"लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३१८" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%"> </span></poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
श्रीनारायण उवाच-
शृणु लक्ष्मि पूर्वकल्पे भवां वम्र्याः कथां शुभाम् । रुद्रपुत्री कृते चाद्ये समभूद् वम्रिका सुता ।। १ ।।
सत्याः सा मानसी पुत्री वटे तिष्ठति नित्यदा । मन्दरे पर्वते रुद्रावतारे वटपादपे ।। २ ।।
पित्राश्रये कृताऽऽवासा त्वास्ते शुद्धा कुमारिका । सत्या चाऽप्रजया दृष्टा विकुण्ठा राधिकासुता ।। ३ ।।
तदा पुत्रीमती स्यां चेत्यार्थयच्छंकरान्मुहुः । तथास्त्विति प्रसन्नः शंकरः संकल्पमाचरत् ।। ४ ।।
यत्र वै मन्दरेऽरण्ये स्वावतारवटाश्रये । तत्रैव रमणात् सत्या मानसी दिव्यरूपिणी ।। ५ ।।
जज्ञे कोटिचन्द्रतेजोऽधिकतेजोमयी सुता । जातमात्रा सुरूपा सुयौवना यादृशी सती ।। ६ ।।
ततोऽप्यधिकसौन्दर्या सर्वदिव्यगुणालया । जातमात्रा दिव्यबोधा ननाम पादयोः पितुः ।। ७ ।।
मातृचरणयोश्चापि ननाम सेविका यथा । सती चातिप्रसन्नाऽभूद् रुद्रोऽप्यतितरां सुखी ।। ८ ।।
अनपत्यस्तु सापत्यो भवत्युत्सववर्धितः । कृतः सत्या शंभुना चोत्सवस्तत्र सुमन्दरे ।। ९ ।।
देवा देव्यो मानवाश्च दिक्पाला मनवस्तथा । महर्षयोऽजपितरो विष्णुदक्षादयोऽपरे ।। १० ।।
युगलानि ययुस्तत्र वम्र्या जन्ममहोत्सवे । संस्कृता विधिना सप्तर्षिभिर्यज्ञोपवीतकम् ।। ११ ।।
प्रार्पितं ब्रह्मवर्चस्कं सर्वतेजोधिका बभौ । जनकं ब्रह्मरूपं च तथा सा सेवते सतीम् ।। १२।।
पितराविव योगस्था समाधावपि तिष्ठति । वटवासा वटच्छायाकृतशाला वटाश्रया ।। १३।।
वटत्वक्संऽस्कृतवस्त्रा न्यग्रोधफलभोजना । न्यग्रोधदुग्धपाना च न्यग्रोधफलभूषणा ।। १४।।
न्यग्रोधस्य जटातन्तुशाटिका वटमूलके । वेदीकृतहोमकार्या वटपत्रसुकंचुकी ।। १५।।
वटकाष्ठसुवलया वटरूपा सदाऽभवत् । तापसी वटपुत्री सा सर्वसिद्धिमयी बभौ ।। १६।।
यद्यदिच्छति तत्सर्वं तत्र समुपतिष्ठते । सम्पदः स्मृद्धयो लक्ष्म्यो रसा भोग्यानि वै सुधा ।। १७।।
अमृतानि विचित्राणि दुग्धानि विविधानि च । सर्ववृक्षरसास्तत्र सर्वरत्नानि तत्र च ।। १८।।
सर्वभोग्योपकरणान्युपतिष्ठन्ति तद्वटे । सा तु योगबलात् सर्वं स्वस्या अग्रे प्रपश्यति ।। १९।।
मूलाधारे गुदे चक्रे गत्वा गणपतिं सुरम् । ध्यायति स्माऽस्य सामर्थ्यं वशीकरोति सर्वथा ।।२०।।
