प्रमुखा विकल्पसूचिः उद्घाट्यताम्

परिवर्तनानि

कूप वापी तडागादि प्रतिष्ठा विधिः
<big><big><big><poem>
 
अथ चतुःषष्टितमोध्यायः
 
 
कूपादिप्रतिष्ठाकथनं
 
भगवानुवाच
कूपवापीतडागानां प्रतिष्ठां वच्मि तां शृणु ।६४.००१
जलरूपेण हि हरिः सोमो वरुण उत्तम ॥६४.००१
अग्नीषोममयं विश्वं विष्णुरापस्तु कारणं ।६४.००२
हैमं रौप्यं रत्नजं वा वरुणं कारयेन्नरः ॥६४.००२
द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदं ।६४.००३
वामेन नागपाशं तं नदीनागादिसंयुतं ॥६४.००३
यागमण्डपमध्ये स्याद्वेदिका कुण्डमण्डिता ।६४.००४
तोरणं वारुणं कुम्भं न्यसेच्च करकान्वितं ॥६४.००४
भद्रके चार्धचन्द्रे वा स्वस्तिके द्वारि कुम्भकान् ।६४.००५
अग्न्याधानं चाप्यकुण्डे कृत्वा पूर्णां प्रदापयेत् ॥६४.००५
पृष्ठ १८७
 
वरुणं स्नानपीठे तु ये ते शतेति संस्पृशेत् ।६४.००६
घृतेनाभ्यञ्जयेत्पश्चान्मूलमन्त्रेण देशिकः ॥६४.००६
शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः ।६४.००७
अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके ॥६४.००७
गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्झरं ।६४.००८
नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं ॥६४.००८
औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवं ।६४.००९
अलाभे तु नदीतोयं(१) यासां राजेति मन्त्रयेत्(२) ॥६४.००९
देवं निर्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः(३) ।६४.०१०
नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः ॥६४.०१०
ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्पयेत् ।६४.०११
समुद्रज्येष्ठेत्यभिषिञ्चयेद्वरुणं पूर्वकुम्भतः ॥६४.०११
समुद्रं गच्छ गाङ्गेयात्सोमो धेन्विति वर्षकात् ।६४.०१२
देवीरापो निर्झराद्भिर्नदाद्भिः पञ्चनद्यतः ॥६४.०१२
उद्भिदद्भ्यश्चोद्भिदेन पावमान्याथ तीर्थकैः ।६४.०१३
आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात् ॥६४.०१३
आपो अस्मेति वर्षोप्त्यैर्व्याहृत्या कूपसम्भवैः ।६४.०१४
वरुणञ्च तडागोप्त्यैर्वरुणाद्भिस्तु वश्यतः ॥६४.०१४
आपो देवीति गिरिजैरेकाशीविघटैस्ततः ।६४.०१५
स्नापयेद्वरुणस्येति त्वन्नो वरुणा चार्घ्यकं ॥६४.०१५
व्याहृत्या मधुपर्कन्तु वृहस्पतेति वस्त्रकं ।६४.०१६
वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकं ॥६४.०१६
 
टिप्पणी
 
१ नदीक्षोदमिति ख, चिह्नितपुस्तकपाठः
 
२ आसां रुद्रेति कीर्तयेदिति ङ, ग, चिह्नितपुस्तकपाठः
 
३ इन्द्रियेति विचक्षण इति ग, घ, चिह्नितपुस्तकपाठः
पृष्ठ १८८
 
यद्वारण्येन पुष्पादि प्रदद्याद्वरुणाय तु ।६४.०१७
चामरं दर्पणं छत्रं व्यजनं वैजयन्तिकां ॥६४.०१७
मूलेनोत्तिष्ठेत्युत्थाप्य तां रात्रिमधिवासयेत् ।६४.०१८
वरुणञ्चेति सान्निध्यं यद्वारण्येन पूजयेत् ॥६४.०१८
सजीवीकरणं मूलात्पुनर्गन्धादिना यजेत् ।६४.०१९
मण्डपे(१) पूर्ववत्प्रार्च्य कुण्डेषु समिदादिकं ॥६४.०१९
वेदादिमन्त्रैर्गन्धाद्याश्चतस्रो धेनवो दुहेत् ।६४.०२०
दिक्ष्वथो वै यवचरुं ततः संस्थाप्य होमयेत्(२) ॥६४.०२०
व्याहृत्या वाथ गायत्र्या मूलेनामन्त्रयेत्तथा ।६४.०२१
सूर्याय प्रजापतये द्यौः स्वाहा चान्तरिक्षकः ॥६४.०२१
तस्यै पृथिव्यै देहधृत्यै इह स्वधृतये ततः ।६४.०२२
इह रत्यै चेह रमत्या उग्रो भीमश्च रौद्रकः ॥६४.०२२
विष्णुश्च वरुणो धाता रायस्पोषो महेन्द्रकः(३) ।६४.०२३
अग्निर्यमो नैर्ऋतोऽथ वरुणो वायुरेव च ॥६४.०२३
कुवेर ईशोऽनन्तोऽथ ब्रह्मा राजा जलेश्वरः ।६४.०२४
तस्मै स्वाहेदं विष्णुश्च तद्विप्रासेति होमयेत् ॥६४.०२४
सोमो धेन्विति षढुत्वा इमं मेति च होमयेत् ।६४.०२५
आपो हि ष्ठेति तिसृभिरिमा रुद्रेति होमयेत् ॥६४.०२५
दशादिक्षु बलिं दद्यात्गन्धपुष्पादिनार्चयेत् ।६४.०२६
प्रतिमां तु समुत्थाप्य मण्डले विन्यसेद्बुधः ॥६४.०२६
पूजयेद्गन्धपुष्पाद्यैर्हेमपुष्पादिभिः क्रमात् ।६४.०२७
 
