"ऋग्वेदः सूक्तं १०.६२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ६०:
तेभ्यः । भद्रम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥१
 
नाभानेदिष्ठः स्वपित्रा मनुनाभ्यनुज्ञातः सत्रमासीनानङ्गिरसोऽभ्येत्य मां प्रतिगृह्णीत युष्मभ्यं यज्ञं प्रज्ञापयामीति यदुक्तवान् तदुच्यते । इतिहासस्तु इदमित्थेति पूर्वसूक्ते ' नाभानेदिष्ठं शंसति नाभानेदिष्ठं वै मानवम्' ( ऐ. ब्रा. ५. १४ ) इति ब्राह्मणानुसारेण ‘ मनुः पुत्रेभ्यो दायं व्यभजत् ' ( तै. सं. [https://sa.wikisource.org/s/1e23. १. ९. ४] ) इति तैत्तिरीयब्राह्मणानुसारेण च सप्रपञ्चमभिहितः । तथा चास्या ऋचोऽयमर्थः । “यज्ञेन यजनीयेन हविषा “दक्षिणया ऋत्विग्भ्यो देयया “समक्ताः संगताः “ये अहीनैकाहसत्राणि कुर्वन्तो यूयम् “इन्द्रस्य “सख्यं सखिकर्म अत एव “अमृतत्वम् अमरणधर्मं देवत्वम् “आनश आनशिध्वे प्राप्ताः स्थ । अश्नोतेर्लिटि मध्यमे व्यत्ययेन बहुवचनम् । ‘अश्नोतेश्च' इति नुडागमः । यद्वृत्तयोगादनिघातः । हे “अङ्गिरसः “तेभ्यः “वः युष्मभ्यं “भद्रं कल्याणं कर्म “अस्तु । हे “सुमेधसः सुप्रज्ञा हे अङ्गिरसः ते यूयमिदानीमागत “मानवं मनोः पुत्रं मां “प्रति “गृभ्णीत प्रतिगृह्णीत । मयि प्रतिगृहीते सति यज्ञं साधु करिष्यामीति तदर्थं प्रतिगृह्णीत ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६२" इत्यस्माद् प्रतिप्राप्तम्