"रामायणम्/बालकाण्डम्/सर्गः ३३" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १४:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥'''<BR><BR>
 
तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः
शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥१-३३-१॥
 
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥१-३३-२॥
 
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥१-३३-३॥
 
तेन पापानुबन्धेन वचनं न प्रतीच्छता
एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम् ॥१-३३-४॥
 
तासां तु वचनं श्रुत्वा राजा परमधार्मिकः
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥१-३३-५॥
 
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम्
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥१-३३-६॥
 
अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा
दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः ॥१-३३-७॥
 
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः
क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः ॥१-३३-८॥
 
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत्
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥१-३३-९॥
 
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः
देशे काले च कर्तव्यं सदृशे प्रतिपादनम् ॥१-३३-१०॥
 
एतस्मिन्नेव काले तु चूली नाम महाद्युतिः
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥१-३३-११॥
 
तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥१-३३-१२॥
 
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः ॥१-३३-१३॥
 
स च तां कालयोगेन प्रोवाच रघुनन्दन
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥१-३३-१४॥
 
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम्
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥१-३३-१५॥
 
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥१-३३-१६॥
 
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित्
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥१-३३-१७॥
 
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम्
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥१-३३-१८॥
 
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा
काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥
 
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥१-३३-२०॥
 
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥१-३३-२१॥
 
यथाक्रमं तदा पाणिं जग्राह रघुनन्दन
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥१-३३-२२॥
 
स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः
युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा ॥१-३३-२३॥
 
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः
बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥१-३३-२४॥
 
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम्
सदारं प्रेषयामास सोपाध्यायगणं तदा ॥१-३३-२५॥
 
सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम्
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥१-३३-२६॥
 
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_३३" इत्यस्माद् प्रतिप्राप्तम्