"लघुसिद्धान्तकौमुदी/तनादिप्रकरणम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
तनादिप्रकरणम् |
(लघु) लघुसिद्धान्तकौमुदी using AWB |

पङ्क्तिः १:
{{लघुसिद्धान्तकौमुदी}}

अथ तनादयः

शपो ऽपवादः। तनोति, तनुते। ततान, तेने। तनितासि, तनितासे। तनोतु। तनुताम्। अतनोत्, अतनुत। तनुयात्, तन्वीत। तन्यात्, तनिषीष्ट। अतानीत्, अतनीत्॥

तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥

जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥

एषामाकारे ऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥

उप्रत्ययान्तस्य कृञो ऽकारस्य उः स्यात् सार्वधातुके क्ङिति। कुरुतः॥

भस्य कुर्छुरोरुपधाया न दीर्घः। कुर्वन्ति॥

करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥

कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥

सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे। संस्करोति। अलङ्करोतीत्यर्थः। संस्कुर्वन्ति। सङ्घीभवन्तीत्यर्थः। सम्पूर्वस्य क्वचिदभूषणे ऽपि सुट्। संस्कृतं भक्षा इति ज्ञापकात्॥

उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः। प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः। वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम्। उपस्कृता कन्या। उपस्कृता ब्राह्मणाः। एधोदकस्योपस्करोति। उपस्कृतं भुङ्क्ते। उपस्कृतं ब्रूते॥

इति तनादयः॥ ८॥

[[वर्गः:लघुसिद्धान्तकौमुदी]]