"समास:०७ कवीश्वरस्तवनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
कवयो नाम वैराग्यरक्षणम्। कवयो नाम भक्तभूषणम्।कवयो नाम नानाविधं स्वधर्मरक्षणम्।१.७.१२

कवय: प्रेमलानां प्रेमस्थिति:।कवय: ध्यानस्थानां ध्यानमूर्ति:।कवय: उपासकानां महती कीर्ति:, या जगति वितता॥१.७.१३

अथ वन्दे कवीश्वरान्।ये शब्दसृष्टे: ईश्वरा:।अथवा वेदम् अवतारयन्त: परमेश्वरस्वरूपा:।१.७.१

अथवा एते सरस्वत्या: मूलस्थानम्।नाना कलानां जीवनम्।अथवा नूनं नानाशब्दानां भुवनम्।१.७.२

अथवा एते परुषार्थस्य वैभवम्।अथवा जगदीश्वरस्य माहात्म्यं, लीला:, सत्कीर्तिं वर्णयितुम् एव जाता:।१.७.३

अथवा एते शब्दरत्नसागरा:।अथवा मुक्तानां मुक्त: सरोवर: अथवा नाना बुद्धीनां खनय:।१.७.४

एते अध्यात्मग्रन्थानां खनिस्वरूपा:, अथवा सवचना: चिन्तामणय: अथवा नाना कामधेनूनां दोहनानि श्रोतृभि: प्राप्तानि।१.७.५

अथवा एते कल्पनाया: कल्पतरव:।अथवा एते मोक्षस्य मुख्याश्रया:।सायुज्यमोक्षस्य नाना विस्तर: एते कवय:।१।७।६

कवि: नाना साधनानां मूलम्।कवि: नाना प्रयत्नानां फलम्।नाना कार्याणां सिद्धि: कवे: केवलं प्रसादेन भवति।१.७.१४

आदौ कवे: वाग्विलास: भवति तर्हि श्रवणकाले रस: आपूर्यते।कविना कवित्वं प्रकाशते।१.७.१५

"https://sa.wikisource.org/wiki/समास:०७_कवीश्वरस्तवनम्" इत्यस्माद् प्रतिप्राप्तम्