"श्रीत्रिपुरसुन्दरीमानसपूजास्तॊत्रम्" इत्यस्य संस्करणे भेदः

.. त्रिपुरसुन्दरीमानसपूजास्तोत्रम् .. श्रीः मम ... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०७:३९, २९ मार्च् २०१३ इत्यस्य संस्करणं

.. त्रिपुरसुन्दरीमानसपूजास्तोत्रम् .. श्रीः मम न भजनशक्तिः पादयोस्ते न भक्ति-

      र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः .

इति मनसि सदाहं चिन्तयन्नाद्यशक्ते

      रुचिरवचनपुष्पैरर्चनं संचिनोमि .. १..

व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः

      पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् .

आरक्तामृतसिन्धुमुद्धुरचलद्विचीचयव्याकुल-

      व्योमानं परिचिन्त्य सन्ततमहो चेतः कृतार्थीभव .. २..

तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं

      कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः .

उच्चैःशृङ्गनिषण्णदिव्यवनिताबृन्दाननप्रोल्लस-

      द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे .. ३..

जातीचम्पकपाटलादिसुमनःसौरभ्यसम्भावितं

      ह्रीङ्कारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् .

आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं चञ्चच्चञ्चलचञ्चरिकचटुलं चेतश्चिरं चिन्तय .. ४.. परिपतितपरागैः पाटलक्षोणिभागो

      विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः .

अलिशुकपिकराजीकूजितैः श्रोत्रहारी

      स्फुरतु हृदि मदीये नूनमुद्यानराजः .. ५..

रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ

      स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते .

क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद

      प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः .. ६..

उद्यत्कान्तिकलापकल्पितनभःस्फूर्जद्वितानप्रभ

      सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः .

सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं

      सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् .. ७..

क्वापि प्रोद्भटपद्मरागकिरणव्रातेन सन्ध्यायितं

      कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् .

मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-

      न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् .. ८..

उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-

      न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया .

नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-

      र्वल्गावल्गिगतहस्तमस्तशिखरं कष्टैरितः प्राप्यते .. ९..

मणिसदनसमुद्यत्कान्तिधारानुरक्ते

      वियति चरमसन्ध्याशङ्किनो भानुरथ्याः .

शिथिलितगतकुप्यत्सूतहुङ्कारनादैः

      कथमपि मणिगेहादुच्चकैरुच्चलन्ति .. १०..

भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना

      किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् .

आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते

      शम्भौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः .. ११.. विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै- 
      र्निबद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः .

विरिञ्चिविष्णुशङ्करादिभिर्मुदा तवाम्बिके

      प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः .. १२..

ध्वनन्मृदङ्गकाहलः प्रगीतकिंनरीगणः

      प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः .

प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो

      मुदे ममास्तु सन्ततं त्वदीयरत्नमण्डपः .. १३..

प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै-

      र्बहिस्थितामरावलीविधीयमानभक्तिभिः .

विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः

      सदा करोतु मङ्गलं ममेह रत्नमण्डपः .. १४..

सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि-

      र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः .

असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो

      मदीयमेतु मानसं त्वदीयतुङ्गतोरणः .. १५..

इन्द्रादींश्च दिगीश्वरान्सहपरिवारानथो सायुधा-

      न्योषिद्रूपधरान्स्वदिक्षु निहितान्संचिन्त्य हृत्पङ्कजे .

शङ्खे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर-

      न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे .. १६..

गायन्तीः कलवीणयातिमधुरं हुङ्कारमातन्वती-

      र्द्वाराभ्यासकृतस्थितीरिह सरस्वत्यादिकाः पूजयन् .

द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां

      मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे .. १७..

कस्तूरिकाश्यामलकोमलाङ्गीं

      कादम्बरीपानमदालसाङ्गीम् .

वामस्तनालिङ्गितरत्नवीणां

      मातङ्गकन्यां मनसा स्मरामि .. १८..

