"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/६५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्न- दशकपालो द्वादशकपालो वाऽमावास्यायामसंनयत आग्नेयः सांनाय्यं च संनयतः । अत्र 'आग्नेयोऽष्टाकपालोऽमावास्यायां च पौ... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:२१, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्न-

दशकपालो द्वादशकपालो वाऽमावास्यायामसंनयत आग्नेयः सांनाय्यं च संनयतः ।

अत्र 'आग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति' इति वाक्य- विहितस्योभयत्रोपादानम् । अत्रोत्पत्तिवाक्ये यजतिन श्रूयते तथाऽपि साऽस्य देव- तेत्यधिकारेऽग्नेर्डक्प्रत्ययो विधीयते । अष्टाकपाल इति त्वष्टसु कपालेषु संस्कृतः । संस्कृतं मक्षा इति सूत्रेणापत्यये सति तस्य लुकि सति निष्पन्नस्तयोः सामानाधिकरण्येन द्रव्यमष्टाकपालमग्निदेवतासंबन्धीति गम्यते । यद्यप्यत्र द्वयोविशेष्य नोकं तथाऽपि पुरोडाशः स इति वाक्यशेषादवगम्यते ' तेऽपश्यन्पुरोडाशं कर्म भूतम् ' इति । पुरो- डाशशब्दश्च जातिनिमित्तको लोके पिण्डाकारे द्रव्ये सुप्रसिद्ध इति न्याय इति दर्श- यितुं न प्रयुक्त आचार्येण । प्रकृतिद्रव्यमपि शास्त्रान्तरोक्तं नौहिमिर्यजेत यवैर्यजे. तेति निर्वापन(ण)व ज्ञास्यत इति । अन्यत्राग्नीषोमीयादिषु सर्वत्र न पुरोडाशशब्दो वाक्यशेषे तथाऽपि ज्ञास्यते । पिण्डकरणादिना पुरो डा(दा)श्यत इति व्युत्पत्तिः साधुत्वाय न यौगिकत्वाय । तेन त्रयम्बकपुरोडाशेषु न संस्कारा इति दर्शितम् । न च देवताद्रव्ययोरन्यः संबन्धोऽस्ति यत्तस्यैव द्रव्यस्य दीयमानत्वं विना । तावतैव संबन्धनिर्वाहे सति प्रक्षेपान्ततापर्यन्ततया होमकल्पने प्रमाणाभावात् । त्यागश्व दानरूपो यागः । प्रधानभूत एव होमें कल्प्यमाने तस्योपसर्गत्वं प्रक्षेपस्य प्राधान्यं स्यात् । न हि द्रव्यदेवतासंबन्धः प्रक्षेपेण विना न भवतीत्यस्ति । तात्पर्य- निकृतानुत्सृजतीत्यत्र तथा यागस्य दर्शनात् । तस्माद्यागमात्रेण संबन्धचरितार्थत्वाद्या- गमात्रं कल्पनीयम् । एतेन दानकल्पनाऽपि निरस्ता । यस्तु प्रक्षेपस्तस्य चतुरवत्तं जुहोतीति साक्षाद्विधिरेवास्ति । एवमन्यत्रापि यागकल्पना । उपाश्शुयानमन्तरा यजतीति साक्षाद्याग एव श्रूयते । यजयाजेति सूत्रेण संज्ञायां कुत्वाभावः । चकारो विलक्षणत्वमुपांशुयाजस्याऽऽह । त्रयाणामनीषोमीयादीनां विकल्प इति । अग्नीषो- .मीय इति वृद्धाच्छ इति देवताधिकारे । तथा वैष्णव इत्यौत्सर्गिकोऽण् । प्राजापत्य इति दित्यदित्यादित्यपत्युत्तरपदाण्ण्य इत्येता देवता मानवणिक्यो याज्याकाण्डात् । शाखान्तरेऽनीषोमावुपांशु यष्टव्यौ, अनामित्वायेत्यादिवाक्यौत् । यागद्रव्यं तु धौवमा- ज्यम् । सर्वस्मै वा एतद्यज्ञाय गृह्यते । यद्धृवायामाज्यम् ' इति । तदुक्तं- प्रौवं साधारणं द्रव्यं देवता मानवर्णिकी ' इति । उपांशुयाज इत्यन्वर्थसंज्ञा ।आग्नेययागादस्याभ्यासेन भेदोऽभ्यासो विधिपुनश्रुति - णेन देवतालक्षणेन द्रव्यलक्षणेने वोत्तरस्मादपि तथैवं सर्वेष्वप्युत्तरेषु ज्ञेयम् । आग्नेयस्य १८. स्यै द्र। १ ख. छ. ट, कल्पमा । ३. क. ग. च, छ. ८. वयाद्याज्यद । ट, क्यायजिद्र" । ४ क.ग. न. छ. ट. ठ. 'ताद। ५ क. न चोत्त। .