"गरुडपुराणम्/आचारकाण्डः/अध्यायः २३६" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
आचारखण्डः using AWB
पङ्क्तिः १३:
श्रीभगवानुवाच ।
आत्मज्ञानं प्रवक्ष्यामि शृणु नारद तत्त्वतः ।
अद्वैतं साङ्ख्यमित्याहुर्योगस्तत्रैकचित्तता ॥ १,२३६.१ ॥</br />
अद्वैतयोगसम्पन्नास्ते मुच्यन्तेऽतिबन्धनात् ।
अतीतारब्धमागामि कर्म नश्यति बोधतः ॥ १,२३६.२ ॥</br />
सद्विचारकुठारेण च्छिन्नसंसारपादपः ।
ज्ञानवैराग्यतीर्थेन लभते वैष्णवं पदम् ॥ १,२३६.३ ॥</br />
जाग्रत्स्वप्नसुषुप्तं च माया त्रिपुरमुच्यते ।
अत्रैवान्तर्गतं सर्वं शाश्वते नाद्वये पदे ॥ १,२३६.४ ॥</br />
नामरूपक्रियाहीनं सर्वं तत्परमं पदम् ।
जगत्कृत्वेश्वरोऽनन्तं स्वयमत्र प्रविष्टवान् ॥ १,२३६.५ ॥</br />
वेदाहमेतं पुरुषं चिद्रूपं तमसः परम् ।
सोऽहमस्मीति मोक्षाय नान्यः पन्था विमुक्तये ॥ १,२३६.६ ॥</br />
श्रवणं मननं ध्यानं ज्ञानानां चैव साधनम् ।
यज्ञदानतपस्तीर्थवेदैर्मुक्तिर्न लभ्यते ॥ १,२३६.७ ॥</br />
त्यागेन केनचिद्ध्यानपूजाकर्मादिभिर्यथा ।
द्विविधं वेदवचनं कुरु कर्म त्यजेति च ॥ १,२३६.८ ॥</br />
यज्ञादयो विमुक्तानां निष्कामानां विमुक्तये ।
अन्तः करणशुद्ध्यर्थमूचुरेवात्र केचन ॥ १,२३६.९ ॥</br />
एकेन जन्मना ज्ञानन्मुक्तिर्न द्वैतभाविनाम् ।
योगभ्रष्टाः कुयोगाश्च विप्रा योगिकुलोद्भवाः ॥ १,२३६.१० ॥</br />
कर्मणा बध्यते जन्तुर्ज्ञानान्मुक्तो भवाद्भवेत् ।
आत्मज्ञानन्त्वाश्रयेद्वै अज्ञानं यदतोऽन्यथा ॥ १,२३६.११ ॥</br />
यदा सर्वे विमुच्यन्ते कामा येस्यहृदि स्थिताः ।
तदामृतत्वमाप्नोति जीवन्नेव न संशयः ॥ १,२३६.१२ ॥</br />
व्यापकत्वात्कथं याति को याति क्व स याति च ।
अनन्तत्वान्नदेशोऽस्ति अमूर्तित्वाद्गतिः कुतः ॥ १,२३६.१३ ॥</br />
अद्वयत्वान्न कोऽप्यस्ति बोधत्वाज्जडता कुतः ।
एकोद्दिष्टं यदन्यस्य मतिवाग्गतिसंस्थिति (म्) ॥ १,२३६.१४ ॥</br />
कथमाकाशकल्पस्य गतिरागतिसंस्थिति ।
जाग्रत्स्वप्नसुषुप्तं च मायया परिकल्पितम् ॥ १,२३६.१५ ॥</br />
वस्तु तैजसकं प्राज्ञे यत्तु पुण्यमखण्डकम् ।
यथा ते प्रियात्मा नः सर्वेषां च तथा प्रियः ॥ १,२३६.१६ ॥</br />
बोधमार्गे यथा चित्तं सर्वेषां च तथा मते ।
सर्वदा सर्वभूतानां सर्वस्य च महामुने ॥ १,२३६.१७ ॥</br />
नाहमत्रात्मविज्ञानं तस्मात्पूर्णं निरन्तरम् ।
जाग्रत्स्वप्नं तथा वृत्तं सौषुप्तसुखमेव च ॥ १,२३६.१८ ॥</br />
स्मरणं विस्मृतार्थस्य नास्ति चेत्कस्य जायते ।
सत्यमस्तु तथा वाणु अशरीरं परं तथा ॥ १,२३६.१९ ॥</br />
नास्ति चेत्सुखदुः खानां सर्वेषां वेदनं कथम् ।
सदा सर्वत्र सर्वज्ञः सर्वस्य हृदये न येत् ॥ १,२३६.२० ॥</br />
साक्षिभूतः समाश्रित्य को जानाति विचेष्टितम् ।
