"ऋग्वेदः सूक्तं १०.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १२५:
न । ये । शेकुः । यज्ञियाम् । नावम् । आऽरुहम् । ईर्मा । एव । ते । नि । अविशन्त । केपयः ॥६
 
हे इन्द्रं तव प्रसादात् ते “पृथक् “प्रायन् देवलोकान् पृथग्गच्छन्ति ये “प्रथमाः पूर्वे मुख्या वा "देवहूतयः देवानामाह्वातारः । कर्तरि कृत् । किंच “दुष्टरा अन्यैर्दुस्तराणि “श्रवस्यानि श्रवणीयानि यशांसि “अकृण्वत अकुर्वत । किंच "ये त्वत्प्रसादरहिता जनाः “यज्ञियां यज्ञसंबन्धिनीम् । यज्ञमयीमित्यर्थः । “नावम् “आरुहम् आरोढुं “न “शेकुः न शक्नुवन्ति “ते “केपयः कुत्सितपूयकर्माणः पापकर्माणो जनाः “ईर्मैंव ऋणेनैव “न्यविशन्त नीचैरविशन्त । अधोगतिं प्राप्ता इत्यर्थः । तथा च यास्कः- ‘ पृथक् प्रायन् पृथक् प्रथतेः प्रथमा देवहूतयो ये देवानाह्वयन्ताकुर्वत श्रवणीयानि यशांसि दुरनुकरण्यन्यैर्येऽशक्नुवन्यज्ञियां नावमारोळ्हुमथ ये नाशक्नुवन्यज्ञियां नावमारोळ्हुमीर्मैव ते न्यविशन्त ऋणेनैव ते न्यविशन्तास्मिन्नेव लोक इति वा ' (निरु. [https://sa.wikisource.org/s/6zk ५, २५]) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४४" इत्यस्माद् प्रतिप्राप्तम्