स्वाधिष्ठाने योनिमूले चक्रे गत्वा चतुर्मुखम् । ध्यायति स्माऽस्य सामर्थ्यं वशीकरोति सर्वतः ।।२१ ।।
मणिपूरे नाभिदेशे चक्रे गत्वा तु विष्णुकम् । ध्यायति स्माऽस्य सामर्थ्यं वशीकरोति सर्वथा ।।।२२।।
हृदयेऽनाहते चक्रे गत्वा ध्यात्वा शिवं स्थितम् । तस्यापि सर्वसामर्थ्यं वशीकरोति योगिनी ।।२३ ।।
विशुद्धिचक्रे कण्ठस्थे स्वात्मनि संयमं परम् । कृत्वाऽऽत्मतत्त्वसामर्थ्यं वशीकरोति सर्वथा ।। २ ४।।
आज्ञाचक्रे भ्रुवोर्मध्ये ध्यात्वा हंसं गुरुं तथा । वशीकरोति ब्रह्मादि ज्ञानं सार्वज्ञ्यमेति या ।। २५।।
ब्रह्मरन्ध्रेऽपि सा गत्वा ब्रह्मलोकं गता सती । पश्यति श्रीपरात्मानं श्रीकृष्णपुरुषोत्तमम् ।। २६ ।।
क्चचित्समाधिना वम्री याति ब्रह्मपुरं प्रति । क्वचिद्वैकुण्ठलोकं च याति श्वेतं पुरं प्रति ।। २७।।
गोलोकं चामृतं धाम श्रीपुरं याति वासवम् । क्वचिच्छैवं क्वचिद् ब्राह्मं सौरं चान्द्रं च वारुणम् ।। २८ ।।
कौबेरं देवलोकाँश्च प्रकृतेः पुरुषस्य च । लोकान् सांकर्षणं धाम प्राद्युम्नं चानिरुद्धकम् ।। २९।।
चतुर्विंशतितत्त्वानां लोकान् याति समाधिना । असुराणां च नागानां देवीनामालयाँस्तथा ।। ३० ।।
भूगोले च खगोले च ब्रह्माण्डे याति योगिनी । इडायाः पिंगलायाश्च सुषुम्णादेश्च वर्त्मना ।। ३१ ।।
सूर्यचन्द्रादिलोकाँश्च जगाम योगसंश्रया । संयमनीं धर्मपुरीं जगाम योगवर्त्मना ।। ३२।।
नैकरूपधरा भूत्वा वम्री वटेऽपि तिष्ठति । तिष्ठत्यपरवृक्षेषु वैकुण्ठे श्रीपुरेऽपि च ।। ३३ ।।
कुबेरस्य महाकोशे भूत्वा वम्री तु यक्षिणी । तिष्ठते सा धनयक्षिणीति रक्षाकरी तथा ।। ३४।।।
एवं भूत्वा बहुरूपा यथेष्टं रमते हि सा । वटाऽधः सूयमानत्वाद् वटसावित्रिका हि सा ।। ३५ ।।
वटं स्वर्णं तस्य रक्षाकरी सा वटयक्षिणी । वृक्षेषु वसमानत्वाद् वार्क्षी वम्री सदाऽभवत् ।। ३ ६ ।।
वदसावित्रिकाकृच्छ्रं पतिसंयोगद्ं सदा । वैधव्यं नैव चायाति वटसावित्रिकार्चने ।। ३७।।
दारिद्र्यं नैव जायेत वटयक्षिणिकार्चने । लक्ष्मीं च सम्पदश्चैव धनं ददाति यक्षिणी ।। ३८।।
सस्याऽन्नकणधान्यादि वार्क्षी ददाति पूजिता । वार्क्षी सर्वत्र वृक्षेषु तिष्ठते रसरूपिणी ।। ३९ ।।
वटे वृक्षे मानिता या राति लक्ष्मीं ददाति सा । वम्री सतीसुता योगक्रियादक्षा स्थले स्थले ।।४० ।।
योगाभ्यासेन गत्वैव ददर्श सर्वसृष्टिषु । युगलानि पतिपत्नीकृतानि मानसान्यपि ।।४१ ।।
