"महाभारतम्-01-आदिपर्व-005" इत्यस्य संस्करणे भेदः

आदिपर्व using AWB
No edit summary
 
पङ्क्तिः २७२:
1-5-28 कवे सर्वज्ञ।।
पञ्चमोऽध्यायः।। 5 ।।
 
<poem><span style="font-size: 14pt; line-height: 175%">
शौनक उवाच॥
 
पुराणमखिलं तात पिता तेऽधीतवान्पुरा |
कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥१॥
 
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् |
कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ॥२॥
 
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् |
कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥३॥
 
सूत उवाच॥
 
यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः |
वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ॥४॥
 
यदधीतं च पित्रा मे सम्यक्चैव ततो मया |
तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ॥५॥
 
पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ॥५॥
 
इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने |
निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ॥६॥
 
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः |
च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ॥७॥
 
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥७॥
 
रुरोरपि सुतो जज्ञे शुनको वेदपारगः |
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ॥८॥
 
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः |
धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ॥९॥
 
शौनक उवाच॥
 
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः |
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥१०॥
 
सूत उवाच॥
 
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता |
तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ॥११॥
 
तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह |
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥१२॥
 
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे |
आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥१३॥
 
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् |
हृच्छयेन समाविष्टो विचेताः समपद्यत ॥१४॥
 
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना |
न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥१५॥
 
तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् |
दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ॥१६॥
 
अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् |
तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ॥१७॥
 
शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै |
सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ॥१८॥
 
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी |
पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ॥१९॥
 
सेयं यदि वरारोहा भृगोर्भार्या रहोगता |
तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ॥२०॥
 
मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति |
मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ॥२१॥
 
तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् |
शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ॥२२॥
 
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा |
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥२३॥
 
मत्पूर्वभार्यापहृता भृगुणानृतकारिणा |
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥२४॥
 
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् |
जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥२५॥
 
तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् |
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥२६॥1.5.30
</span></poem>
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-004|आदिपर्व-004]]
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-005" इत्यस्माद् प्रतिप्राप्तम्