"तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<big><big><big>तैत्तिरीयारण्यकम् (अपूर्ण)
<big><big><big>तैत्तिरीयारण्यक
तैत्तिरीयारण्यकम्
तैत्तिरीयारण्यक
भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः
पङ्क्तिः ७२:
1.7 अनुवाक ७
Remainder of first prapathaka as well as prapathakas 67 through 10 are still under preparation and are not yet included.
1.15 अनुवाक १५
 
पङ्क्तिः ४१६:
 
 
Remainder of first prapathaka as well as prapathakas 67 through 10 are still under preparation and are not yet included.
 
प्रपाठक ४
पङ्क्तिः ६९३:
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठकः समाप्तः
 
अथ कृष्णयजुर्वेदीय तैत्तिरीयारण्यके षष्ठप्रपाठकस्यारम्भः
सं त्वा सिञ्चामि यजुषा प्रजामायुर्धनं च ।।
ॐ शान्तिः शान्तिः शान्तिः ॐ ।।
 
6.1 अनुवाक १
 
परे युवाꣳसं प्रवतो महीरनु बहुभ्यः पन्थामनपस्पशानम् । वैवस्वतꣳ संगमनं जनानां यमꣳ राजानꣳ हविषा दुवस्यत, इति । इदं त्वा वस्त्रं प्रथमं न्वागन्, इति । अपैतदूह यदिहाबिभः पुरा । इष्टापूर्तमनुसंपश्य दक्षिणां यथा ते दत्तं बहुधा वि बन्धुषु, इति । इमौ युनज्मि ते वह्नी असुनीथाय वोढवे । याभ्यां यमस्य सादनꣳ सुकृतां चापि गच्छतात् । पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशर्भुवनस्य गोपाः । सं त्वैतेभ्यः परिददात्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रेभ्यः । पूषेमा आशा अनुवेद सर्वाः सो अस्माꣳ अभयतमेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रविद्वान् ( १) । आयुर्विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्राऽऽसते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु । भुवनस्य पत इदꣳ हविः, इति । अग्नये रयिमते स्वाहा । पुरुषस्य सयावर्यपेदघानि मृज्महे । यथा नो अत्र नापरः पुरा जरस आयति, इति । पुरुषस्य सयावरि वि ते प्राणमसिस्रसम् । शरीरेण महीमिहि स्वधयेहि पितॄनुप प्रजयाऽस्मानिहाऽऽवह । मैवं माꣳस्ता प्रियेऽहं देवी सती पितृलोकं यदैषि । विश्ववारा नमसा(नभसा?) संव्ययन्त्युभौ नो लोकौ पयसाऽभ्याववृत्स्व ( २) । इयं नारी पतिलोकं वृणाना निपद्यत उप त्वा मर्त्य प्रेतम् । विश्वं पुराणमनुपालयन्ती तस्मै प्रजां द्रविणं चेह धेहि । उदीर्ष्व नार्यभि जीवलोकमितासुमेतमुपशेष एहि । हस्तग्राभस्य दिधिषोस्त्वमेतत्पत्युर्जनित्वमभिसंबभूव । सुवर्णꣳ हस्तादाददाना मृतस्य श्रियै ब्रह्मणे तेजसे बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम ।
धनुर्हस्तादाददाना मृतस्य श्रियै क्षत्त्रायौजसे बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम । मणिꣳ हस्तादाददाना मृतस्य श्रियै विशे पुष्ट्यै बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम ( ३) । इममग्ने चमसं मा विजीह्वरः प्रियो देवानामुत सोम्यानाम् । एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ताम् । अग्नेर्वर्म परि गोभिर्व्ययस्व संप्रोर्णुष्व मेदसा पीवसा च । नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधद्विधक्ष्यन्पर्यङ्खयातै । मैनमग्ने विदहो माऽभिशोचो माऽस्य त्वचं चिक्षिपो मा शरीरम् । यदा शृतं करवो जातवेदोऽथेमेनं प्रहिणुतात्पितृभ्यः । शृतं यदाऽकरसि जातवेदोऽथेमेनं परिदत्तात्पितृभ्यः । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति । सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः । अजोऽभागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तनुवो जातवेदस्ताभिर्वहेमꣳ सुकृतां यत्र लोकाः ।
अयं वै त्वमस्मादधि त्वमेतदयं वै तदस्य योनिरसि । वैश्वानरः पुत्रः पित्रे लोककृज्जातवेदो वहेमꣳ सुकृतां यत्र लोकाः ( ४) ।।
विद्वानभ्याववृत्स्वाभिमातीर्जयेम शरीरैश्चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके प्रथमोऽनुवाकः ।। १ ।।
 