ईश्वराणां सुराणां च मानवानां च शाखिनाम् । दिव्यानि देहयुक्तानि प्रिये! पुण्यात्मकान्यपि ।।४२।।
दृष्ट्वा धर्मं विचार्यैव यौवनं वै पतिं विना । स्त्रीणां दोषकरं शुद्धिविहीनं भाति सृष्टिषु ।।४३ ।।
तस्मान्मयाऽपि योक्तव्यं पत्या सह सधर्मिणा । इति विचार्य सा वम्री सतीपुत्री सुसुन्दरी ।।४४।।
निषसाद वटाऽधस्ताद् वेद्यां सा मन्दरे गिरौ । तावत्तत्पार्श्वतो याता दिव्याः प्रचेतसो दश ।।४५।।
स्वतुल्यान् रूपसम्पन्नान् पुष्टयौवनसंभृतान् । पुनस्तत्पार्श्वतो जग्मुः कृत्वा शंकरदर्शनम् ।।४६।।
मनस्तेषु तदा वम्र्याः किञ्चिद्वै स्निग्धता गतम् । तानेव संस्मरन्त्यत्र वटे सा व्यग्रमानसा ।।४७।।
शुश्राव दुन्दुभिं चाधिकमासव्रतबोधकम् । अद्यैकादशिकापर्व पुण्यदं चाधिमासिकम् ।।४८ ।।
व्रतकर्त्र्या भवेत्स्वेष्टं सिद्धं प्रयत्नमन्तरा । पुरुषोत्तम कृष्णोऽहं ददामीष्टं व्रतार्थिने ।।४९ ।।
दुन्दुभिः संवदाम्यत्र साक्षाच्छ्रीपुरुषोत्तमः । गृह्णन्तु वरदानं मत् यथेष्टं सुरमानवाः ।।५ ० ।।
नरा नार्यः सुरा देव्यः समायान्तु मदन्तिकम् । एकादश्या व्रतपुण्यं ददामि मनसेप्सितम् ।।।५ १ ।।
श्रुत्वा वम्री दुन्दुभिं तं प्रति शीघ्रं समाययौ । संपूज्य दुन्दुभिं कन्या प्रोवाच दशवारकम् ।।५२।।
पतिं देहि, पतिं देहि, पतिं देहि, पतिं, पतिम् । पतिं देहि, पतिं देहि, पतिं देहि, पतिं, पतिम् ।।।५३ ।।
श्रुत्वा तथास्त्विति प्रोच्य दुन्दुभिर्निर्ययौ ततः । वटं सापि ययौ शीघ्रं यथा जानाति नो सती ।।५४।।
प्रसन्ना तुष्टहृदया वरदानधनान्विता । पुनः शुश्राव तं वाद्यं श्रीकृष्णपुरुषोत्तमः ।।५५ ।।
पूजया तोषितः शीघ्रं मानसं पूरयिष्यति । श्रुत्वैवं सा वटाऽधस्तात् प्रतिमां पौरुषोत्तमीम् । ।५६। ।
विधाय पूजयामास वटपत्रफलादिभिः । आवाह्याचमनं कारयित्वाऽऽसनं समर्प्य च । ।५७। ।
पाद्यमर्घ्यं ससमर्प्य दध्ना दुग्धेन वारिणा । शर्करया मधुना च घृतेनाऽस्नापयद्धरिम् । । ५८ । ।
वस्त्रेण मार्जयामास जलान्यंगेभ्य ईश्वरी । धौत्रं व्याघ्राम्बरं चोत्तरीयं हस्त्यम्बरं तथा । ।५९ । ।
वटत्वङनक्तकं यज्ञोपवीतं दर्भनिर्मितम् । समर्प्याऽऽभरणानीष्टपौष्पाणि फालिकानि च । । ६० । ।
सौवर्णानि च रौप्याणि कस्तूरीचन्दनाऽक्षतान् । धूपदीपसुनैवेद्यताम्बूलफलचर्वणम् । ।६ १ ।।
