"ऋग्वेदः सूक्तं १०.६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३४४:
लक्ष्मीनारायणसंहिता [[लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०९१|३.९१.७८]] यां कृशाङ्ग द्विजस्य कथा अस्ति। बीजदोषकारणेन कृशाङ्गः ब्राह्मणीपुत्रो भूत्वापि चाण्डालः आसीत्। तेन तपस्तप्त्वा चाण्डालत्वात् मुक्तिं प्राप्य द्विजत्वं अगृह्णात्। कृशाङ्गः संज्ञा संकेतमस्ति यत् तपसा स्वपापानां शोधनमात्रं, कृशाङ्गत्वं पर्याप्तं नास्ति, अपितु कृशानु - यः अन्यानपि कृशं कर्तुं, तेषां दोषानां हरणाय समर्थं भवितुं शक्तः अस्ति, तस्य संज्ञा कृशानुः अस्ति। लक्ष्मीनारायणसंहितायां अयं कृत्यं अश्वपट्टसरोवरनिकटे अभूत् । अयं संकेतं अस्ति यत् कृशांगता प्राप्तिः एकांगी साधना अस्ति, कृशानुत्वं सर्वांगीणा, अश्वप्रकारा साधना। प्रस्तुतायां ऋचायां तथा अन्यत्रापि कृशानुः बाणस्य क्षेप्ता अस्ति येन कारणेन सोमस्याहरणसक्तस्य श्येनस्य पर्णं अच्छिद्यत्। पर्णः स्थूलत्वस्य प्रतीकमस्ति। यदा पर्णस्य छेदनं भवति, तदैव कृशाङ्गत्वं।
 
तिष्यं - तैब्रा. [https://sa.wikisource.org/s/nkx १.५.१.१] कथनमस्ति - बृहस्पतेस्तिष्यः । जुह्वतः परस्ताद्यजमाना अवस्तात् । वाचस्पत्यमादि कोशेषु तिष्यशब्दस्य मूलं तुष्यं इति अस्ति। तिष्यः अर्थात् कलियुगः। कलियुगः पापेभिः ग्रस्तः अस्ति। यदा दिव्यशक्तीनां आह्वानेन यजमानः तृप्तः भवति, तदैव तिष्यः तुष्यः भविष्यति। तैब्रा. [https://sa.wikisource.org/s/vy1 ३.१.४.६] अनुसारेण -- बृहस्पतिर्वा अकामयत । ब्रह्मवर्चसी स्यामिति । स एतं बृहस्पतये तिष्याय नैवारं चरुं पयसि निरवपत् । तिष्यस्य अपरसंज्ञा पुष्यः अपि अस्ति। कथनमस्ति यत् पुष्यः पशूनां वाचकः अस्ति , येषां अधिपतिः पूषा अस्ति। एवंप्रकारेण, तिष्यः मानवस्य एवं पशोः मिश्रणं अस्ति, अयं प्रतीयते।
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६४" इत्यस्माद् प्रतिप्राप्तम्