6.2 अनुवाक २
 
य एतस्य पथो गोप्तारस्तेभ्यः स्वाहा य एतस्य पथो रक्षितारस्तेभ्यः स्वाहा य एतस्य पथोऽभि रक्षितारस्तेभ्यः स्वाहा ख्यात्रे स्वाहाऽपाख्यात्रे स्वाहाऽभिलालपते स्वाहाऽपलालपते स्वाहाऽग्नये कर्मकृते स्वाहा यमत्र नाधीमस्तस्मै स्वाहा, इति ।
यस्त इध्मं जभरत्सिष्विदानो मूर्धानं वा ततपते त्वाया । दिवो विश्वस्मात्सीमघायत उरुष्यः, इति । अस्मात्त्वमधि जातोऽसि त्वदयं जायतां पुनः । अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा ( १), इति । य एतस्य त्वत्पञ्च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके द्वितीयोऽनुवाकः ।। २ । ।
 
6.3 अनुवाक ३
 
प्र केतुना बृहता भात्यग्निराविर्विश्वानि वृषभो रोरवीति । दिवश्चिदन्तादुप मामुदानडपामुपस्ये महिषो ववर्ध, इति । इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तनुवै चारुरेधि प्रियो देवानां परमे सधस्थे, इति ।
नाके सुपर्णमुप यत्पतन्तꣳ हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम्, इति । अतिद्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । अथा पितॄन्त्सुविदत्राꣳ अपीहि यमेन ये सधमादं मदन्ति, इति । यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा । ताभ्याꣳ राजन्परिदेह्येनꣳ स्वस्ति चास्मा अनमीवं च धेहि ( १), इति । उरुणसावसुतृपावुलुंबलौ यमस्य दूती चरतोऽवशाꣳ अनु । तावस्मभ्यं दृशये सूर्याय पुनर्दत्तावसुमद्येह भद्रम्, इति ।
सोम एकेभ्यः पवते घृतमेक उपासते । येभ्यो मधु प्रधावति ताꣳश्चिदेवापि गच्छतात्, इति । ये युध्यन्ते प्रधनेषु शूरासो ये तनुत्यजः । ये वा सहस्रदक्षिणास्ताꣳश्चिदेवापि गच्छतात्, इति । तपसा ये अनाधृष्यास्तपसा ये सुवर्गताः । तपो ये चक्रिरे महत्ताꣳश्चिदेवापि गच्छतात्, इति । अश्मन्वती रेवतीः सꣳरभध्वमुत्तिष्ठत प्रतरता सखायः । अत्रा जहाम ये असन्नशेवाः शिवान्वयमभि वाजानुत्तरेम ( २), इति । यद्वै देवस्य सवितुः पवित्रꣳ सहस्रधारं विततमन्तरिक्षे । येनापुनादिन्द्रमनार्तमार्त्यै तेनाहं माꣳ सर्वतनुं पुनामि । या राष्ट्रात्पन्नादपयन्ति शाखा अभिमृता नृपतिमिच्छमानाः । धातुस्ताः सर्वाः पवनेन पूताः प्रजयाऽस्मान्रय्या वर्चसा सꣳसृजाथ । उद्वयं तमसस्परिपश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्, इति । धाता पुनातु सविता पुनातु । अग्नेस्तेजसा सूर्यस्य वर्चसा ( ३) ।। धेह्युत्तरेमाष्टौ च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।
 