विकीर्णचिकुरोत्करे विगलिताम्बराडम्बरे

      मदाकुलितलोचने विमलभूषणोद्भासिनि .

तिरस्करिणि तावकं चरणपङ्कजं चिन्तय-

      न्करोमि पशुमण्डलीमलिकमोहदुघ्धाशयाम् .. १९..

प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः

      प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः .

उपोढकज्जलच्छविच्छटाविराजिविग्रहः

     कपालशूलधारिणीः स्तुवे त्वदीयदूतिकाः .. २०..

स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुरः स्थापितै-

     र्दीपोद्भासिशरावशोभितमुखैः कुम्भैर्नवैः शोभिना .

स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया

     युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणी मन्दिरम् .. २१..

आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारान्वितं

      दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम् .

धूपोद्गारिसुगन्धिसम्भ्रममिलद्भृङ्गावलीगुञ्जितं

      कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् .. २२..

कनकरचिते पञ्चप्रेतासनेन विराजिते

      मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे .

कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे

      हृदयकमले प्रादुर्भूतां भजे परदेवताम् .. २३..

सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां

      जृम्भामञ्जुमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् .

सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशा

      संपश्यन्परदेवतां परमहो मन्ये कृतार्थं जनुः .. २४..

उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते

      भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते .

नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां

      प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् .. २५..

पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोः

      सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादय .

तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं

      साष्टाङ्गं प्रणिपातमीशदयिते दृष्ट्या कृतार्थी कुरु .. २६..

मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे

      देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् .

सुप्रक्षालितमाननं विरचयन्स्निग्धाम्बरप्रोञ्छनं

      द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय .. २७..

निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना-

      लयं व्रज शनैः सखीकृतकराम्बुजालम्बनम् .

महेशि करुणानिधे तव दृगन्तपातोत्सुका-

      न्विलोकय मनागमूनुभयसंस्थितान्दैवतान् .. २८..

हेमरत्नवरणेन वेष्टितं

      विस्तृतारुणवितानशोभितम् .

सज्जसर्वपरिचारिकाजनं

      पश्य मज्जनगृहं मनो मम .. २९..

कनककलशजालस्फाटिकस्नानपीठा-

      द्युपकरणविशालं गन्धमत्तालिमालम् .

स्फुरदरुणवितां मञ्जुगन्धर्वगानं

      परमशिवमहेले मज्जनागारमेहि .. ३०..

पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्रानना

      रत्नस्वर्णविनिर्मिताः परिलसत्सूक्ष्माम्बरप्रावृताः .

हेमस्नानघटीस्तथा मृदुपटिरुद्वर्तनं कौसुमं

      तैलं कङ्कतिकं करेषु दधतीर्वन्देऽम्ब ते दासिकाः .. ३१..

तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालङ्कृति-

      र्नीचैरुज्झितकञ्चुकोपरिहितारक्तोत्तरीयाम्बरा .

वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना-

      क्कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् .. ३२..

अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादितं

      काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय .

गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते

      नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् .. ३३..

कृतपरिकरबन्धास्तुङ्गपीनस्तनाढ्या

      मणिनिवहनिबद्धा हेमकुम्भीर्दधानाः .

सुरभिसलिलनिर्यद्गन्धलुब्धालिमालाः

      सविनयमुपतस्थुः सर्वतः स्नानदास्यः .. ३४..

उद्गन्धैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणा

      स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि .

पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैः

      स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदङ्गीकुरु .. ३५..

प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोञ्छनं

      कुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितम् .

आलीबृन्दविनिर्मितां यवनिकामास्थाप्यरत्नप्रभं

      भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम् .. ३६..

पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके

      सूक्ष्मं स्निग्धमुरीकुरुष्व वसनं सिन्दूरपूरप्रभम् .

मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभास्वरं

      नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि .. ३७..

विलुलितचिकुरेण च्छादितांसप्रदेशे

      मणिनिकरविराजत्पादुकान्यस्तपादे .