सत्य ज्ञानानन्त भिन्नं स्यान्नसत्यं ज्ञानतः पृथक् ॥ १,२३६.२१ ॥</br />
नानन्त्यात्पृथगानन्दं नाप्यमानन्दतः पृथक् ।
त्वमेव परमं ब्रह्म सत्यज्ञानादिलक्षणम् ॥ १,२३६.२२ ॥</br />
अहं ब्रह्म परं तत्त्वं ज्ञात्वा त्वखिलविद्भवेत् ।
यथैकमृन्मये ज्ञाते सर्वमेतच्चराचरम् ॥ १,२३६.२३ ॥</br />
यथैकहेममणिना सर्वं हेममयं भवेत् ।
ज्ञानं तथैवमीशेन ज्ञानिनाप्यखिलं जगत् ॥ १,२३६.२४ ॥</br />
यथान्धकारदोषेण रज्जुः सम्यङ्नदृश्यते ।
यथा संमोहदोषेण चात्मा सम्यङ्नदृश्यते ॥ १,२३६.२५ ॥</br />
सर्पधारादिभिर्भेदरैन्यथा वस्तुकल्पनम् ।
व्योमादिना सरूपाद्यैरन्यथात्मा प्रकल्प्यते ॥ १,२३६.२६ ॥</br />
प्रत्यक्षमपि यद्द्रव्यन्दुर्दर्शमिति भाषते ।
व्योमादिना सरूपाद्यैरन्यथा कल्पितैस्तथा ॥ १,२३६.२७ ॥</br />
तथा हि रज्जुरुरगः शुक्तिः कारजतं यथा ।
मृगतृष्णापथायाम्भस्तृप्तिं विष्णो तथा जगत् ॥ १,२३६.२८ ॥</br />
हाहिष्णोद्विजा कथि द्भोहमितिदृ ।
ग्रहनाशात्पुनर्ध्यायन्ब्राह्मण्यं मन्यते यथा ॥ १,२३६.२९ ॥</br />
मायाविष्टस्तथा जीवो देहोहमिति मन्यते ।
मायानाशात्पुनः स्वीयरूपं ब्रह्मास्मि मन्यते ॥ १,२३६.३० ॥</br />
ग्रहनाशाद्यथा मान्यजनोक्रूरमवेक्षते ।
स्वरूपदर्शनाच्चायं माया नाशन्तया विना ॥ १,२३६.३१ ॥</br />
अनादित्वं समं द्वाभ्यां स्वरूपं तद्विलक्षणम् ।
एकः सत्यं तथा भागी विचारेण परं मृषा ॥ १,२३६.३२ ॥</br />
अजोपि हि सकृत्प्रेत्य संभवाम्यात्ममायया ।
मायेच्छया द्विधा स स्यात्पतिः पत्नी सुखं जगत् ॥ १,२३६.३३ ॥</br />
अष्टाविंशतिभेदैस्तु त्रैगुण्यं विद्यते पृथक् ।
चतुरशीतिर्लक्ष्यन्ते नरनार्याकृतीनि च ॥ १,२३६.३४ ॥</br />
एषुविश्वं प्रभवति खण्डजं मायया यथा ।
आदावन्ते च सन्त्येते नामरूपक्रियादयः ॥ १,२३६.३५ ॥</br />
सत्तावकल्पनं काले न सन्ति परमार्थतः ।
यथा रथादयः स्वप्ने सन्तो नैव च सत्यतः ॥ १,२३६.३६ ॥</br />
तथा जाग्रदवस्थायां भूतानि न तु सन्निधौ ।
द्वैरूप्यं मायया याति जाग्रत्स्वप्नपदज्ञ (क्ष) योः ॥ १,२३६.३७ ॥</br />
एवमेतत्परं ब्रह्म स्वप्नजाग्रत्पदद्वये ।
सुषुप्तमचलं रूपमद्वयं पदमुच्यते ॥ १,२३६.३८ ॥</br />
मायाविचारसिद्धैव विचारेण विलीयते ।
आपातरहिता सापि कल्पना कालवर्तिनी ॥ १,२३६.३९ ॥</br />
एवं तस्या (दात्या) त्मनादित्यं सिद्धमेकस्य सत्यजा ।
सतोस्तित्वं वसातित्वादस्तित्वासत्यतां ततः ॥ १,२३६.४० ॥</br />
ज्ञानं ततोप्यनन्तो नः पूर्णोन्तः शुकमात्मना ।
न नित्यभावाज्जातोहमकृत्वादमृतोस्म्यहम् ।
दीपवद्धृदये ज्योतिरहं ब्रह्मास्मि मुक्तये ॥ १,२३६.४१ ॥</br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आत्मज्ञानस्वरूपवर्णनं नाम षट्त्रिंशदुत्तरद्विशततमोऽध्यायः
</poem>
 
[[वर्गः:आचारखण्डः]]