6.4 अनुवाक ४
 
यं ते अग्निममन्थाम वृषभायेव पक्तवे । इमं तꣳ शमयामसि क्षीरेण चोदकेन च, इति । यं त्वमग्ने समदहस्त्वमु निर्वापया पुनः । क्याम्बूरत्र जायतां पाकदूर्वाव्यल्कशा, इति । शीतिके शीतिकावति ह्रादुके ह्रादुकावति । मण्डूक्यासु संगमयेमꣳ स्वग्निꣳ शमय, इति । शं ते धन्वन्या आपः शमु ते सन्त्वनूक्याः । शं ते समुद्रिया आपः शमु ते सन्तु वर्ष्याः, इति । शं ते स्रवन्तीस्तनुवे शमु ते सन्तु कूप्याः । शं ते नीहारो वर्षतु शमु पृष्वाऽवशीयताम् (१), इति । अवसृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः । आयुर्वसान उपयातु शेषꣳ संगच्छतां तनुवा जातवेदः, इति । संगच्छस्व पितृभिः सꣳ स्वधाभिः समिष्टापूर्तेन परमे व्योमन् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु, इति । यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अग्निष्टद्विश्वादनृणं कृणोतु सोमश्च यो ब्राह्मणमाविवेश, इति । उत्तिष्ठातस्तनुवꣳ संभरस्व मेह गात्रमवहा मा शरीरम् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु । इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तुनवै चारुरेधि प्रियो देवानां परमे सधस्थे, इति । उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन् । यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहेमम् । अश्मन्वती रेवतीर्यद्वै देवस्य सवितुः पवित्रं या राष्ट्रात्पन्नादुद्वयं तमसस्परि धाता पुनातु, इति। अस्मात्त्वमधिजातोऽस्ययं त्वदधिजायताम् । अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा (२), इति ।। अवशीयताꣳ सधस्थे पञ्च च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्टप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
 
6.5 अनुवाक ५
 
आयातु देवः सुमनाभिरूतिभिर्यमो ह वेह प्रयताभिरक्ता । आसीदताꣳ सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्यै । यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः । आसीदतꣳ स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः, इति ।
यमाय सोमꣳ सुनुत यमाय जुहुता हविः । यमꣳ ह यज्ञो गच्छत्यग्निदूतो अरंकृतः । यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत । स नो देवेष्वायमद्दीर्घमायुः प्रजीवसे । यमाय मधुमत्तमꣳ राज्ञे हव्यं जुहोतन । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः (१) । योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी । यमं भङ्ग्यश्रवो गाय यो राजाऽनपरोध्यः, इति । यमं गाय भङ्ग्यश्रवो यो राजाऽनपरोध्यः । येनाऽऽपो नद्यो धन्वानि येन द्यौः पृथिवी दृढा, इति । हिरण्यकक्ष्यान्त्सुधुरान्हिरण्याक्षानयःशफान् । अश्वाननश्यतो दानं यमो राजाऽभितिष्ठति, इति । यमो दाधार पृथिवीं यमो विश्वमिदं जगत् । यमाय सर्वमित्रस्थे यत्प्राणद्वायुरक्षितम्, इति । यथा पञ्च यथा षड्यथा पञ्चदशर्षयः । यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते (२), इति । त्रिकद्रुकेभिः पतति षडु्र्वीरेकमिद्बृहत् । गायत्री त्रिष्टुप्छन्दाꣳसि सर्वा ता यम आहिता, इति । अहरहर्नयमानो गामश्वं पुरुषं जगत् । वैवस्वतो न तृप्यति पञ्चभिर्मानवैर्यमः, इति । वैवस्वते विविच्यन्ते यमे राजनि ते जनाः । ये चेह सत्येनेच्छन्ते य उ चानृतवादिनः, इति । ते राजन्निह विविच्यन्तेऽथा यन्ति त्वामुप । देवाꣳश्च ये नमस्यन्ति ब्राह्मणाꣳश्चापचित्यति, इति । यस्मिन्वृक्षे सुपलाशे देवैः संपिबते यमः । अत्रा नो विश्पतिः पिता पुराणा अनुवेनति (३), इति ।। पथिकृद्भ्यो विजानतेऽनुवेनति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।
 
