"आश्वलायन श्रौतसूत्रम्/अध्यायः ५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
 
 
अथैन्द्रैः पुरोडाशैरनुसवनं चरन्ति १ धानावन्तं करम्मिणमिति प्रातःसवने-ऽनुवाक्या २ माध्यन्दिनस्य सवनस्य धाना इति माध्यन्दिने । तृतीये धानाः सवने पुरुष्टुतेति तृतीयसवने । होता यक्षदिन्द्रं हरिवाँ इन्द्रो धाना अत्त्विति प्रैषो लिङ्गैरनुसवनं ३ उद्धृत्यादेशपदं तेनैवेज्या ४ होता यक्षदसौ यज योऽस्तु स्थान आगूर्वषट्कारौ यत्र क्व च प्रैषेण यजेत् ५ अथ स्विष्टकृतोऽग्ने जुषस्व नो हविर्माध्यन्दिने सवने जातवेदोऽग्ने तृतीये सवने हि कानिष इत्यनुसवनमनवाक्याः ६ होता यक्षदग्निपुरोडाशानामिति प्रैषो हविरग्ने वीहीति याज्या एतास्वनुवाक्यासु पुरोडाशशब्दं बहुवदेके ७ विज्ञायते पूयति वा एतदृचोऽक्षरं यदेनदूहति तस्मादृचं नोहेत् ८ ४ 5.4</span></poem>
[[File:द्विदेवत्यग्रह१ Dual Divinity Vessel 1.png|thumb|द्विदेवत्यग्रह१ ]]
[[File:द्विदेवत्यग्रह२ Dual Divinity vessel2.jpg|thumb|द्विदेवत्यग्रह२ ]]
[[File:द्विदेवत्यग्रह३ Dual-Divinity vessels3.jpg|thumb|द्विदेवत्यग्रह३ ]]
 
<poem><span style="font-size: 14pt; line-height: 200%">द्विदेवत्यैश्चरन्ति १ वायव इन्द्र वायभ्यां । वायवायाहि दर्शतेन्द्र वायू इमे सुता इत्यनुवाक्ये अनवानं पृथक्प्रणवे २ होता यक्षद्वायुमग्रेगां होता यक्षदिन्द्र वायू अर्हन्तेति प्रैषावनवानं ३ अग्रं पिबा मधूनामिति याज्ये अनवानमेकागुरे पृथग्वषट्कारे ४ इदमाद्यनवानं प्रातःसवन इज्यानुवाक्ये ५ प्रैषौ चोत्तरयोर्ग्रहयोः ६ हुत्वैतद्ग्रहपात्रमाहरत्यध्वर्युः ७ तद्गृह्णीयादैतुवसुः परूवसुरिति ८ प्रतिगृह्य दक्षिणमूरुमपोच्छाद्य तस्मिन् सादयित्वाऽऽकाशवतीभिरङ्गुलीभिरपिदध्यात् ९ एवमुत्तरे १० सव्येन त्वपिधाय तयोः प्रति-ग्रहो भक्षणञ्च ११ मैत्रावरुणस्यायं वां मित्रावरुणा होता यक्षन्मित्रावरुणा गृणाना जमदग्निनेत्यैतुवसुविदद्वसुरिति प्रतिगृह्य दक्षिणेनैन्द्र वायवं हृत्वाऽभ्यात्मं सादनं । आश्विनस्य प्रातर्युजा विबोधय होता यक्षदश्विना नासत्या वावृधाना शुभस्पती इति । ऐतुवसुः संयद्वसुरिति प्रतिगृह्यैवमेव हृत्वोत्तरेण शिरः परिहृत्याभ्यात्मतरं सादनं १२ अनुवचनप्रैषयाज्यासु नित्योऽध्वर्युतः संप्रैषः १३ उन्नीयमानेभ्योऽन्वाहा त्वा वहन्त्वसाविदेवमिहोपयातेत्यनुसवनं १४ होता यक्षदिन्द्रं प्रातः प्रातः सावस्य । होता यक्षदिन्द्रं माध्यन्दिनस्य सवनस्य होता यक्षदिन्द्रं तृतीयस्य सवनस्येति प्रेषितः प्रेषितो होताऽनुसवनं प्रस्थितयाज्याभिर्यजति १५ नामादेशमितरे १६ प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रः । अच्छावाकश्च १७ उत्तरयोः सवनयोः पुराऽऽग्नीध्रात् । इदन्ते सौम्यं मधु मित्रं वयं हवामह इन्द्र त्वा वृषभं वयं मरुतो यस्य हि क्षयेऽग्ने पत्नीरिहावहोक्षान्नाय वशान्नायेति प्रातःसवनिक्यः प्रस्थितयाज्याः १८ पिबा सोममभियमुग्रतर्द इति तिस्रोऽर्वाङेहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङिन्द्रा य सोमाः प्र दिवो विदाना आ पूर्णो अस्य कलशः स्वाहेति माध्यन्दिन्यः । इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिन्द्रा वरुणा सुतपाविमं सुतमिन्द्र श्च सोमं पिबतं वृहस्पत आ वो वहन्तु सप्त यो रघुष्पदो मे वनः सुहवा आहिगन्तनेन्द्रा विष्णू पिबतं मध्वो अस्येमं स्तोममर्हते जातवेदस इति तार्त्तीयसवनिक्यः । सोमस्याग्ने वीहीत्यनुवषट्कारः १९ प्रस्थितयाज्यासु शस्त्रयाज्यासु मरुत्वतीये हारियोजने महिम्नि । आश्विने चेतरो अह्न्ये २० तदेषाऽभि यज्ञगाथा गीयते । ऋतुयाजान् द्विदेवत्यान् यश्च पात्नीवतो ग्रहः । आदित्यग्रहसावित्रौ तान्त्स्म माऽनुवषट्कृथा इति २१ प्रतिवषट्कारं भक्षणं २२ तूष्णीमुत्तरं २३ एत्यध्वर्युः २४ अयाडग्नीदिति पृच्छति २५ अयाडिति प्रत्याह २६ स भद्रमकर्यो नः सोमस्य पाययिष्यतीति होता जपति २७ ५ 5.5
 