सुललितमवलम्ब्य द्राक्सखीमंसदेशे

      गिरिशगृहिणि भूषामण्टपाय प्रयाहि .. ३८..

लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली-

      समुल्लसितकान्तिभिः कलितशक्रचापव्रजे .

महाभरणमण्डपे निहितहेमसिंहासनं

      सखीजनसमावृतं समधितिष्ठ कात्यायनि .. ३९..

स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं

      सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम् .

मुक्ताभिर्ग्रथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं

      प्रान्ते मौक्तिकगुच्छकोपलतिकां ग्रथ्नामि वेणीमिमाम् .. ४०..

विलम्बिवेणीभुजगोत्तमाङ्ग-

      स्फुरन्मणिभ्रान्तिमुपानयन्तम् .

स्वरोचिषोल्लासितकेशपाशं

      महेशि चूडामणिमर्पयामि .. ४१..

त्वामाश्रयद्भिः कबरीतमिस्रै-

      र्बन्दीकृतं द्रागिव भानुबिम्बम् .

मृडानि चूडामणिमादधानं

      वन्दामहे तावतमुत्तमाङ्गम् .. ४२..

स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं

      विलम्बिमौक्तिकच्छटाविराजितं समन्ततः .

निबद्धलक्षचक्षुषा भवेन भूरि भावितं

      समर्पयामि भास्वरं भवानि फालभूषणम् .. ४३..

मीनाम्भोरुहखञ्जरीटसुषमाविस्तारविस्मारके

      कुर्वाणे किल कामवैरिमनसः कन्दर्पबाणप्रभाम् .

माध्वीपानमदारुणेऽतिचपले दीर्घे दृगम्भोरुहे

      देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् .. ४४..

मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां

      दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम् .

उत्सिक्ताधरबिम्बकान्तिविसरैर्भौमीभवन्मौक्तिकां

      मद्दत्तमुररीकुरुष्व गिरिजे नासाविभूषामिमाम् .. ४५..

उडुकृतपरिवेषस्पर्धया शीतभानो-

      रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् .

अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं

      शरवसि परिनिधेहि स्वर्णताटङ्कयुग्मम् .. ४६..

मरकतवरपद्मरागहीरो-

      त्थितगुलिकात्रितयावनद्धमध्यम् .

विततविमलमौक्तिकं च

      कण्ठाभरणमिदं गिरिजे समर्पयामि .. ४७..

नानादेशसमुत्त्थितैर्मणिगणप्रोद्यत्प्रभामण्डल-

      व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालङ्कृताम् .

मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल-

      व्रातामम्ब चतुष्किकां परशिवे वक्षःस्थले स्थापय .. ४८..

अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः

      कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी .

मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै-

      र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः .. ४९..

करसरसिजनाले विस्फुरत्कान्तिजाले

      विलसदमलशोभे चञ्चदीशाक्षिलोभे .

विविधमणिमयूखोद्भासितं देवि दुर्गे

      कनककटकयुग्मं बाहुयुग्मे निधेहि .. ५०..

व्यालम्बमानसितपट्टकगुच्छशोभि

      स्फूर्जन्मणीघटितहारविरोचमानम् .

मातर्महेशमहिले तव बाहुमूले

      केयूरकद्वयमिदं विनिवेशयामि .. ५१..

विततनिजमयूखैर्निर्मितामिन्द्रनीलै-

      र्विजितकमलनालालीनमत्तालिमालाम् .

मणिगणखचिताभ्यां कङ्कणाभ्यामुपेतां

      कलय वलयराजीं हस्तमूले महेशि .. ५२..

नीलपट्टमृदुगुच्छशोभिता-

      बद्धनैकमणिजालमञ्जुलाम् .

अर्पयामि वलयात्पुरःसरे

      विस्फुरत्कनकतैतृपालिकाम् .. ५३..

आलवालमिव पुष्पधन्वना

      बालविद्रुमलतासु निर्मितम् .

