"पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ७० सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र- 'भूतमान्युपयोगं हि द्रव्यं संस्कारमर्हति' इतिन्यायाद्भाव्युपयोगिन एव संस्कारो नोत्तर- कर्मार्थोऽग्निसंस्कारस्त... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:३१, १९ अक्टोबर् २०२१ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र- 'भूतमान्युपयोगं हि द्रव्यं संस्कारमर्हति' इतिन्यायाद्भाव्युपयोगिन एव संस्कारो नोत्तर- कर्मार्थोऽग्निसंस्कारस्तस्मिन्नकृते तत्त्यागे पूर्वकर्मवैयर्थ्यमुत्तरकर्मवैगुण्यं च । होतृहोमा- दीनां तु न तथा। तत्र श्लोका:-अन्वाधानात्पूर्वभाविन्याप पश्विष्टिकर्मणि । आरादुपकृतौ वाऽपि वह्वेस्त्यागो न हीष्यते ॥ १ ॥ तत्रान्वारम्भणीयेति संज्ञयेष्टाग्निसंस्कृतिः । अन्वारभ्यते ह्यनया कर्मेत्यर्थावधारणात् ॥ २॥ अग्निसंस्कारतो ह्यत्र करिम्भो विनिश्चितः । यतो वक्ष्यति पश्विष्ट्या वर्धारणमत्र तु ॥ ३ ॥ दीक्षणीया यथा ह्यारादुपकारिण्यपीष्यते। देवतानां वाऽपि परिग्रहार्थी ह्यर्थवादतः ॥ ४ ॥ अन्वाधानं च पश्चात्तत्संस्कारान्तरमिष्यते । शब्दान्त कार्यभेदादतो नैतन्निवर्तते ॥५॥ दर्शपूर्णमासयोर्याऽऽरम्भणीया न सा तथा । तदर्थवादतोऽस्यास्तु न दृष्टफलता मता ॥ ६ ॥ किं च सा नोत्तरस्यैव प्रयोगस्याङ्गमिष्यते । किंतु प्रथम आरम्भे निमित्ते च विधीयते ॥ ७ ॥ अतः पश्विष्टिवत्सा तु नाऽऽवर्तत इति स्थितिः । आरम्मे तु निमित्ते सत्यप्तौ कार्येति संज्ञया ॥८॥ प्रयोगाङ्गं ततो नेष्टमतो नाऽऽवर्तते सदा । एवं सर्वं च विज्ञेया व्यवस्थोद्धरणाय हि ॥९॥ विहव्याभिरितिबहुवचनविवक्षया पक्षान्तरमाह-

सर्वाभिर्वाऽऽहवनीयम् ।

विनियुक्ताभिस्तिसपिरित्यर्थः । अत्र पूर्ववन्नानाद्रव्यत्वेन प्रत्यग्नि तिसृणां प्राप्ति- स्तथैव पक्षान्तरस्याऽऽपस्तम्बेनाभिधानात्तथाऽप्याहवनीय एव शास्त्रान्तरेण विहव्य- विनियोगनियमादाहवनीय एवेत्युक्तम् । अत एव भरद्वानो ममाग्न इति पूर्वमग्निं गृह्णी- यातूष्णीमितराविति ह्याह । न चात्रापि तूष्णीमितरयोः प्राप्तिर्बाह्यक्रियाया अभावास्कि मन्त्रेण विना कर्तव्यं स्यात् । यदपि समिदाधानं दृश्यते सूत्रान्तरे तदपि नाम्न्यन्वाधान- शब्दवाच्यं किं तु तदङ्गमदृष्टार्थमेव । नच तस्य मन्त्रः साधनं किंतु मन्त्रान्ते प्रक्षेपो हविषः प्रक्षेप इव वषट्कारान्ते । तदभिप्रायेण तूष्णीमुक्तं भरद्वाजेन । - १ क, ग. च. छ. स. छ. अनाया। ख राकर्ममें।