"ऋग्वेदः सूक्तं १०.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४०:
ये । देव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतॄणाम् । असि । आऽयजिष्ठः ॥ १ ॥
 
हे "यविष्ठ युवतमाग्ने "उशतः स्तुतीः श्रोतुं कामयमानान् “देवान् “पिप्रीहि हविर्भिः प्रीणय । हे "ऋतुपते ऋतूनां देवयागकालानां स्वामिन्नग्ने “ऋतून् यागकालान् “विद्वान् जानानस्त्वम् “इह अस्मिन् यज्ञे तान् “यज पूजय । किंच हे अग्ने “दैव्याः देवेषु भवाः “ अग्निर्होताश्विनावध्वर्यू त्वष्टाग्नीन्मिन्न उपवक्ता' ([https://sa.wikisource.org/s/h46 तै. आ. ३. ३]) इत्यत्रोक्ताः “ये “ऋत्विजः सन्ति "तेभिः तैः सह देवान् यज । यद्वा । दैव्या देवेषु भवा ऋत्विज आश्वलायनेनोक्ताः चन्द्रमा ब्रह्मादित्योऽध्वर्युः पर्जन्य उद्गाता (आश्व. गृ. [https://sa.wikisource.org/s/2gtq १. २३. ८]-९) इति । तैः सह यज । यस्मात् “त्वं होतॄणां मध्ये “आयजिष्ठः अभिमुख्येन देवानां यष्टृतमः “असि भवसि ॥
 
 
पङ्क्तिः ५५:
स्वाहा । वयम् । कृणवाम । हवींषि । देवः । देवान् । यजतु । अग्निः । अर्हन् ॥ २ ॥
 
हे अग्ने “जनानां यजमानार्थं “होत्रं होतुः कर्म तेन क्रियमाणं स्तोत्रं "वेषि कामयसे। “उत अपि च “पोत्रं [https://puranastudy.webnode.page/prithuka-prajapati/potaa/ पोतुः] कर्म तेन क्रियमाणां स्तुतिं कामयसे। किंच “मन्धाता मेधावी “ऋतावा सत्यवांस्त्वं द्रविणोदाः “असि धनस्य प्रदाता भवसि । अथ परोक्षकृतः । वयं देवेभ्यः “हवींषि “स्वाहा “कृणवाम स्वाहा करवाम। प्रयच्छाम । ततः “देवः दीप्यमानः “अर्हन् प्रशंस्यो यजमानयोग्यो वा “अग्निः देवान “यजतु । तैर्हविर्भिः पूजयतु ।
 
 
दर्शपूर्णमासातिपत्त्यादौ निमित्ते पाथिकृतीष्टिः कर्तव्या। तत्र ‘ आ देवानाम्' इत्येषा याज्या । सूत्रितं च- 'वेत्था हि वेधो अध्वन आ देवानामपि पन्थामगन्म' ([https://sa.wikisource.org/s/1byh आश्व. श्रौ. ३. १०]) इति । प्रायणीयायामाग्नेयस्यैषैव याज्योदयनीयायां सैवानुवाक्या। सूत्रितं च--- अग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्म' (आश्व, श्रौ. [https://sa.wikisource.org/s/1auy ४. ३]) इति । विपरीताश्च याज्यानुवाक्या इति ॥
 
आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुम् ।
पङ्क्तिः ११९:
सः । आ । यजस्व । नृऽवतीः । अनु । क्षाः । स्पार्हाः । इषः । क्षुऽमतीः । विश्वऽजन्याः॥६॥
 
हे अग्ने “विश्वेषां सर्वेषाम् “अध्वराणां यज्ञानाम् “अनीकं मुखं प्रधानं “चित्रं चायनीयं नानारूपं वा “केतुं प्रज्ञापकं “त्वा त्वां “जनिता जनयिता प्रजापतिर्यजमानो वा “जजान जनयामास । उत्पादितः “सः त्वं “नृवतीः दासादियुक्ताः “क्षाः । पृथिवीनामैतत् । क्षयन्त्यत्रेति क्षा भूमिः। “अनु “आ यजस्व अनुप्रयच्छ । यद्वा । नृवतीनृभिः संस्कृतानि क्षा अनु पृथिवीं वेदिलक्षणामनुगतानि वेद्यामासादितानि “स्पार्हाः स्पृहणीयानि “क्षुमतीः स्तुतिमन्त्रलक्षणशब्दवन्ति “विश्वजन्याः सर्वजनहितानि वृष्ट्यन्नहेतुत्वात् तानि "इषः अन्नानि हविर्लक्षणानि यजस्व देवेभ्यः प्रयच्छ॥
प्रयच्छ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२" इत्यस्माद् प्रतिप्राप्तम्