अङ्गुलीशु विनिधीयतां शनै-

      रङ्गुलीयकमिदं मदर्पितम् .. ५४..

विजितहरमनोभूमत्तमातङ्गकुम्भ-

      स्थलविलुलितकूजत्किङ्किणीजालतुल्याम् .

अविरतकलनदैरीशचेतो हरन्तीं

      विविधमणिनिबद्धां मेखलामर्पयामि .. ५५..

व्यालम्बमानवरमौक्तिकगुच्छशोभि

      विभ्राजिहाटकपुटद्वयरोचमानम् .

हेम्ना विनिर्मितमनेकमणिप्रबन्धं

      नीवीनिबन्धनगुणं विनिवेदयामि .. ५६..

विनिहतनवलाक्षापङ्कबालातपौघे

      मरकतमणिराजीमञ्जुमञ्जीरघोषे .

अरुणमणिसमुद्यत्कान्तिधाराविचित्र-

      स्तव चरणसरोजे हंसकः प्रीतिमेतु .. ५७..

निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां

      कलक्वणितमञ्जुलां गिरिशचित्तसंमोहनीम् .

अमन्दमणिमण्डलीविमलकान्तिकिम्मीरितां

      निधेहि पदपङ्कजे कनकघुङ्घुरूमम्बिके .. ५८..

विस्फुरत्सहजरागरञ्जिते

      शिञ्जितेन कलितां सखीजनैः .

पद्मरागमणिनूपुरद्वयी-

      मर्पयामि तव पादपङ्कजे .. ५९..

पदाम्बुजमुपासितुं परिगतेन शीतांशुना

      कृतां तनुपरम्परामिव दिनान्तरागारुणाम् .

महेशि नवयावकद्रवभरेण शोणीकृतां

      नमामि नखमण्डलीं चरणपङ्कजस्थां तव .. ६०..

आरक्तश्वेतपीतस्फुरदुरुकसुमैश्चित्रितां पट्टसूत्रै-

      र्देवस्त्रीभिः प्रयत्नादगरुसमुदितैर्धूपितां दिव्यधूपैः .

उद्यद्गन्धान्धपुष्पंधयनिवहसमारब्धझाङ्कारगीतां

      चञ्चत्कह्लारमालां परशिवरसिके कण्ठपीठेऽर्पयामि .. ६१..

गृहाण परमामृतं कनकपात्रसंस्थापितं

      समर्पय मुखाम्बुजे विमलवीटिकामम्बिके .

विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले

      निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि .. ६२..

आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता

      कूजन्मन्दमरालमञ्जुलगतिप्रोल्लासिभूषाम्बर .

आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा

      मच्चित्ते स्थिरतामुपैतु गिरिजा यान्ती सभामण्डपम् .. ६३..

चलन्त्यामम्बायां प्रचलति समस्ते परिजने

      सवेगं संयाते कनकलतिकालङ्कृतिभरे .

समतादुत्तालस्फुरितपदसंपातजनितै-

      र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहम् .. ६४..

चञ्चद्वेत्रकराभिरङ्गविलसद्भूषाम्बराभिः पुरो-

      यन्तीभिः परिचारिकाभिरमरव्राते समुत्सारिते .

रुद्धे निर्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं

      वन्दे नन्दितशम्भु निर्मलचिदानन्दैकरूपं महः .. ६५..

वेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रतः

      शम्भुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय .

इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती

      दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै मम .. ६६..

मन्दं चारणसुन्दरीभिरभितो यान्तीभिरुत्कण्ठया

      नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितात् .

वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै-

      र्दित्सन्ती चरणाम्बुजं पथि जगत्पायान्महेशप्रिया .. ६७..

अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता

      आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे .

संमर्दं शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः

      कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते .. ६८..

अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै-

      रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः .

कूजन्नूपुरनाद मञ्जु पुरतो नृत्यन्ति दिव्याङ्गना

      गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरिञ्च्यादयः .. ६९..

कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा-

      देकस्मै भवनिःस्पृहाय परमानन्दस्वरूपां गतिम् .

अन्यस्मै विषयानुरक्तमनसे दीनाय दुःखापहं

      द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीम् .. ७०..

नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने

      मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोघत्रये .

नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलं

      व्याचक्षाणमुदग्रकान्ति कलये यत्किञ्चिदाद्यं महः .. ७१..

तव दहनसदृक्षैरीक्षणैरेव चक्षु-

      र्निखिलपशुजनानां भीषयद्भीषणास्यम् .

कृतवसति परेशप्रेयसि द्वारि नित्यं

      शरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि .. ७२..

कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभां

      रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम् .

कर्पूरागरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलीं

      श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकाम् .. ७३..

स्वस्थानस्थितदेवतागणवृते बिन्दौ मुदा स्थापितं

      नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम् .

चञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं

      नित्यानन्दनिदानमम्ब सततं वन्दे च सिंहासनम् .. ७४..

वदद्भिरभितो मुदा जय जयेति बृन्दारकैः

      कृताञ्जलिपरम्परा विदधति कृतार्था दृशा .

अमन्दमणिमण्डलीखचितहेमसिंहासनं

      सखीजनसमावृतं समधितिष्ठ दाक्षायणि .. ७५..

कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारकं

      ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम् .

विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याभित-

      स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि .. ७६..

त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः

      स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम् .

मुहुरपि च विधूते चामरग्राहिणीभिः

      सितकरकरशुभ्रे चामरे चालयामि .. ७७..

प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं

      चञ्चन्महामणिविचित्रितहेमदण्डम् .

उद्यत्सहस्रकरमण्डलचारु हेम-

      च्छत्रं महेशमहिले विनिवेशयामि .. ७८..

उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा-

      शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि .

दूरादादरनिर्मिताञ्जलिपुटैरालोकमानं सुर-

      व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् .. ७९..

सन्तुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां

      पुष्पौघैरभिपूजितां भगवतीं त्वां वन्दमाना मुदा .

स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदाः

      श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः .. ८०..

आधारशक्त्यादिकमाकलय्य

      मध्ये समस्ताधिकयोगिनीं च .

मित्रेशनाथादिकमत्र नाथ-

      चतुष्टयं शैलसुते नतोऽस्मि .. ८१..

त्रिपुरासुधार्णवासन-

      मारभ्य त्रिपुरमालिनी यावत् .

आवरणाष्टकसंस्थित-

      मासनषट्कं नमामि परमेशि .. ८२..

ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदं

      वायव्ये वटुकं च कज्जलरुचिं व्यालोपवीतान्वितम् .

नैरृत्ये महिषासुरप्रमथिनीं दुर्गां च संपूजय-

      न्नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधि नाथं भजे .. ८३..

उड्यानजालन्धरकामरूप-

      पीठानिमान्पूर्णगिरिप्रसक्तान् .

त्रिकोणदक्षाग्रिमसव्यभाग-

      मध्यस्थितान्सिद्धिकरान्नमामि .. ८४..

लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु-

      स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः .

आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता-

      नेतांश्चक्रबहिःस्थितान्सुरगणान्वन्दामहे सादरम् .. ८५..

तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथं

      त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम् .

रत्नालङ्कृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं

      नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे .. ८६..

हृदि भावितदैवतं प्रयत्ना-

      भ्युपदेशानुगृहीतभक्तसङ्घम् .

स्वगुरुक्रमसंज्ञचक्रराज-

      स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना .. ८७..

हृदयमथ शिरः शिखाखिलाद्ये

      कवचमथो नयनत्रयं च देवि .

मुनिजनपरिचिन्तित तथास्त्रं

      स्फुरतु सदा हृदये षडङ्गमेतत् .. ८८..

त्रैलोक्यमोहनमिति प्रथिते तु चक्रे

      चञ्चद्विभूषणगणत्रिपुराधिवासे .

