"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 1 १५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । सर्वसाक्षिकम् । न केवलशाखाभेद एव प्रयोगभेदः कित्वेकस्यामपि नानागोत्राणां तनून- पानाराशंलभेदेनोदितानुदितभेदे... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:१५, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । सर्वसाक्षिकम् । न केवलशाखाभेद एव प्रयोगभेदः कित्वेकस्यामपि नानागोत्राणां तनून- पानाराशंलभेदेनोदितानुदितभेदेन चाग्निहोत्रेऽपि प्रयोगमेददर्शनात् । तस्मात्स्वशाखा- गुणाबाधेनैव समानविधानौ, ततो न सर्वशाखाप्रत्यभिज्ञाबाध इति भावः । आवृत्त्या पुनरेते सूत्रे व्याख्येये अग्रिमप्रयोगनिर्वाहाय पूर्वोक्ताकतन्त्रनिर्वाहाय च । सर्वकामतया फलवत्तयाऽवगतौ स्वशाखायामुत्पत्तिविधिमिः प्रत्येक विहितौ तदा प्रत्येकं करणत्वेनावगतौ प्रत्येकं कथंभावाकालिगौ तौ समानविधानौ समानानि सर्वेषां समुदाययोः प्रत्येकं विधानानि ब्राह्मणानि ययोस्तौ तथा । तथा चाङ्गविधानानि समा- नानि न स्वरूपविधानानि संभवन्ति भिन्नकमत्वात् । तथा च संनिधिसमाख्ये अनाहत्य विहिता असंनिहिताश्च पदार्था अङ्गत्वेन गृह्यन्त इत्यर्थः । किमविशेषान्नेत्याह- निर्देशो विशेषावेदकं प्रमाणं वचनमिति यावत्तस्मादेव व्यवस्थितावित्यर्थः । तत्र स्पयादिद्वव्याणां संस्कारकर्मणां च योग्यतालक्षणेन सामर्थेन तेषां व्यवस्था, तथा मन्त्राणामपि, केषांचित्प्रमाणान्तरेणापि । आरादुपकारिणां तु सर्वत्र समानैवाङ्गता । वैमृधप्रभृतीनां तु वचनाद्यवस्थेति बोद्धव्यम् । प्रयोगे नैव स्पष्टयिष्यते । अङ्गिनोयैव- स्थाभिधानेनाङ्गानामेव व्यवस्थोक्ता । तेन कानिचिदङ्गानि प्रधानेषु साक्षानुपकुर्वन्ति कानिचिदद्वारेत्यपि व्यवस्था संगृहीतेति । तेन मन्त्राणां लिङ्गेन विनियुक्तानां साक्षा- प्रधानाङ्गत्वाभावेऽपि अन्वाधानाद्यङ्गत्वेनापि व्यवस्थितानां समानविधानावित्यनेन न त्यागः। यानि साक्षादङ्गानि यानि च परम्परया तानि सर्वाण्यपि विधानशब्देन संगृहीतानि ।

ताभ्यां यावज्जीवं यजते त्रिशतं वा वर्षाणि ।

जीवनं निमित्त प्राणधारणं तन्न कर्माङ्गं भवतीति यावजीववाक्येन न काम्ययोः काल- विधिः किंतु निमित्तान्तरे तो विधीयते । त्रिंशदादिकालसंबन्धेनापि नान्यौ भिन्नौ तत्त्वेन प्रत्यभिज्ञानादित्याह-ताम्यामिति ।यौ सर्वकामार्थों ताभ्यामिति प्रत्यभिज्ञा जातिनिमित्ता न व्यक्तिनिमित्ता । एकस्यां व्यक्तौ निमित्तार्थत्वं कामार्थत्वं च न सिध्यति । उद्देश्यद्वये प्रयोगद्वयावश्यं भावयेत् । तथा च निमित्तेनोपलक्षिते काले प्रयोगो नित्यस्तस्यैव शाखान्तरे कालान्तरविधानं त्रिंशतमिति तत्रैवाऽऽपस्तम्बेन जीणों वा विरमेदिति कालान्तर विहितं, काम्ये त्वैहिकफलाय यावत्फलप्राप्त्यनुष्ठानं, पारलौकिक तु सकृदभ्यासाश्रवणात्। तथा च नैती प्रकृतिविकृतिभावं भजेते द्विविधावपि यो पुनद्वितीयप्रश्ने काम्यौ व्याख्या स्यते गुणवैकृतौ च ।

एकस्मिन्मयोगे सर्वान्कामाकामयेत प्रयोगपृथक्त्वे वैकैकम् ।

यथा पशुकामोऽनेकान्पशूनेकस्मिन्प्रयोगे कामयत एवं सर्वान्कामान्कामयेतेति पूर्व । . ८