टिप्पणी
 
१ मण्डले इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
 
२ मूले त्वग्नौ च होमयेदिति ङ, चिह्नितपुस्तकपाठः
 
३ वायुः सोमो महेन्द्रक इति ङ, चिह्नितपुस्तकपाठः
पृष्ठ १८९
 
जलाशयांस्तु दिग्भागे वितस्तिद्वयसम्मितान् ॥६४.०२७
कृत्वाष्टौ स्थण्डिलान् रम्यान् सैकतान् देशिकोत्तमः ।६४.०२८
वरुणस्येति मन्त्रेण साज्यमष्टशतं ततः ॥६४.०२८
चरुं यवमयं हुत्वा(१) शान्तितोयं समाचरेत् ।६४.०२९
सेचयेन्मूर्ध्नि देवं तु सजीवकरणं चरेत् ॥६४.०२९
ध्यायेत्तु वरुणं युक्तं गौर्या नदनदीगणैः ।६४.०३०
ओं वरुणाय नमोऽभ्यर्च्य ततः सान्निध्यमाचरेत् ॥६४.०३०
उत्थाप्य(२) नागपृष्ठाद्यैर्भ्रामयेत्तैः समङ्गलैः ।६४.०३१
आपो हि ष्ठेति च क्षिपेत्त्रिमध्वाक्ते घटे जले ॥६४.०३१
जलाशये मध्यगतं सुगुप्तं विनिवेशयेत् ।६४.०३२
स्नात्वा ध्यायेच्च वरुणं सृष्टिं ब्रह्माण्डसञ्ज्ञिकां ॥६४.०३२
अग्निवीजेन सन्दग्द्ध्य तद्भस्म प्लावयेद्धरां ।६४.०३३
सर्वमपोमयं लोकं ध्यायेत्तत्र जलेश्वरं ॥६४.०३३
तोयमध्यस्थितं देवं ततो यूपं निवेशयेत् ।६४.०३४
चतुरस्रमथाष्टास्रं वर्तुलं वा प्रवर्तितं(३) ॥६४.०३४
आराध्य देवतालिङ्गं दशहस्तं तु कूपके ।६४.०३५
यूपं यज्ञीयवृक्षोत्थं मूले हैमं फलं न्यसेत् ॥६४.०३५
वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशतिकं ।६४.०३६
तडागे पञ्चविंशाख्यं जलमध्ये निवेशयेत् ॥६४.०३६
यागमण्डपाङ्गेण वा यूपब्रस्केति मन्त्रतः (४) ।६४.०३७
स्थाप्य तद्वेष्टयेद्वस्त्रैर्यूपोपरि पताकिकां ॥६४.०३७
 
टिप्पणी
 
१ चरुं सचमसं हुत्वेति ख, चिह्नितपुस्तकपाठः
 
२ उत्थाय इति ख, ग, घ, चिह्नितपुस्तकपाठः
 
३ सुवर्तितमिति ङ, चिह्नितपुस्तकपाठः
 
४ यूपस्थानेति मन्त्रत इति ग, घ, ङ, चिह्नितपुस्तकपाठः
पृष्ठ १९०
 
तदभ्यर्च्य च गन्धाद्यैर्जगच्छान्तिं समाचरेत् ।६४.०३८
दक्षिणां गुरवे दद्याद्भूगोहेमाम्बुपात्रकं ॥६४.०३८
द्विजेभ्यो दक्षिणा देया आगतान् भोजयेत्तथा ।६४.०३९
आब्रह्मस्तम्बपर्यन्ता ये केचित्सलिलार्थिनः ॥६४.०३९
ते तृप्तिमुपगच्छन्तु तडागस्थेन वारिणा ।६४.०४०
तोयमुत्सर्जयेदेवं(१) पञ्चगव्यं विनिक्षिपेत् ॥६४.०४०
आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतं ।६४.०४१
तीर्थतोयं क्षिपेत्पुण्यं गोकुलञ्चार्पयेद्विजान्(२) ॥६४.०४१
अनिवारितमन्नाद्यं सर्वजन्यञ्च कारयेत् ।६४.०४२
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥६४.०४२
एकाहं स्थापयेत्तोयं तत्पुण्यमयुतायुतं ।६४.०४३ .
विमाने मोदते स्वर्गे नरकं न स गच्छति ॥६४.०४३
गवादि पिवते यस्मात्तस्मात्कर्तुर्न पातकं ।६४.०४४
तोयदानात्सर्वदानफलं प्राप्य दिवं यजेत् ॥६४.०४४
 
इत्यादिमहापुराणे आग्नेये कूपवापीतडागादिप्रतिष्ठाकथनं नाम चतुःषष्टितमोऽध्यायः ॥
 
 
</poem>
</big></big></big>
२७,९२८

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/42881" इत्यस्माद् पुनः प्राप्तिः