रेखात्रये स्थितवतीरणिमादिसिद्धी-

      र्मुद्रा नमामि सततं प्रकटाभिधास्ताः .. ८९..

सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते

      विस्फूर्जन्त्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः .

कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्याम्बरा

      योगिन्यः प्रदिशन्तु काङ्क्षितफलं विख्यातगुप्ताभिधाः .. ९०..

महेशि वसुभिर्दलैर्लसति सर्वसंक्षोभणे

      विभूषणगणस्फुरन्त्रिपुरसुन्दरीसद्मनि .

अनङ्गकुसुमादयो विविधभूषणोद्भासिता

      दिशन्तु मम काङ्क्षितं तनुतराश्च गुप्ताभिधाः .. ९१..

लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे

      शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे .

स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणी-

      मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः .. ९२..

बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः . कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः .. ९३.. अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे

      मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः .

नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्याम्बरं

      सर्वज्ञादिकशक्तिबृन्दमनिशं वन्दे निगर्भाभिधम् .. ९४..

सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते . रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम् .. ९५.. चूताशोकविकासिकेतकरजःप्रोद्भासिनीलाम्बुज-

      प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् .

रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कुशं

      वन्दे तावकमायुधं परशिवे चक्रान्तरालेस्थितम् .. ९६..

त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे

      युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी .

तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी

      करोतु भगमालिनी स्फुरतु मामके चेतसि .. ९७..

सर्वानन्दमये समस्तजगतामाकाङ्क्षिते बैन्दवे

      भैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी .

आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषाम्बरा

      विस्फूर्जद्वदना परापररहः स मां पातु योगिनी .. ९८..

उल्लसत्कनककान्तिभासुरं

      सौरभस्फुरणवासिताम्बरम् .

दूरतः परिहृतं मधुव्रतै-

      रर्पयामि तव देवि चम्पकम् .. ९९..

वैरमुद्धतमपास्य शम्भुना

      मस्तके विनिहितं कलाच्छलात् .

गन्धलुब्धमधुपाश्रितं सदा

      केतकीकुसुममर्पयामि ते .. १००..

चूर्णीकृतं द्रागिव पद्मजेन

      त्वदाननस्पर्धिसुधांशुबिम्बम् .

समर्पयामि स्फुटमञ्जलिस्थं

      विकासिजातीकुसुमोत्करं ते .. १०१..

अगरुबहलधूपाजस्रसौरभ्यरम्यां

      मरकतमणिराजीराजिहारिस्रगाभाम् .

दिशि विदिशि विसरद्गन्धलुब्धालिमालां

      वकुलकुसुममालां कण्ठपीठेऽर्पयामि .. १०२..

ईङ्कारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ

      त्रैलोक्ये गुरुगम्यमेतदखिलं हार्दं च रेखात्मकम् .

इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय-

      न्नानन्दाम्बुधिमज्जने प्रलभतामानन्दथुं सज्जनः .. १०३..

धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरं

      दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् .

रजस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं

      नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि .. १०४..

जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं

      शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतातथा सूपकाः .

प्राज्यं माहिषमाज्यमुत्तममिदं हैवंगवीनं पृथ-

      क्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु .. १०५..

शिम्बीसूरणशाकबिम्बबृहतीकूश्माण्डकोशातकी-

      वृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना .

संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता-

      न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रव्रजे .. १०६..

निम्बूकार्द्रकचूतकन्दकदलीकौशातकीकर्कटी-

      धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे .

राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये

      संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते .. १०७..

सितयाञ्चितलड्डुकव्रजा-

      न्मृदुपूपान्मृदुलाश्च पूरिकाः .

परमान्नमिदं च पार्वति

      प्रणयेन प्रतिपादयामि ते .. १०८..

दिग्धमेतदनले सुसाधितं

      चन्द्रमण्डलनिभं तथा दधि .

फाणितं शिखरिणीं सितासितां

      सर्वमम्ब विनिवेदयामि ते .. १०९..

अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं

      ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः .

देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं

      शक्तिभ्यः समुपाहारामि सकलं देवेशि शम्भुप्रिये .. ११०..

वामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णां दधाना-

      मन्येन स्वर्णदर्वीं निजजनहृदयाभीष्टदां धारयन्तीम् .

सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गीं

      तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णां नमामि .. १११..

पङ्क्त्योपविष्टान्परितस्तु चक्रं

      शक्त्या स्वयालिङ्गितवामभागान् .

सर्वोपचारैः परिपूज्य भक्त्या

      तवाम्बिके पारिषदान्नमामि .. ११२..

परमामृतमत्तसुन्दरी-

      गणमध्यस्थितमर्कभासुरम् .

परमामृतघूर्णितेक्षणं

      किमपि ज्योतिरुपास्महे परम् .. ११३..

दृश्यते तव मुखाम्बुजं शिवे

      श्रूयते स्फुटमनाहतध्वनिः .

अर्चने तव गिरामगोचरे

      न प्रयाति विषयान्तरं मनः .. ११४..

त्वन्मुखाम्बुजविलोकनोल्लस-

      त्प्रेमनिश्चलविलोचनद्वयीम् .

उन्मनीमुपगतां सभामिमां

      भावयामि परमेशि तावकीम् .. ११५..

चक्षुः पश्यतु नेह किंचन परं घ्राणं न वा जिघ्रतु

      श्रोत्रं हन्त श्रुणोतु न त्वगपि न स्पर्शं समालम्बताम् .

जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते

      नित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु .. ११६..

यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं

      मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम् .

यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयो

      यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव .. ११७..

गणाधिनाथं वटुकं च योगिनीः

      क्षेत्राधिनाथं च विदिक्चतुष्टये .

सर्वोपचारैः परिपूज्य भक्तितो

      निवेदयामो बलिमुक्तयुक्तिभिः .. ११८..

वीणामुपान्ते खलु वादयन्त्यै

      निवेद्य शेषं खलु शेषिकायै .

सौवर्णभृङ्गारविनिर्गतेन

      जलेन शुद्धाचमनं विधेहि .. ११९..

ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका-

      जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम् .

स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै-

      र्दीपैरुज्ज्वलमान्नचूर्णरचितैरारार्तिकं गृह्यताम् .. १२०..

काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी

      रम्भा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव .

कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं

      नित्यानन्दसुधाम्बुधिं तव मुखं पश्यन्ति दृश्यन्ति च .. १२१..

ताम्बूलोद्भासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै-

      श्चक्रस्थैः शक्तिसङ्घैः परिहृतविषयासङ्गमाकर्ण्यमानम् .. १२२..

अर्चाविधौ ज्ञानलवोऽपि दूरे

      दूरे तदापादकवस्तुजातम् .

प्रदक्षिणीकृत्य ततोऽर्चनं ते

      पञ्चोपचारात्मकमर्पयामि .. १२३..

यथेप्सितमनोगतप्रकटितोपचारार्चितं

      निजावरणदेवतागणवृतां सुरेशस्थिताम् .

कृताञ्जलिपुटो मुहुः कलितभूमिरष्टाङ्गकै-

      र्नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् .. १२४..

विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं

      प्राप्तं मामिह कान्दिशीकमधुना मातर्न दूरीकुरु .

चित्तं त्वत्पदभावने व्यभिचरेद्दृग्वाक्च मे जातु चे-

      त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति .. १२५..

क्वाहं मन्दमतिः क्व चेदमखिलैरेकान्तभक्तैः स्तुतं

      ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् .

कादाचित्कमदीयचिन्तनविधौ सन्तुष्टया शर्मदं

      स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने .. १२६..

नित्यार्चमिदं चित्ते भाव्यमानं सदा मया . निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी .. १२७.. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ त्रिपुरसुन्दरीमानसपूजास्तोत्रं संपूर्णम् ..