"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/५८" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: : १५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५३ मीय उपांशुयानोऽग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदिडा त्रयोऽनूयाजाः सूक्तवाका शंयोर्वाकश्चाथ यदेवादः प... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०१:०८, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ५३ मीय उपांशुयानोऽग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदिडा त्रयोऽनूयाजाः सूक्तवाका शंयोर्वाकश्चाथ यदेवादः पत्नीसंयाजेषु संप्रगृह्णाति समिष्टयर्जुश्चेत्याहुतीनामेकविंशति- संख्या दृश्यते, सा तन्त्रानुष्ठाने मवति नान्यथेति । एकया चोदनया सह मावेऽपि क्वचिदपवादमाह-

नानाकालेषु पृथक् ।

नानाकाला विहिता येषां कर्मणां तानि तथा तेषु प्रत्येककालपधानं पृथक्पुनः पुनर- जानि कर्तव्यानि । पौर्णमास्यां कृतानामङ्गानामवृद्धिस्थत्वादसहभावापौर्वापर्यविपर्ययाचं दर्शऽपि सहैव पौपियेंण पृथगनुष्ठेयान्यङ्गानीति भावः । यद्यपि योगपद्यमधिकारविधिना प्रधानानां सहभावविधिस्तथाऽपि विशेषश्रुत्या भिन्नकालानामेव साधनत्वमित्यर्थः । यथा दर्शपूर्णमासाम्यां स्वर्गकामो यनेतेति सहभावेऽपि पौर्णमास्यां पौर्णमास्या यजतेऽ. मावास्यायाममावास्ययेति नानाकालता (ता) । बहुवचनेन च तथैव चातुर्मास्यैर्यजत इति राजसूयेन यजेतेति विधिषु कालभेदो ज्ञेयः । तत्राङ्गानामावृत्तिरपि भवतीति पौर्णमासी. मात्राहुतीनामेपैकविंशतिसंख्याविधानादित्यर्थः । ननु दर्शपूर्णमासादिप्रधानानामेव कालदेशकर्तृविधिरमावास्यायाममावास्ययेत्या- दिना समे दर्शपूर्णमासाभ्यां यतेत्येका श्रुतिः, प्राचीनप्रवणे दर्शपूर्णमासाम्यामित्यन्या, तथा दर्शपूर्णमासयोर्यज्ञक्रतोश्चत्वार ऋविज इति, अर्थायार्थायाग्निप्रणयनं तथा उत्त- रस्यां वेद्यामन्यानि वीषि सादयति । दक्षिणार्या मारुतीम् ' इति प्रधानमात्रस्य दक्षिणोत्तराग्न्योः प्रचारो विहितः । एवं चाहानामन्यैः कालादिमिर्भवितव्यमि- त्याशङ्क्याऽऽह-

यः प्रधानस्य कालः सोऽङ्गानाꣳ स देशः स कर्ता सोऽग्निः ।

अत्र दर्शपूर्णमासादिशब्दविहिताः कालादयो नाङ्गैः सैवध्यन्ते, नाङ्गानां दर्शादिन शब्दवाच्यता, तस्मादङ्गानां कालादिभेद इति प्राप्त इदं सूत्रम् । चोदनादिभि- प्रयोगविधिभिः सानं प्रधानं युगपत्कुर्यादित्येतः साङ्गस्य प्रयोगस्य संबन्धित्वेन कालादिसंबन्धविधानात्प्रयोगश्च साङ्गस्येति कालादि समानम् । एवं चार्थावार्थायाग्नि- प्रणयनम् । तथाऽपि प्रधानाङ्गं देवतापरिग्रहे सति तदर्थमन्यन्वाधाने कृते सति । तदभिप्रणयनै सकृत्तन्त्रेण साङ्गप्रधानोपकारकं भवति । विकृतिष्वम्यन्वाधानात्पूर्व- तनेषु होमेषु पृथक्पृथगेव प्रणयनम् । पश्चादी चान्वारम्मणीयादिभिर्यज्ञारम्भार्यत्वेन विधानान्न पुनः प्रणयनम् । दर्शपूर्णमासचातुर्मास्यान्वारम्भणीयाया अर्थवादेनादृष्टार्ष- - १ क. ग. च. छ. उ. 'जुषचे । २ क. म. च. ठ. भक्च पुनः। 32. "नं च कृतं तन्।