6.6 अनुवाक ६
 
वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सꣳ शतधारमेतम् । तस्मिन्नेष पितरं पितामहं प्रपितामहं बिभरत्पिन्वमाने, इति । द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः, इति । इमꣳ समुद्रꣳ शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये । घृतं दुहानामदितिं जनायाग्ने मा हिꣳसीः परमे व्योमन्, इति । अपेत वीत वि च सर्पतातो येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्ववसानमस्मै, इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिर्युज्यन्तामघ्नियाः ( १ ), इति ।
शुनं वाहाः शुनं नाराः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यꣳन्ताꣳ शुनमष्ट्रामुदिङ्गय शुनासीरा शुनमस्मासु धत्तम्, इति । शुनासीराविमां वाचं यद्दिवि चक्रथुः पयः । तेनेमामुपसिञ्चतम्, इति । सीते वन्दामहे त्वाऽर्वाची सुभगे भव । यया नः सुभगा ससि यथा नः सुफला ससि, इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिरदिते शं भव, इति । विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पाꣳरमस्य । ज्योतिरापाम सुवरगन्म ( २), इति । प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिꣳहते पिन्वते सुवः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीꣳ रेतसाऽवति, इति । यथा यमाय हार्म्यमवपन्पञ्च मानवाः । एवं वपामि हार्म्यं यथाऽसाम जीवलोके भूरयः, इति । चितः स्थ परिचित ऊर्ध्वचितः श्रयध्वं पितरो देवता । प्रजापतिर्वः सादयतु तया देवतया, इति। आप्यायस्व, सं ते ( ३), इति ।।
अघ्निया अगन्म सप्त च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।
 
6.7 अनुवाक ७
 
उत्ते तभ्नोमि पृथिवीं त्वत्परीमं लोकं निदधन्मो अहꣳ रिषम् । एताꣳ स्थूणां पितरो धारꣳयन्तु तेऽत्रा यमः सादनात्ते मिनोतु, इति । उपसर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीꣳ सुशेवाम् । ऊर्णम्रदा युवतिर्दक्षिणावत्येषा त्वा पातु निर्ऋत्या उपस्थे, इति । उच्छ्मञ्चस्व पृथिवि मा विबाधिथाः सूपायनाऽस्मै भव सूपवञ्चना । माता पुत्रं यथा सिचाऽभ्येनं भूमि वृणु. इति । उच्छ्रमञ्चमाना पृथिवी हि तिष्ठसि सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो मधुश्चुतो विश्वाहाऽस्मै शरणाः सन्त्वत्र, इति । एणीर्धाना हरिणीरर्जुनीः सन्तु धेनवः । तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ( १), इति । एषा ते यमसादने स्वधा निधीयते गृहे । अक्षितिर्नाम ते असौ, इति । इदं पितृभ्यः प्रभरेम बर्हिर्देवेभ्यो जीवन्त उत्तरं भरेम । तत्त्वमारोहासो मेध्यो भवं(भव?) यमेन त्वं यम्या संविदानः, इति । मा त्वा वृक्षौ संबाधिष्टां मा माता पृथिवि त्वम् । पितॄन्ह्यत्र गच्छास्येधांसं यमराज्ये, इति । मा त्वा वृक्षौ संबाधेथां मा माता पृथिवी मही । वैवस्वतꣳ हि गच्छासि यमराज्ये विराजसि, इति । नळं प्लवमारोहैतं नळेन पथोऽन्विहि । स त्वं नळप्लवो भूत्वा संतर प्रतरोत्तर ( २), इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभ्यः पृथिवि शं भव, इति । षड्ढोता सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च
गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः, इति । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ रीरिषो मोत वीरान्, इति । शं वातः शꣳ हि ते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां मे दिशः शग्माः, इति । पृथिव्यास्त्वा लोके सादयाम्यमुष्य शर्मासि पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया, इति । अन्तरिक्षस्य त्वा दिवस्त्वा दिशां त्वा नाकस्य त्वा पृष्ठे ब्रध्नस्य त्वा विष्टपे सादयाम्यमुष्य शर्मासि पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया ( ३), इति ।।
अनपस्फुरन्तीरुत्तर देवतया द्वे च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।
 
