"मत्स्यपुराणम्/अध्यायः २४१" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
(लघु) मत्स्यपुराणम् using AWB |
||
पङ्क्तिः १:
{{मत्स्यपुराणम्}}
<poem>
अङ्गस्फुरणविचारवर्णनम्।
Line ४ ⟶ ६:
मनुरुवाच।
ब्रूहि मे त्वं निमित्तानि अशुभानि शुभानि च।
सर्वधर्मभृतां श्रेष्ठ! त्वं हि सर्वविदुच्यते ।। २४१.१ ।।
मत्स्य उवाच।
अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणम्भवेत्।
अथ शस्तं तथा वामे पृष्ठस्य हृदयस्य च ।। २४१.२ ।।
मनुरुवाच।
अङ्गानां स्पन्दनञ्चैव शुभाशुभविचेष्टितम्।
तन्मे विस्तरतो ब्रूहि येन स्यात्तद्विधो भुवि ।। २४१.३ ।।
मत्स्य उवाच।
पृथ्वीलाभो भवेन्मूद्र्ध्नि ललाटे रविनन्दन!
स्थानं विवृद्धिमायाति भ्रूनसोः प्रियसङ्गमः ।। २४१.४ ।।
भृत्यलब्धिश्चाक्षिदेशे भृगुपान्ते धनागमः।
उत्कण्ठोपगमो मध्ये दृष्टं राजन्! विचक्षणैः ।। २४१.५ ।।
दृग्बन्धने सङ्गरे च जयं शीघ्रमवाप्नुयात्।
योषिद् भोगोऽपाङ्गदेशे श्रवणान्ते प्रिया श्रुतिः ।। २४१.६ ।।
नासिकायां प्रीतिसौख्यं प्रजाप्तिरघरोष्ठजे।
कण्ठे तु भोगलाभः स्याद् भोगवृद्दिरथांसयोः ।। २४१.७ ।।
सुहृत्स्नेहश्च बाहुभ्यां हस्ते चैव धनागमः।
पृष्ठे पराजयः सद्यः जयो वक्षःस्थले भवेत् ।। २४१.८ ।।
कुक्षिभ्यां प्रीतिरुद्दिष्टा स्त्रियाः प्रजननं स्तने।
स्थानभ्रंशो नाभिदेशे अन्त्रे चैव धनागमः ।। २४१.९ ।।
जानुसन्धौ परैः सन्धिर्बलवद्भिर्भवेन्नृप!।
दिशैकदेश-नाशोऽथ जङ्घायां रविनन्दन!।। २४१.१० ।।
उत्तमं स्थानमाप्नोति पद्भ्यां प्रस्फुरणान्नृप!।
सलाभञ्चाध्वगमनं भवेत्पादतले नृप! ।। २४१.११ ।।
लाञ्छनं पिटकञ्चैव ज्ञेयं स्फुरणवत्तथा।
विपर्ययेण विहिता सर्वस्त्रीणां फलागमः।
दक्षिणेऽपि प्रशस्तेऽङ्गे प्रशस्तं स्याद्विशेषतः ।। २४१.१२ ।।
अतोऽन्यथा सिद्धिप्रजल्पनात्तु फलस्य शस्तस्य च निन्दितस्य।
अनिष्टचिह्नोपगमे द्विजानां कार्यं सुवर्णेन तु तर्पणं स्यात् ।। २४१.१३ ।।
|