आरार्त्रिकं दण्डवच्च प्रदक्षिणां स्तुतिं तथा । पुष्पांजलिं समर्प्याऽथ जगौ संकीर्तनं ततः ।।६२।।
मध्याह्नेऽपि तथा सायं निशि प्रपूज्य केशवम् । वम्री सजागरं नृत्यं चकार हरिसन्निधौ । ।६३।।
डमरुं वादयमाना किंकिणीशब्दमिश्रितम् । गायनं गीतिकायुक्तं मधुरं वै चकार सा ।।६४।।
वनवृक्षाश्च तच्छ्रुत्वा लतास्तृणानि चाययुः । स्तबकाश्च समाजग्मुः श्रवणाऽऽकृष्टचेतनाः ।।६५। ।
चेतनाऽऽरण्यकाः सर्वे सपक्षाः पक्षवर्जिताः । अपि श्रवणसंकृष्टाः समायाता वटस्थलम् ।।६६।।
पुरुषोत्तमदेवस्य पूजाया जलममृतम् । प्रासादिकं फलं चान्यत् पत्रं पुष्पादिकं तथा ।।६७।।
ददौ तेभ्यस्तु सर्वेभ्यः पश्चाज्जग्राह वम्रिका । सती च शंकरश्चैतद्भागवतप्रपूजनम् ।।६८। ।
दृष्ट्वाऽऽश्चर्यं परं प्राप्तौ प्रशंसतुश्च पुत्रिकाम् । ददतुश्चाशिषः पुत्रि! यथेष्टं सुखिनी भव ।।६९।।
वैष्णवी भव कल्याणि! वनसौख्यकरी भव । तापसी ब्रह्मशक्तिश्च पुमुत्तमप्रिया भव ।।७ ०।।
पूज्या वटस्थिता मान्या वृक्षरसप्रदा भव । इत्याद्याशीर्वचनैस्तां योजयामासतुः शिवौ ।।७१।।
अथैवं पूजनं कृत्वा कृत्वा विसर्जनं हरेः । वटवेद्यां निषसाद समाजं विनिवृत्य सा ।।।७२।।
तावत्तत्र समायातो दिव्यरूपधरः पुमान् । रूपानुरूपायऽवयवः कोटिशंभुसमोज्ज्वलः ।।७३।।
चन्द्राननसुशोभाढ्यो युवा योग्यो वरो यथा । प्रहस्य तां समाकृष्य प्रियेत्याह सकौस्तुभः ।।७४।।
वम्री नम्रमुखी भूत्वा ज्ञात्वा श्रीपुरुषोत्तमम् । पतिता पादयोस्तस्य चक्रपद्मधरस्य वै ।।७५।।
वद् देवि! व्रतेनाऽस्मि प्रसन्नः पुरुषोत्तमः । वरं ब्रूहि ददाम्यत्र यत्ते मनसि वर्तते ।।७६।।
वम्री तु पादयोर्नत्वा जलं धृत्वा मुखे तदा । रजश्च मस्तके कृत्वा स्तने कृत्वा पदाम्बुजम् ।।७७।।
कण्ठोपरि करौ स्थाप्य मनो दत्वा हृदम्बरे । नेत्रे तु नेत्रयोः कृत्वा गृहीत्वा पुरुषोत्तमम् ।।७८।।
पत्नीं भार्यां तव दासीं गृहाणेत्यवदत्तु सा । परं भावं हरिर्ज्ञात्वा तथास्त्वित्याह माधवः ।।७९।।
परं प्राह च तां वम्रीं स्मर पूर्वं तवाऽर्थितम् । सन्निधौ मे दुन्दुभेस्तु दशवारं पतिं पतिम् ।।८०।।
एकोऽहं ते पतिर्भाव्यः साक्षाच्छ्रीपुरुषोत्तमः । भव दिव्यस्वरूपा त्वं समागच्छ मया सह ।।८ १ ।।
अक्षरे परमे धाम्नि मम पत्नी तु शाश्वती । भवाऽथ मानसी पुत्री सतीसेवा परा सदा ।।।८२।।
वटसावित्रिका नित्यं सन्तिष्ठाऽत्र कुमारिका । रुद्रपुत्री वटयक्षिणीति द्रव्याधिरक्षिका ।।८ ३ ।।
