"ऋग्वेदः सूक्तं १.१४२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
समिद्धो अग्न आ वह देवानद्य यतस्रुचे |
तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ||
घर्तवन्तमुप मासि मधुमन्तं तनूनपात |
यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ||
शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति |
नराशंसः तरिरा दिवो देवो देवेषु यज्ञियः ||
ईळितो अग्न आ वहेन्द्रं चित्रमिह परियम |
इयं हि तवा मतिर्ममाछा सुजिह्व वच्यते ||
सत्र्णानासो यतस्रुचो बर्हिर्यज्ञे सवध्वरे |
वर्ञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ||
वि शरयन्तां रताव्र्धः परयै देवेभ्यो महीः |
पावकासः पुरुस्प्र्हो दवारो देवीरसश्चतः ||
आ भन्दमाने उपाके नक्तोषासा सुपेशसा |
यह्वी रतश्यमातरा सीदतां बर्हिरा सुमत ||
मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी |
यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्प्र्शम ||
शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती |
इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ||
तन नस्तुरीपमद्भुतं पुरु वारं पुरु तमना |
तवष्टापोषाय वि षयतु राये नाभा नो अस्मयुः ||
अवस्र्जन्नुप तमना देवान यक्षि वनस्पते |
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ||
पूषण्वते मरुत्वते विश्वदेवाय वायवे |
सवाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ||
सवाहाक्र्तान्या गह्युप हव्यानि वीतये |
इन्द्रा गहि शरुधी हवं तवां हवन्ते अध्वरे ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४२" इत्यस्माद् प्रतिप्राप्तम्