6.8 अनुवाक ८
 
अपूपवान्घृतवाꣳश्चरुरेह सीदतूत्तभ्नुवन्पृथिवीं द्यामुतोपरि । योनिकृतः पथिकृतः सपर्यत ये देवानां घृतभागा इह स्थ । एषा ते यमसादने स्वधा निधीयते गृहेऽसौ । दशाक्षरा ताꣳ रक्षस्व तां गोपायस्व तां ते परिददामि तस्यां त्वा मा दभन्पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया, इति । अपूपवाञ्शृतवान्क्षीरवान्दधिवान्मधुमाꣳश्चरुरेह सीदतूत्तभ्नुवन्पृथिवीं द्यामुतोपरि। योनि कृतः पथिकृतः सपर्यत ये देवानाꣳ शृतभागाः क्षःइ(?)भागा दधिभागा (?)भागा इह स्थ। एष ते यमुसादने स्वधा निधीयते गृहेऽसौ । शताक्षरा सहस्राक्षराऽयुताक्षराऽच्युताक्षरा ताꣳ रक्षस्व तां गोपायस्व तां ते परिददामि तस्यां त्वामादभन्पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया ( १), इति ।।
अपूपवानसौ दश ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।
 
6.9 अनुवाक ९
 
एतास्ते स्वधा अमृताः करोमि यास्ते धानाः परिकिराम्यत्र । तास्ते यमः पितृभिः संविदानोऽत्र धेनूः कामदुघाः करोतु, इति । त्वामर्जुनौपधीनां पयो ब्रह्माण इद्विदुः । तासां त्वा मध्यादाददे चरुभ्यो अपिधातवे, इति । दूर्वाणाꣳ स्तम्बमाहरैतां प्रियतमां मम । इमां दिशं मनुष्याणां भूयिष्ठाऽनु विरोहतु इति । काशानाꣳ स्तम्बमाहर रक्षसामपहत्यै । य एतस्यै दिशः पराभवन्नघायवो यथा ते नाभवान्पुनः, इति । दर्भाणाꣳ स्तम्बमाहर पितृणामोषधीं प्रियाम् । अन्वस्यै मूलं जीवादनु काण्डमथो फलम्, इति । लोकं पृण ता अस्य सूददोहसः इति । शं वातः शꣳ हि ते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां ते दिशः सर्वाः, इति । इदमेव मेतोऽपरामार्तिमाराम कांचन । तथा तदश्विभ्यां कृतं मित्रेण वरुणेन च, इति । वरणो वारयादिदं देवो वनस्पतिः । आर्त्यै निर्कत्यै द्वेषाच्च वनस्पतिः, इति । विधृतिरसि विधारयास्मदघा द्वेषाꣳसि, इति । शमि शमयास्मदघा द्वेषाꣳसि, इति । यव यवयास्मदघा द्वेषाꣳसि, इति । पृथिवीं गच्छान्तरिक्षं गच्छ दिवं गच्छ दिशो गच्छ सुवर्गच्छ सुवर्गच्छ दिशो गच्छ दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छापो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः, इति । अश्मन्वती रेवतीर्यद्वै देवस्य सवितुः पवित्रं या राष्ट्रात्पन्नादुद्वयं तमसस्परि धाता पुनातु(२), इति ।। अथो फलं पुनातु ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके नवमोऽनुवाकः ।। ९ ।।
 