खनिष्वपि पृथिव्यां त्वं तिष्ठ रुद्रीस्वरूपिणी । स्मर प्रचेतसो दृष्ट्वा मनस्ते स्निग्धता गतम् ।।८४।।
अतस्ते पतयो भाव्या दश प्रचेतसोऽमलाः । किन्तु नानेन देहेन तव योग्या हि ते मताः ।।८५।।
तस्माद् वृक्षैरर्थितासि ये येऽत्र पूजनावधौ । उपस्थिताश्च तेषां त्वं पुत्री भव प्रिये! तथा ।।८ ६।।
ममाऽऽज्ञयाऽभिधानं ते वार्क्षी भविष्यति ध्रुवम् । वृक्षपुत्री भव देवि दशधा रूपधारिणी ।।८७।।
शृणु त्वां कथयाम्यत्र तत्तद्रूपाणि संकुरु । वृक्षाः, स्तम्बाश्च, सस्यानि, शाकानि च, तृणानि च ।।८८ ।।
नलाश्च, वल्लयश्चैव, दण्डाः, पत्राणि, कन्दकाः । दशस्वेतेषु पितृत्वं स्वीकृत्य दशधा भव ।।८९ ।।
सशाखफलमात्रेषु ह्यशाखपुष्पमात्रके । सशाखपुष्पमात्रेषु ह्यशाखफलमात्रके ।। ९० ।।
सशाखफलपुष्पेषु ह्यशाखफलपुष्पके । सशाखाऽफलपुष्पेषु ह्यशाखऽफलपुष्पके ।।९ १ ।।
सशाखपत्रमात्रेषु ह्यशाखपत्रमात्रके । पुत्री भूत्वा रसान् देहि दशपुत्र्यो भवन्तु वै ।। ९ २।।
इत्युक्त्वा भगवान् कृष्णनारायणोऽतिभावतः । वम्रीरूपं धामयोग्यं कृत्वा नीत्वा ययौ मुदा ।। ९३ ।।
एकं पुत्रीस्वरूपं तु स्थितं वम्र्याः सतीकृते । अपराणि च रूपाणि वृक्षकन्याः सुयौवनाः ।।९४।।
निष्पन्नास्तास्तदा निन्युर्वृक्षा विभिन्नजातयः । तैः प्रदत्ताः प्रचेतोभ्यो दशभ्य एव धर्मतः ।। ९५।।
सर्वत्र रसदायिन्यः फलदायिन्य एव ताः । नारदस्योपदेशेन प्रचेतसां तु मोक्षणे ।।९६।।
वार्क्षीणामपि मोक्षो वै भविष्यति न संशयः । एकादशीव्रतं त्वेवं कृत्वा वम्री सतीसुता ।। ९७।।
प्रपेदे परमं धाम तन्वा ब्राह्म्या हि शाश्वतम् । पुरुषोत्तमपत्नीत्वं प्राप्ता यथेष्टसौख्यदम् ।। ९८।।
देव्यो वम्र्यस्तथा वार्क्ष्यो जाताः कृपाकणाद्धरेः । देव्यो वम्र्यस्तु रूद्रस्य वेद्यां प्रथमजा वरे ।। ९९ ।।
मखस्य देवजयने बभूवुः समिधो भुवि । श्रावणात्पठनाच्चास्यैकादश्या व्रतजं फलम् ।। १०० ।।
लभते वाचयेद् यः स धनधान्यसमृद्धिमान् । भुक्तिं मुक्तिं च लभते पुरुषोत्तमतोषणात् ।। १०१ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये सतीरुद्रयोर्मानसपुत्र्या योगिन्या वम्र्याऽधिकमासैकादशीव्रतकरणेन स्वेष्टब्रह्माऽक्षर-धामयोग्यब्राह्मीतनुर्लब्धा, रूपान्तरैर्दशप्रचेतःपत्नीत्वं - वृक्षकन्यात्वं चेत्यादिनिरूपणनामाऽष्टा-दशाऽधिकत्रिशततमोऽध्यायः ।। १.३१८ ।।
 
</span></poem>