"ऋग्वेदः सूक्तं १०.६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ९७:
तूर्वयाणः । गूर्तवचःऽतमः । क्षोदः । न । रेतः । इतःऽऊति । सिञ्चत् ॥२
 
“स “इत् स कृष्णशवासी पुरुषो रुद्राख्यः "दानाय स्तोतॄणां धनप्रदानाय “दभ्याय शत्रूणां वधाय च "वन्वन् स्तोतॄन् संभजन् “सूदैः सूदकैर्हिंसकैः शस्त्रैः “च्यवानः रक्षांसि च्यावयन् “वेदिम् “अमिमीत परिमितवान् । यज्ञवास्त्वधिष्ठितवानित्यर्थः । ‘तं कृष्णशवास्युत्तरत' उपोत्थायाब्रवीन्मम' वा इदं मम वै वास्तुहमिति' ( ऐ. ब्रा. [https://sa.wikisource.org/s/w1f ५. १४] ) इति ब्राह्मणम् । तदेवाह । “तूर्वयाणः तूर्णगमनः “गूर्तवचस्तमः अत्यन्तमुद्यतवचा रुद्रः “क्षोदो “न उदकमिव । उदकं यथा घनः सिञ्चति तद्वत् “रेतः स्वसामर्थ्यम् “इतऊति इतोगमनवद्यथा भवति तथा “सिञ्चत् प्रेरितवानित्यर्थः । यद्वा । अनेनोत्तरार्धेनोत्तराभ्यां च प्रासङ्गिक्यश्विनोः स्तुतिः क्रियते । तूर्वयाणस्तूर्णगमनोऽतिशयेनोद्यतवचनो रुद्रः क्षोदो न उदकमिव रेत उत्पादनसामर्थ्योपेतं रेत इतऊति सिञ्चत् जनयामासाश्विनौ । अन्यत्रेतऊतीत्यश्विनोरभिधानादन्यत्र तयो रुद्रपुत्रत्वसिद्धेश्चायमर्थो लभ्यते ॥ ।
 
 
पङ्क्तिः १४२:
पुनरिति । तत् । आ । वृहति । यत् । कनायाः । दुहितुः । आः । अनुऽभृतम् । अनर्वा ॥५
 
यथा स्वांशेन भगवान् रुद्रः प्रजापतिर्वास्तोऽपतिं रुद्रमसृजत् तदेतदादिभिस्तिसृभिर्वदति । “यस्य प्रजापतेः “इष्णत् एषणवत् "वीरकर्मम् । लिङ्गव्यत्ययः। वीरकर्म । रेत इत्यर्थः । येन रेतसोत्पन्ना वीरा भवन्ति तादृग्रेतः “प्रथिष्ट प्रथितमासीत् तद्रेतः “अनुष्ठितं प्रजापतिनापत्यार्थं निषिक्तं “नर्यः नरेभ्यो हितो यद्वा नेतृभ्यो देवेभ्यो हितो रुद्रः “अपौहत् अपोहति । तदेवाह । “पुनस्तत् रेतः “आ “वृहति सर्वत उत्खिदति उद्गमयति पुरुषाकारेण स्वयमुत्पन्नः सन् । कीदृशं रेतः । “यत् रेतः “कनायाः कान्तायाः "दुहितुः स्वपुत्र्याः तस्यामित्यर्थः । तत्र प्रजापतिना “अनुभृतम् “आः आसीत् । अस्तेः सिपि - - । कीदृशो रुद्रः । “अनर्वा अन्यस्मिन्नप्रत्यृतः । ‘ प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये ' (ऐ, ब्रा. [https://sa.wikisource.org/s/w1d ३. ३३] ) इति ब्राह्मणम् ॥ ॥ २६ ॥
 
 
पङ्क्तिः १७२:
सुऽआध्यः । अजनयन् । ब्रह्म । देवाः । वास्तोः । पतिम् । व्रतऽपाम् । निः । अतक्षन् ॥७
 
“पिता प्रजापतिः “यत् यदा “स्वां “दुहितरं दिवमुषसं वा “अधिष्कन् अध्यस्कन्दत् तदानीमेव “क्ष्मया पृथिव्या सह “संजग्मानः संगच्छमानः प्रजापतिरस्मिँल्लोके रोहितं भूतामृश्यो भूत्वा “रेतः “नि “षिञ्चत् निषेकमकरोत् । ‘तामृश्यो भूत्वा रोहितं भूतामभ्यैत् ' (ऐ. ब्रा, [https://sa.wikisource.org/s/w1d ३. ३३] ) इति ब्राह्मणम् । तदानीं “स्वाध्यः सुध्यानाः सुकर्माणो वा “देवाः “ब्रह्म “अजनयन् उदपादयन् । किं तद्ब्रह्मेति तदाह । “वास्तोष्पतिं यज्ञवास्तुस्वामिनं “व्रतपां व्रतस्य कर्मणः रक्षःप्रभृतिभ्यः पालकं “निरतक्षन् समुदपादयन् । यज्ञवास्तुस्वामित्वं दत्त्वा कर्मरक्षकत्वेन निर्मितवन्त इत्यर्थः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६१" इत्यस्माद् प्रतिप्राप्तम्