"गरुडपुराणम्/आचारकाण्डः/अध्यायः ११९" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १३:
ब्रह्मोवाच ।
अगस्त्यार्घ्यव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकम् ।
अप्राप्ते भास्करे कन्यां सति भागे त्रिभिर्दिनैः ॥ १,११९.१ ॥</br />
अर्घ्यं दद्यादगस्त्याय मूर्तिं संपूज्य वै मुने ! ।
काशपुष्पमयीं कुम्भे प्रदोषे कृतजागरः ॥ १,११९.२ ॥</br />
दध्यक्षताद्यैः संपूज्य उपोष्य फलपुष्पकैः ।
पञ्चवर्णसमायुक्तं हेमरौप्यसमन्वितम् ॥ १,११९.३ ॥</br />
सप्तधान्ययुतं पात्रं दधिचन्दनचर्चितम् ।
अगस्त्यः खनमानेति मन्त्रेणार्घ्यं प्रिदापयेत् ॥ १,११९.४ ॥</br />
खासपुष्पप्रतीकाश अग्निमारुतसम्भव ! ।
मित्रावारुणयोः पुत्त्रो कुम्भयोने नमोऽस्तु ते ॥ १,११९.५ ॥</br />
शूद्रस्त्र्यादिरनेनैव त्यजेद्धान्यं फलं रसम् ।
दद्याद्द्विजातये कुम्भं सहिरण्यं सदक्षिणम् ।
भोजयेच्च द्विजान्सप्त वर्षं कृत्वा तु सर्वभाक् ॥ १,११९.६ ॥</br />
इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डेऽगस्त्यार्घ्यव्रतं नामकोनविंशत्युत्तरशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]