा स्वतेजसा बालः प्रवृद्धो गगनं स्पृशत् १८
क्रीडन्नेव सदा बालो वृक्षान्गृहगतान्बहून् ।
उत्पाट्य पातयामास वामहस्ततलेन ह १९
अरण्ये क्रीडता तेन पर्वतांश्चूर्णिता द्रुमाः ।
उड्डीय चन्द्रहरिणं क्षणं जग्राह कर्हिचित 2.74.२०
जलावतारमार्गे तु रुद्धे क्वापि करेणुना ।
मुष्टिघातेन बिभिदे गण्डमस्या पपात सा २१
एवं तस्याद्भुतं कर्मं दृष्ट्वा लोका विसिस्मिरे ।
जहर्ष जननी चास्य पिता ज्ञात्वाऽतिमानुषम् २२
एवं प्रवृद्धो बालोऽसौ सिन्धुनामा महाबलः ।
उवाच पितरं यास्ये तप- स्तप्तुमहं नृप २३
अनुष्ठित्या स्वर्गलोकं भूलोकं च रसातलम् ।
आक्रमिष्ये वृथायुर्मै गच्छतीति मतिर्मम २४
एवमाकर्ण्य तद्वाक्यमूचतुः पितरौ च तम् ।
उत्कर्षं स्वस्य पुत्रस्य नित्यं प्रार्थयते पिता २५
जननी सर्वदेवेभ्यो व्रतदानादिनापि च ।
एवमाज्ञामवाप्यैव नत्वा तौ स ययौ वनम् २६
तत्र भ्रमन्ददर्शाथ कासारं जलजैर्युतम् ।
तत्र स्थातुं मनश्चक्रे विविक्तमिति हर्षितः २७
एकांगुष्ठेन भूमिष्ठ ऊर्ध्वबाहू रविं स्मरन् ।
शुक्रोपदिष्टं तं मन्त्रं जपन्पर्वतनिश्चलः २८
दक्षिणे जानुनि सदा वामपादं निधाय च ।
अंजलिं हृदि विन्यस्य ध्यायन्दिनमणिं तदा २९
शीतवातातपजलवृष्टीनां सहनो दृढः ।
वायुमात्राशनस्तस्थौ वल्मीकाक्रान्त- विग्रहः 2.74.३०
अस्थिमात्रावशिष्टोऽपि जपत्येव महामनुम् ।
एवं तस्य व्यतीताय शरदां द्विसहस्रकम् ३१
तस्य सिन्धोः शरीरोत्थास्तेपुर्भासो रविं तदा ।
एवमुग्रं तपो दृष्ट्वा प्रत्यक्षोऽभूद्दिवाकरः ३२
उवाच परमप्रीतोऽनुष्ठानेन तवाधुना ।
वरं वरय चित्तस्थं दास्यामि जीवितावधि ३३
सिन्धुस्तदाकर्ण्य वचो भाषितं भानुना स्वयम् ।
देहभावं गतौऽपश्यत्पुरतो भास्करं प्रभुम् ३४
नत्वा तत्पादकमलं बद्धांजलिपुटोऽब्रवीत् ।
नमस्ते दीननाथाय नमस्ते सर्वसाक्षिणे ३५
नमस्ते त्रिदशेशाय ब्रह्मविष्णुशिवात्मने ।
नमस्ते विश्ववन्द्याय नमस्ते विश्वहेतवे ३६
नमस्ते वृष्टिबीजाय सस्योत्पादनहेतवे ।
परब्रह्मस्वरूपाय सृष्टिस्थित्यन्तहेतवे ३७
गुणातीताय गुरवे ग्रुणक्षोभविधायिने ।
सर्वज्ञाय ज्ञानदात्रे सर्वस्य पतये नमः ३८
धन्यं मे जन्म देवेश वंशो मे जनकोऽपि च ।
जननी च तपश्चापि यज्जातं तव दर्शनम् ३९
वरदश्चेद्दिनेश त्वं देहि मे सर्वतोऽमृतिम् ।
तव प्रसादात्संग्रामे जयेयं सर्वदेवताः 2.74.४०
वर्तमानाद्देवणान्न मे मृत्युर्भवेदिति ।
एवं तस्य वराञ्श्रुत्वा परितुष्टो विभावसुः ।
उवाच निजभक्तं तमनुष्ठानभृशं कृशम ४१
सूर्य उवाच ।
न भयं विद्यते देवयोनिभ्यो नृभ्य एव च ।
न तिर्यग्भ्यो न नागेभ्यो न दिवा न निशि क्वचित् ४२
नोषःकाले न सन्ध्यायां मम वाक्याद्भविष्यति ।
मरणं ते नृपसुत गृहाणामृतभाजनम् ४३
इदं यावत्कण्ठगतं तावन्मृत्युर्न ते भवेत् ।
निष्काशयेदिदं यस्ते तस्मान्मृत्युर्भविष्यति ४४
देवो योऽवतरेत्कोऽपि धुन्वन्केशाग्रतो दिवम् ।
यस्यांगुष्ठनखाग्रे स्युर्ब्रह्मांडानां हि कोटयः ४५
स त्वां हनिष्यति विभुरन्यस्मादभयं तव ।
मद्वरस्य प्रसादेन सवं तृणमयं तव ४६
त्रैलोक्यराजं ते दत्तं नात्र कार्या विचारणा ।
क उवाच ।
एवं नानावरान्दत्त्वान्तर्दधे सविता तदा ४७
सोप्यानन्दसमायुक्तो जगाम निजमन्दिरम् ।
जननी च पिता तस्य मूर्ध्न्याघ्रायापतुर्मुदम् ४८
ऊचतुस्तं तदा पुत्रं विरहात्रेऽन्नवर्जितौ ।
चिन्तया कृशतां यातौ पश्य पुत्रदशामिमाम् ४९
तयोः पादौ प्रणम्याह स पुत्रौ हर्षनिर्भरः ।
प्रसन्नः सविता मह्यं त्रैलोक्यस्वामितामदात् 2.74.५०
साधयिष्ये तद्वरात्तां न चिन्तां कर्तुमर्हथ ५१ ( ३३२४)
इति श्रीगणेशपुराणे क्रीडाखण्डे वरप्रदानं नाम चतुःसप्ततितमोऽध्यायः।।७४।।
 
</span></poem>