"ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
 
 
अथो पञ्चवीर्यं वा एतच्छन्दो यद्विराड् यत्त्रिपदा तेनोष्णिहागाय त्र्?यौ यदस्या एकादशाक्षराणि पदानि तेन त्रिष्टुब्यत्त्रयस्त्रिंशदक्षरा तेनानुष्टुम्न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यां यद्विराट्तत्पञ्चमं सर्वेषां छन्दसां वीर्यमवरुन्द्धे सर्वेषां छन्दसां वीर्यमश्नुते सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकतामश्नु-तेऽन्नादोऽन्नपतिर्भवत्यश्नुते प्रजयान्नाद्यं य एवं विद्वान्विराजौ कुरुते तस्मा-द्विराजावेव कर्तव्ये प्रेद्धो अग्न इमो अग्न इत्येते ऋतं वाव दीक्षा सत्यं दीक्षा तस्माद्दीक्षितेन सत्यमेव वदितव्यमथो खल्वाहुः कोऽर्हति मनुष्यः सर्वं सत्यं वदितुं सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति विचक्षणवतीं वाचं वदेच् चक्षुर्वै विचक्षणं वि ह्येनेन पश्यतीत्येतद्ध वै मनुष्येषु सत्यं निहितं यच्चक्षुस्तस्मादाचक्षाणमाहुरद्र ?ागितियच्चक्षुस्तस्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमित्याहाथास्य श्रद्दधति यद्यु वै स्वयम्पश्यतिस्वयं पश्यति न बहूनां चनान्येषां श्रद्दधाति तस्माद्विचक्षणवतीमेव वाचं वदेत्सत्योत्तरा हैवास्य वागुदिता भवति भवति॥1.6॥