"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ५८ 2 सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- पक्षयित्वोच्यते प्रयोगपृथक्त्वे वैकैकम् । वेति पूर्वपक्षो व्यावर्तते । कामानां प्राधान्येन प्रतिप्रधानमगा... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:१७, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ 2 सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- पक्षयित्वोच्यते प्रयोगपृथक्त्वे वैकैकम् । वेति पूर्वपक्षो व्यावर्तते । कामानां प्राधान्येन प्रतिप्रधानमगावृत्तिय्या । न च पशुदृष्टान्त एकजात्या क्रोडीकृतानामेकफलत्वम् । नचात्र तथा । उद्दिश्यमानानां फलानां न स्वरूपेण फलत्वं किं तु काम्यमानत्वेन । न सर्वस्य सर्व काम्यं तथा वेदमिदमिति बुद्धया ग्राह्यं तत्रैकया क्रोडीकर्तुं शक्यत इति प्रतिप्रधानमगावृत्तिः । तस्माद्वाक्यमेदोऽङ्गीकार्यः । प्रजाकामो दर्शपूर्णमासाभ्यां यजेत पशुकाम इत्यादि।

पूर्वा पौर्णमास्युत्तराऽमावास्या।


अत्र दर्शपूर्णमासौ निर्दिष्टौ दर्शपूर्वी सर्वत्र तथा पाठक्रमेणवोभयोरनुष्ठाने प्राप्त इदं सूत्रम् । तत्रायमर्थः-अरूपान्तरमिति दर्शस्य पूर्वनिपातेऽपि पूर्वा पौर्णमास्येवाss. रम्मणोयाप्रकरणे सारस्वतहोमार्थवादे 'य एनयोरनुलोमं च प्रतिलोमं च विद्यादित्यमावा- स्याया ऊर्ध्व तदनुलोमं पौर्णमास्यै प्रतीचीनं तत्प्रतिलोमम्' इत्युक्त्वा 'यत्पौर्णमासी पूर्वा- मालमेत प्रतिलोममेनावालमेत' इत्यादिना पूर्णमासस्य पूर्वानुष्ठाने दोषोऽभिधीयते । तहोपपरिहाराय सारस्वतहोमयोविधिरिति कृत्वा पूर्वा पौर्णमासी तथैवोत्तराऽमावास्यै- वात्र बहूनि लिङ्गान्यनुमन्त्रणसूक्तवाकदेवतायान्यादीनीति भावः । ननु दर्शपूर्णमासशब्दो कालपरौ कथं सर्वकामौ दर्शपूर्णमासावित्यादिनिर्देश इत्यत आह-

पौर्णमास्यां पौर्णमास्या यजतेऽमावास्यायाममावास्यया ।

अत्र सप्तमीनिर्दिष्टोऽधिकरणं कालस्तृतीयानिर्दिष्टौ न कालौ, तयोरधिकरणत्वेनैव साधेनत्वेऽसति करणत्वायोगात् । तस्माद्यागनामधेये । तथोक्तं-'विधाने वाऽनुवादे वा यागः करणमिष्यते । तत्समीपे तृतीयान्तं तद्वाचित्वं न मुश्चति ॥ इति । तस्मात्पौर्णमास्यमावास्याकालयोः क्रियमाणत्वात्कर्मसमुदायावपि तन्नामको । अनेन घ फलकरणस्यैकत्वेऽपि तस्य कालभेदात्प्रयोगभेदेन कालनिमित्तकरणावयवकर्मसमुदा. यवाचकत्वेन द्विवचनमुपपद्यतेऽशीषोमयोरिव दर्शपूर्णमासयोरेते वाक्ये समुदायद्व- यानुवादेनाऽऽ याद्युत्पत्तिवाक्यविहितकालानन्यत्वेऽप्येकैकस्मिन्समुदाय एकैक एवं । १ क. मिति । २ ख. र. दोषमभिधीय त। ३ ख. र. तथोत्त। ४ ट, 'छौ यागौ न । ५क, ग, च. छ. उ, धने स। खछ. ठ. यान्तस्तद्वा । ७ क. ख. ग. च. छ. "कालनान्य। द. कालजन्य ।