"गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः १८" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१३:५७, २१ आगस्ट् २०१३ इत्यस्य संस्करणं

← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १७ गरुडपुराणम्
अध्यायः १८
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १९ →

श्रीगरुडमहापुराणम् १८
श्रीकृष्ण उवाच ।
श्रवणानां वचः श्रुत्वा क्षणं ध्यात्वा पुनस्ततः ।
यत्कृतं तु मनुष्यैश्चपुण्यं पापमहर्निशम् ॥ २,१८.१ ॥

तत्सर्वं च परिज्ञाय चित्रगुप्तो निवेदयेत् ।
चित्रगुप्तस्ततः सर्वं कर्म तस्मै वदत्यथ ॥ २,१८.२ ॥

वाचैव यत्कृतं कर्म कृतं चैव तु कायिकम् ।
मानसं च तथा कर्म कृतं भुङ्क्ते शुभाशुभम् ॥ २,१८.३ ॥

एवं ते कथितस्तार्क्ष्य प्रेतमार्गस्य निर्णयः ।
विश्रान्ति दानि सर्वाणि स्थानानि कथितानि ते ॥ २,१८.४ ॥

तमुद्दिश्य ददात्यन्नं सुखं याति महाध्वनि ।
दिवा रात्रौ तमुद्दिश्य स्थाने दीपप्रदो भवेत् ॥ २,१८.५ ॥

अन्धकारे महाघोरे श्वपूर्णे लक्ष्यवर्जिते ।
दीप्तेऽध्वनि च ते यान्ति दीपो दत्तश्च यैर्नरैः ॥ २,१८.६ ॥

कार्तिके च चतुर्दश्यां दीपदानं सुखाय वै ।
अथ वक्ष्यामि संक्षेपाद्यममार्गस्य निष्कृतिम् ॥ २,१८.७ ॥

वृषोत्सर्गस्य पुण्येन पितृलोकं स गच्छति ।
एकादशाहपिण्डेन शुद्धदेहो भवेत्ततः ॥ २,१८.८ ॥

उदकुम्भप्रदानेन किङ्करास्तृप्तिमाप्नुयुः ॥ २,१८.९ ॥

शय्यादानाद्बिमानस्थो याति स्वर्गेषु मानवः ।
तदह्नि दीयते सर्वं द्वादशाहे विशेषतः ॥ २,१८.१० ॥

पदानि सर्ववस्तूनि वरिष्ठानि त्रयोदशे ।
यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ॥ २,१८.११ ॥

तदाश्रितो महामार्गे वैनतेय स गच्छति ।
एक एवास्ति सर्वत्रे व्यवहारः खगाधिप ॥ २,१८.१२ ॥

उत्तमाधममध्यानां तत्तदावर्जनं भवेत् ।
यावद्भाग्यं भवेद्यस्य तावन्मार्गेऽतिरिच्यते ॥ २,१८.१३ ॥

स्वयं स्वस्येन यद्दत्तं तत्तत्राधिकरोति तम् ।
मृते यद्बान्धवैर्दत्तं तदाश्रित्य सुखी भवेत् ॥ २,१८.१४ ॥

गरुड उवाच ।
कस्मात्पदानि देयानि किंविधानि त्रयोदश ।
दीयते कस्य देवेश तद्वदस्व यथातथम् ॥ २,१८.१५ ॥

श्रीभगवानुवाच ।
छत्त्रोपानहवस्त्राणि मुद्रिका च कमण्डलुः ।
आसनं भाजनं चैव पदं सप्तविधं स्मृतम् ॥ २,१८.१६ ॥

आतपस्तत्र यो रौद्रो दह्यते येन मानवः ।
छत्रदानेन सुच्छाया जायते प्रेततुष्टिदा ॥ २,१८.१७ ॥

असिपत्रवनं घोरं सोऽतिक्रामति वै ध्रुवम् ।
अश्वारूढाश्च गच्छन्ति ददते य उपानहौ ॥ २,१८.१८ ॥

आसने स्वागते (भोजने) चैव दत्तं तस्मै द्विजायते ।
सुखेन भुङ्क्ते स प्रेतः पथि गच्छञ्छनैः शनैः ॥ २,१८.१९ ॥

बहुधर्मसमाकीर्णे निर्वाते तोयवर्जिते ।
कमण्डलुप्रदानेन सुखी भवति निश्चितम् ॥ २,१८.२० ॥

मृतोद्देशेन यो दद्यादुदपात्रं तु ताम्रजम् ।
प्रपादानसहस्रस्य तत्फलं सोऽश्नुते ध्रुवम् ॥ २,१८.२१ ॥

यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।
न पीडयन्ति दाक्षिण्याद्वस्त्राभारणदानतः ॥ २,१८.२२ ॥

सायुधा धावमानाश्च न मार्गे दृष्टिगोचराः ।
प्रयान्ति यमदूतास्ते मुद्रिकायाः प्रदानतः ॥ २,१८.२३ ॥

भाजनासनदानेन आमान्नभोजनेन च ।
आज्ययज्ञोपवीताभ्यां पदं सम्पूर्णतां व्रजेत् ॥ २,१८.२४ ॥

एवं मार्गे गच्छमानस्तृषार्तः श्रमपीडितः ।
महिषीरथ (दुग्ध) दानाच्च सुखी भवति निश्चितम् ॥ २,१८.२५ ॥

गरुड उवाच ।
मृतोद्देशेन यत्किञ्चिद्दीयते स्वगृहे विभो ।
स गच्छति महामार्गे तद्दत्तं केन गृह्यते ॥ २,१८.२६ ॥

श्रीभगवानुवाच ।
गृह्णाति वरुणो दानं मम हस्ते प्रयच्छति ।
अहं च भास्करे देवे भास्करात्सोऽश्नुते सुखम् ॥ २,१८.२७ ॥

विकर्मणः प्रभावेण वंशच्छेदे क्षिताविह ।
सर्वे ते नरकं यान्ति यावत्पापस्य संक्षयः ॥ २,१८.२८ ॥

कस्मिंश्चित्समये पूर्णे महिषासनसंस्थितः ।
नरकान्वीक्ष्य धर्मात्मा नानाक्रन्दसमाकुलान् ॥ २,१८.२९ ॥

चतुरशीतिलक्षाणां नरकाणां स ईश्वरः ।
तेषां मध्ये श्रेष्ठतमा घोरा या एकविंशतिः ॥ २,१८.३० ॥

तामिस्त्रं लोहशङ्कुश्च महारौरवशाल्मली ।
रौरवं कुड्वलं कालसूत्रकं पूतिमृतिका ॥ २,१८.३१ ॥

सङ्घातं लोहतोदं च सविषं सम्प्रतापनम् ।
महानरककालोलः सजीवनमहापथः ॥ २,१८.३२ ॥

अवीचिरन्धता मिस्त्रः कुम्भोपाकस्तथैव च ।
असिपत्रवनं चैव पतनश्चैकविंशतिः ॥ २,१८.३३ ॥

येषां तु नरके घोरे बह्वब्दानि गतानि वै ।
सन्तातर्नैव विद्यते दूतत्वं ते तु (प्रेत्य) यान्ति हि ॥ २,१८.३४ ॥

यमेन प्रेषितास्ते वै मानुषस्य मृतस्य तु ।
दिनेदिने प्रगृह्णन्ति दत्तमन्नाद्यपानकम् ॥ २,१८.३५ ॥

प्रेतस्यैव विलुण्ठन्ति मध्ये मार्गे बुभुक्षिताः ।
मासान्ते भोजनं पिण्डमेके यच्छन्ति तत्र वै ॥ २,१८.३६ ॥

तृप्तिं प्रयान्ति ते सर्वे प्रत्यहं चैव वत्सरम् ।
एवमादिकृतैः पुण्यैः क्रमात्सौरिपुरं व्रजेत् ॥ २,१८.३७ ॥

ततः संवत्सरस्यान्ते प्रत्यासन्ने यमालये ।
बहुभीतकरे प्रेतो हस्तमात्रं समुत्सृजेत् ॥ २,१८.३८ ॥

दिवसैर्दशभिर्जातं तं देहं दशपिण्डजम् ।
जामदग्न्यस्येव रामं दृष्ट्वा तेजः प्रसर्पति ॥ २,१८.३९ ॥

कर्मजं देहमाश्रित्य पूर्वदेहं समुत्सजेत् ।
अङ्गुष्ठमात्रो वायुश्च शमीपत्रंसमारुहेत् ॥ २,१८.४० ॥

व्रजंस्तिष्ठन्पदैकेन यथैवैकेन गच्छति ।
यथा तृणजलौकेव देही कर्मानुगोऽवशः ॥ २,१८.४१ ॥

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २,१८.४२ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मदृप्रेतदृश्रीकृष्णगरुड संवादे वृषोत्सर्गनानादानफलयमलोकगमनकर्मजदेहप्राप्तिनिरूपणं नामाष्टादशोऽध्यायः