"जैमिनीयं ब्राह्मणम्/काण्डम् ३/२०१-२१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
 
 
<ref>साम [https://sa.wikisource.org/s/3kl ११७५]</ref>शिशुं जज्ञानं हर्यतं मृजन्तीति हरिवतीर् भवन्ति। हरिवती वै परमा वाचस् तनूः। वाचं छन्दोमैस् समिच्छन्ति। आप्तेव वा एतर्हि वाग् भवति छन्दोमेषु। ताम् एवैतत् संविन्दन्ति। शुम्भन्ति विप्रं मरुतो गणेनेति मरुत्वतीर् भवन्ति। मरुत्वद् वै त्रिष्टुभो रूपम्। त्रैष्टुभम् एतद् अहः। अथो क्षत्रं वै त्रिष्टुब्, विशो मरुतः। तद् यत् त्रिष्टुभो मरुत्वतीर् भवन्ति, क्षत्रायैव तद् विशम् अनुवर्त्मानं कुर्वन्ति। तस्मात् क्षत्रस्य विड् अनुवर्त्मा कविर् गीर्भिः काव्येन कविस् सन् सोमः पवित्रम् अत्य् एति रेभन्न् इत्य् अतिंहायन्। ऋषिमना य ऋषिकृत् स्वर्षास् सहस्रनीथः पदवीः कवीनाम् इति सहस्ररूपं छन्दोमानाम् उपगच्छन्ति। पशवो वै छन्दोमाः। तृतीयं धाम महिषस् सिषासन्न् इति तृतीयो ह्य् एष त्रियहः क्रियते यच् छन्दोमाः। सोमो विराजम् अनु राजति ष्टुब् इति त्रैष्टुभं रूपम् उपगच्छन्ति। त्रैष्टुभं ह्य् एतद् अहः। अथो पूर्वो वैष सहो राज्यम्। तम् एवैतच् छन्दोमा अनु राजन्ति। चमूषच् छ्येनश् शकुनो विभृत्वा गोविन्दुर् द्रप्स आयुधानि बिभ्रद् इति गोमतीः पशुमतीर् भवन्ति पशूनाम एवावरुद्ध्यै। पशवो हि छन्दोमाः। अपाम् ऊर्मिं सचमानस् समुद्रम् इति समुद्रवतीर् भवन्ति, छन्दोमानां रूपम्। समुद्रो वै छन्दोमाः। तुरीयं धाम महिषो विवक्तीति तुरीयं ह्य् एतद् अहर् अह्नां क्रियते यच् छन्दोमाः॥3.205॥