"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्र- म्यते । प्रदक्षिणमनु परिप्लावयतीति सामन्तत्वख्यापनार्थम् । शुल्बकरणेऽपि प्रदक्षिण- मिति विधास्यते, प्रथमत एव प्रदक्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०१:०३, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्र- म्यते । प्रदक्षिणमनु परिप्लावयतीति सामन्तत्वख्यापनार्थम् । शुल्बकरणेऽपि प्रदक्षिण- मिति विधास्यते, प्रथमत एव प्रदक्षिणमेकगुणमित्यर्थः । तत्तु द्विगुणरज्जुकरणनिवार- गार्थम् । द्विगुणा हि रज्जुर्गुणानामप्रादक्षिण्ये प्रदक्षिणं यज्ञकर्माणीत्यनेनैव भवेत् । तथा मा भूदेकगुणेत्येवं वक्तुं प्रथमं प्रदक्षिणमेवाऽऽवेष्टयेत्तथाचैकगुणं चेत्यर्थः । तेन न पुनरुक्तं प्रदर्शितन्यायेनैव सर्वत्राऽऽवेष्टनकरणसंभवान्न पृथक्सूत्रकरणम् । तथा हि-यदा रज्जूरेकगुणा तदा मूलमधः कृत्वाऽप्रमुपरि कृत्वा वेष्टयति, तदेवं प्रदक्षिणं भवति । द्विगुणायां तु गुणकरणं द्वौ गुणौ कृत्वा वेष्टयति । अथ वा सहैव गुणौ संपादयन्वेष्टयतीति । तत्र प्रधानानुरोधेनाप्रदक्षिणं गुणौ कृत्वा प्रदक्षिणमावेष्टयति । द्वितीये पक्षे तु गुणार्थ द्रव्यं द्वयोर्हस्तयो?धा कृत्वा वामहस्ते दक्षिण पुरतश्चालयन्ध र्षणेन गुणौ कुर्वन्नावेष्टयेद्रज्जुमिति । त्रिगुणायां तु तृतीयगुणोऽप्यप्रादक्षिण्यनैव भवतिः । स्पष्टमेतदापस्तम्बेनोक्तम् -' यानि शुल्बानि समासं गच्छन्ति प्रसव्यं तान्यावेष्ट प्रदक्षिणं समस्येदय यानि समस्यन्ते प्रदक्षिणं तानि ' इति । शुरुवान्यावे. ष्टितानि सन्ति द्विगुणानीत्यर्थः । ।

न यज्ञाङ्गेनाऽऽत्मानमन्यं वाऽभिपरिहरति ।

आत्मानमन्य वाऽभिलक्षीकृत्य परिहारमर्थप्राप्तमनिष्टत्वेन तयज्ञानेन न परिहरति । तसस्तु यज्ञानेन स्फ्यादिनाऽऽत्मानमन्यं वाऽत्रानुलक्षीकृत्याऽऽगच्छल्लोष्टादि न परि- हार्यम् । तथा शूर्पादिना धूमादिवाधाऽपि न परिहर्तव्या। नापि मक्षिकादिनिवारणम् । आत्मना तह चरितो जीव एवान्यो गृह्यते । तेन यज्ञपात्रैर्यज्ञपात्राणां मलिकादि. वारणे न दोषः । विस्मरणेन परिहारे कृते सर्वप्रायश्चित्तं कुर्यात् । कर्तृणां नियमान्तरमाह-

न विहारादुपपर्यावर्तते।

न विहारादपच्छिद्य वर्तत इत्येकं वाक्यं, नापच्छिद्यन्ते (ते) । तदुक्तमाश्वलायनेन- विहारावल्यावृत्तिः । द्वितीयं वाक्यं, ल्यलोपे पञ्चमी । विहारं प्राप्य न पर्यातते, आत्मानं परीत्य नाऽऽवर्तते । स्पष्ट मुक्तं बौधायनेन–'यदि प्रादक्षिणेनासेन- पर्यावर्तते यदि प्रत्यङ्सव्येन ' इति । तथा चाऽऽत्मानं मध्ये कृत्वा न पर्यावर्तनीय- मित्यर्थः। , १ ट. 'गुणिना। २ ख. छ. 2. "न। ३ ख. हारार्थ प्रा। छ. द. हारार्थ । क. न. म. च. 3. 'रन्ति । त । ५ ख. ८, "मत। क. स. म. घ. छ. ट, ठ, "तन्ते । मा ७ के. ख. ग. च.छ.उ. वर्तन्त । .क. ख. म. च... तन्ते, आ" । ९ स. ग. च.. 'तन्ते । स्प . । ।