द्विदेवत्यैश्चरन्ति १ वायव इन्द्र वायभ्यां । वायवायाहि दर्शतेन्द्र वायू इमे सुता इत्यनुवाक्ये अनवानं पृथक्प्रणवे २ होता यक्षद्वायुमग्रेगां होता यक्षदिन्द्र वायू अर्हन्तेति प्रैषावनवानं ३ अग्रं पिबा मधूनामिति याज्ये अनवानमेकागुरे पृथग्वषट्कारे ४ इदमाद्यनवानं प्रातःसवन इज्यानुवाक्ये ५ प्रैषौ चोत्तरयोर्ग्रहयोः ६ हुत्वैतद्ग्रहपात्रमाहरत्यध्वर्युः ७ तद्गृह्णीयादैतुवसुः परूवसुरिति ८ प्रतिगृह्य दक्षिणमूरुमपोच्छाद्य तस्मिन् सादयित्वाऽऽकाशवतीभिरङ्गुलीभिरपिदध्यात् ९ एवमुत्तरे १० सव्येन त्वपिधाय तयोः प्रति-ग्रहो भक्षणञ्च ११ मैत्रावरुणस्यायं वां मित्रावरुणा होता यक्षन्मित्रावरुणा गृणाना जमदग्निनेत्यैतुवसुविदद्वसुरिति प्रतिगृह्य दक्षिणेनैन्द्र वायवं हृत्वाऽभ्यात्मं सादनं । आश्विनस्य प्रातर्युजा विबोधय होता यक्षदश्विना नासत्या वावृधाना शुभस्पती इति । ऐतुवसुः संयद्वसुरिति प्रतिगृह्यैवमेव हृत्वोत्तरेण शिरः परिहृत्याभ्यात्मतरं सादनं १२ अनुवचनप्रैषयाज्यासु नित्योऽध्वर्युतः संप्रैषः १३ उन्नीयमानेभ्योऽन्वाहा त्वा वहन्त्वसाविदेवमिहोपयातेत्यनुसवनं १४ होता यक्षदिन्द्रं प्रातः प्रातः सावस्य । होता यक्षदिन्द्रं माध्यन्दिनस्य सवनस्य होता यक्षदिन्द्रं तृतीयस्य सवनस्येति प्रेषितः प्रेषितो होताऽनुसवनं प्रस्थितयाज्याभिर्यजति १५ नामादेशमितरे १६ प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रः । अच्छावाकश्च १७ उत्तरयोः सवनयोः पुराऽऽग्नीध्रात् । इदन्ते सौम्यं मधु मित्रं वयं हवामह इन्द्र त्वा वृषभं वयं मरुतो यस्य हि क्षयेऽग्ने पत्नीरिहावहोक्षान्नाय वशान्नायेति प्रातःसवनिक्यः प्रस्थितयाज्याः १८ पिबा सोममभियमुग्रतर्द इति तिस्रोऽर्वाङेहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङिन्द्रा य सोमाः प्र दिवो विदाना आ पूर्णो अस्य कलशः स्वाहेति माध्यन्दिन्यः । इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिन्द्रा वरुणा सुतपाविमं सुतमिन्द्र श्च सोमं पिबतं वृहस्पत आ वो वहन्तु सप्त यो रघुष्पदो मे वनः सुहवा आहिगन्तनेन्द्रा विष्णू पिबतं मध्वो अस्येमं स्तोममर्हते जातवेदस इति तार्त्तीयसवनिक्यः । सोमस्याग्ने वीहीत्यनुवषट्कारः १९ प्रस्थितयाज्यासु शस्त्रयाज्यासु मरुत्वतीये हारियोजने महिम्नि । आश्विने चेतरो अह्न्ये २० तदेषाऽभि यज्ञगाथा गीयते । ऋतुयाजान् द्विदेवत्यान् यश्च पात्नीवतो ग्रहः । आदित्यग्रहसावित्रौ तान्त्स्म माऽनुवषट्कृथा इति २१ प्रतिवषट्कारं भक्षणं २२ तूष्णीमुत्तरं २३ एत्यध्वर्युः २४ अयाडग्नीदिति पृच्छति २५ अयाडिति प्रत्याह २६ स भद्रमकर्यो नः सोमस्य पाययिष्यतीति होता जपति २७ ५ 5.5