"गरुडपुराणम्/आचारकाण्डः/अध्यायः २२७" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १२:
सूत उवाच ।
विष्णुभक्तिं प्रवक्ष्यामि यया सर्वमवाप्यते ।
यथा भक्त्या हरिस्तुष्येत्तथा नान्येन केनचित् ॥ १,२२७.१ ॥</br />
महतः श्रेयसो मूलं प्रसवः पुण्यसन्ततेः ।
जीवितस्य फलं स्वादु नियतं स्मरणं हरेः ॥ १,२२७.२ ॥</br />
तस्मात्सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी ।
ते भक्ता लोकनाथस्य नामकर्मादिकीर्तने ॥ १,२२७.३ ॥</br />
मुञ्चन्त्यश्रूणि संहर्षाद्ये प्रहृष्टनूरुहाः ।
जगद्धातुर्महेशस्य दिव्याज्ञाचरणा वयम् ॥ १,२२७.४ ॥</br />
इह नित्यक्रियाः कुर्युः स्निग्धा ये वैष्णवास्तु ते ।
ब्रह्माक्षरं न शृण्वन्वै तया भगवतेरितम् ॥ १,२२७.५ ॥</br />
प्रणामपूर्वकं भक्त्या यो वदेद्वैष्णवो हि सः ।
तद्भक्तजनवात्सल्यं पूजनं चानुमोदनम् ॥ १,२२७.६ ॥</br />
तत्कथाश्रवणे प्रीतिरश्रुनेत्राङ्गविक्रियाः ।
येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः ॥ १,२२७.७ ॥</br />
विप्रेभ्यश्च कृतात्मत्वान्महाभागवतो हि सः ।
विश्वोपकरणं नित्यं तदर्थं सङ्गवर्जनम् ।
स्वयमभ्यर्चनञ्चैव यो विष्णुञ्चोपजीवति ॥ १,२२७.८ ॥</br />
भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छोऽपि वर्तते ।
स विप्रेन्द्रो मुनिः श्रीमान्स याति परमां गतिम् ॥ १,२२७.९ ॥</br />
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ।
स्मृतः संभाषितो वापि पूजितो वा द्विजोत्तमः ।
पुनाति भगवद्भक्तश्चण्डालोऽपि यदृच्छया ॥ १,२२७.१० ॥</br />
दयां कुरु प्रपन्नाय तवास्मीति च यो वदेत् ।
अभयं सर्वभूतेभ्यो दद्यादेतद्व्रतं हरेः ॥ १,२२७.११ ॥</br />
मन्त्रजापिसहस्रेभ्यः सर्ववेदान्तपारगः ।
सर्ववेदान्तवित्कोट्यां विष्णुभक्तो विशिष्यते ॥ १,२२७.१२ ॥</br />
एकान्तिनः स्ववपुषा गच्छन्ति परमं पदम् ।
एकान्तेन समो विष्णुस्तस्मादेषां परायणः ॥ १,२२७.१३ ॥</br />
यस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ।
प्रियाणामपि सर्वेषां देवदेवस्य सुप्रियः ॥ १,२२७.१४ ॥</br />
आपत्स्वपि सदा भस्य भक्तिरव्यभिचारिणा ।
या प्रीतिरधिका विष्णोर्विषयेष्वनपायिनी ॥ १,२२७.१५ ॥</br />
विष्णुं संस्मरतः सा मे हृदयान्नोपसर्पति ।
दृढभक्तोऽपि वेदादिसर्वशास्त्रार्थपारगः ॥ १,२२७.१६ ॥</br />
यो न सर्वेश्वरे भक्तस्तं विद्यात्पुरुषाधमम् ।
नाधीतवेदशास्त्रोऽपि न कृतोऽध्वरसम्भवः ।
यो भक्तिं वहते विष्णौ तेन सर्वं कृतं भवेत् ॥ १,२२७.१७ ॥</br />
यज्वानः क्रतुमुख्यानां वेदानां पारगा अपि ।
न तां यान्ति गतिं भक्ता यां यान्ति मुनिसत्तमाः ॥ १,२२७.१८ ॥</br />
यः कश्चिद्वैष्णवो लोके मिथ्याचारोऽप्यनाश्रमी ।
पुनाति सकलांल्लोकान्सहस्रांशुरिवोदितः ॥ १,२२७.१९ ॥</br />
ये नृशंसा दुरात्मानः पापाचररतास्तथा ।