6.10 अनुवाक १०
 
आरोहताऽऽयुर्जरसं गृणाना अनुपूर्वं यतमाना यतिष्ट । इह त्वष्टा सुजनिमा सुरत्नो दीर्घमायुः करतु जीवसे वः, इति । यथाऽहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति क्लृप्ताः । यथा न पूर्वमपरो जहात्येवा धातरायूꣳषि कल्पयैषाम्, इति । न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः । कपिर्बभस्ति तेजनं पुनर्जरायु गौरिव । अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अप नः शोशुचदघं मृत्यवे स्वाहा । अनड्वाहमन्वारभामहे स्वस्तये । स न इन्द्र इव देवेभ्यो वह्निः संपारणो भव ( १), इति । इमे जीवा वि मृतैराववर्तिन्नभूद्भद्रा देवहूतिं नो अद्य । प्राञ्जोऽगामा नृतये हसाय द्रघीय आयुः प्रतरां दधानाः, इति । मृत्योः पदं योपयन्तो यदैम द्राघीय आयुः
प्रतरां दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवथ यज्ञियासः, इति । इमं जीवेभ्यः परिधिं दधामि मा नोऽनुगाद परो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दद्महे पर्वतेन, इति । इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा समृशन्ताम् । अनश्रवो अनमीवा सुशेवा आरोहन्तु जनयो योनिमग्रे, इति । यदाञ्जनं त्रैककुदं जातꣳ हिमवतस्परि । तेनामृतस्य मूलेनारातीर्जम्भयामसि, इति । यथा त्वमुद्भिनत्स्योषधे पृथिव्या अधि । एवमिम उद्भिन्दन्तु कीर्त्या यशसा ब्रह्मवर्चसेन, इति । अजोऽस्यजास्मदघा द्वेषाꣳसि, इति । यवोऽसि यवयास्मदघा द्वेषाꣳसि ( २), इति ।।
संपारणो भव जम्भयामसि त्रीणि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके दशमोऽनुवाकः ।। १० ।।
 
6.11 अनुवाक ११
 
अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अप नः शोशुचदघम्, इति । सुक्षेत्रिया सुगातुया वसूया च यजामहे । अप नः शोशुचदघम्, इति । प्र यद्भन्दिष्ठ एषां प्राऽऽस्माकासश्च सूरयः । अप नः शोशुचदघम्, इति । प्र यदग्नेः सहस्वतो विश्वतो यन्ति सूरयः । अप नः शोशुचदघम्, इति । प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् । अप नः शोशुचदघम् ( १), इति । त्वꣳ हि विश्वतोमुख विश्वतः परिभूरसि । अप नः शोशुचदघम्, इति । द्विषो नो विश्वतो मुखाऽति नावेव पारय । अप नः शोशुचदघम्, इति । स नः सिन्धुमिव नावयाऽतिपर्षा स्वस्तये । अप नः शोशुचदघम्, इति । आपः प्रवणादिव यतीरपास्मत्स्यन्दतामघम् । अप नः शोशुचदघम्, इति । उद्वनादुदकानीवापास्मत्स्यन्दतामघम् । अप नः शोशुचदघम्, इति । आनन्दाय प्रमोदाय पुनरागाꣳ स्वान्गृहान् । अप नः शोशुचदघम्, इति । न वै तत्र प्रमीयते गौरश्वः पुरुषः पशुः । यत्रेदं ब्रह्म
क्रियते परिधिर्जीवनाय कमप नः शोशुचदघम् (२),इति ।।
अघमघं चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठक एकादशोऽनुवाकः ।। ११ ।।
 
6.12 अनुवाक १२
 
अपश्याम युवतिमाचरन्तीं मृताय जीवां परिणीयमानाम् । अन्धेन या तमसा प्रावृताऽसि प्राचीमवाचीमवयन्नरिष्ट्यै, इति । मयैतां माꣳस्तां भ्रियमाणा देवी सती पितृलोकं यदैषि । विश्ववारा नभसा संव्ययन्त्युभौ नो लोकौ पयसाऽऽवृणीहि, इति । रयिष्ठामग्निं मधुमन्तमूर्मिणमूर्जः सन्तं त्वा पयसोपसꣳसदेम । सꣳ रय्या समु वर्चसा सचस्वा नः स्वस्तये, इति । ये जीवा ये च मृता ये जाता ये च जन्त्याः ।
तेभ्यो घृतस्य धारयितुं मधुधारा व्युन्दती, इति । माता रुद्राणां दुहिता वसूनाꣳ स्वसाऽऽदित्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट, इति । पिबतूदकं तृणान्यत्तु । ओमुत्सृजत ( १) इति ।।
वधिष्ट द्वे च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।
ॐ शान्तिः शान्तिः शान्तिः ।
हरिः ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठः प्रपाठकः समाप्तः ।। ६ ।।
 
 
"https://sa.wikisource.org/wiki/तैत्तिरीयारण्यकम्(विस्वर)" इत्यस्माद् प्रतिप्राप्तम्