तेऽपि यान्ति परं स्थानं नारायणपरायणाः ॥ १,२२७.२० ॥</br />
दृढा जनार्दने भक्तिर्यदैवाव्यभिचारिणी ।
तदा कियत्स्वर्गसुखं सैव निर्वाणहेतुका ॥ १,२२७.२१ ॥</br />
भ्राम्यतां तत्र संसारे नराणां कुर्मदुर्गमे ।
हस्तावलम्बने ह्येकं येन तुष्येज्जनार्दनः ।
न शृणोति गुणान्दिव्यान्देवदेवस्य चक्रिणः ।
स मरो बधिरो ज्ञेयः सर्वधर्मबहिष्कृतः ॥ १,२२७.२२ ॥</br />
नाम्नि संकीर्तिते विष्णोर्यस्य पुंसो न जायते ।
शरीरं पुलकोद्भासि तद्भवेत्कुणपोपमम् ॥ १,२२७.२३ ॥</br />
यस्मिन्भक्तिर्द्विजश्रेष्ठ मुक्तिरप्यचिराद्भवेत् ।
निविष्टमनसां पुंसां सर्वथा वृजिनक्षयः ॥ १,२२७.२४ ॥</br />
स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रापन्नन्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ १,२२७.२५ ॥</br />
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यगव्यवसितो हि सः ॥ १,२२७.२६ ॥</br />
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं स गच्छति ।
विप्रेन्द्र प्रतिजानीहि विष्णुभक्तो न नश्यति ॥ १,२२७.२७ ॥</br />
धर्मार्थकामः किं तस्य मुक्तिस्तस्य करे स्थिता ।
समस्तजगतां मूलं यस्य भक्तिः स्थिरा हरौ ॥ १,२२७.२८ ॥</br />
दैवी ह्येषा गुणमयी हरेर्माया दुरत्यया ।
तमेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १,२२७.२९ ॥</br />
किं यज्ञाराधने पुंसा शिष्यते हरिमेधसाम् ।
भक्त्यैवाराध्यते विष्णुर्नान्यत्तत्रोपकारकम् ॥ १,२२७.३० ॥</br />
न दानैर्विविधैर्दत्तैः पुष्पैर्नैवानुलेपनैः ।
तोषमेति महात्मासौ यथा भक्त्या जनार्दनः ॥ १,२२७.३१ ॥</br />
संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे ।
कदाचित्केशवे भक्तिस्तद्भक्तैर्वा समागमः ॥ १,२२७.३२ ॥</br />
पत्रेषु पुष्पेषु फलेषु तोयेष्वकष्टलभ्येषु सदैव सत्सु ।
भक्त्यैकलभ्ये पुरुषे पुराणे मुक्त्यैकलाभे क्रियते प्रयत्नः ॥ १,२२७.३३ ॥</br />
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामाहः ।
वैष्णवोस्मत्कुले जातः स नः सन्तारयिष्यति ॥ १,२२७.३४ ॥</br />
अज्ञानिनः सुखरे समधिक्षिपन्तो यत्पापिनोऽपि शिशुपालसुयोधनाद्याः ।
मुक्तिं गताः स्मरणमात्रविधूतपापाः कः संशयः परमभक्तिमतां जनानाम् ॥ १,२२७.३५ ॥</br />
शरमं तं प्रपन्ना ये ध्यानयोगविवर्जिताः ।
तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥ १,२२७.३६ ॥</br />
भवोद्भवक्लेशशतैर्हतस्तथा परिभ्रमन्निन्द्रियरन्ध्रकैर्हयैः ।
नियम्यतां माधव ! मे मनोहयस्त्वदङ्घ्रिशङ्कौ दृढभक्तिबन्धने ॥ १,२२७.३७ ॥</br />
विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते ।
वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहिताः ॥ १,२२७.३८ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भगवद्भक्तिविवरणं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]