"पिङ्गलछन्दःसूत्रम्" इत्यस्य संस्करणे भेदः

(लघु) Shubha इत्यनेन शीर्षकं परिवर्त्य छन्दः पृष्ठं पिङ्गलछन्दःसूत्रम् प्रति स्थानान्तरितम्: लेखनद...
No edit summary
पङ्क्तिः १:
{{header
| title = छन्दःपिङ्गलछन्दःसूत्रम्
| author = पिङ्गलाचार्यः
| translator =
| section =
पङ्क्तिः ९:
| notes =
}}
<poem>
मयरसत जभनलगसंमितं भ्रमति वाङ्मयं जगति यस्य।
स जयति पिङ्गलनागः शिवप्रसादाद्विशुद्धमतिः।।
त्रिगुरुं विद्धि मकारं लघ्वादिसमन्वितं यकाराख्यम्।
लघुमध्यमं तु रेफं सकारमन्ते गुरुनिबद्धम्।।
लघ्वन्त्यं हि तकारं जकारमुभयोर्लघुं विजानीयात्।
आदिगुरुं च भकारं नकारमिह पैङ्गले त्रिलघुम्।।
दीर्घसंयोग परं तथा स्वर व्यञ्जनान्तमूष्मान्तम्।
सानुस्वारं च गुरुं क्वचिदवसानेऽपि लघ्वन्त्यम्।।
आदिमध्यावसानेषु यरता यान्ति लाघवम्।
भजसा गौरवं यान्ति मनौ तु गुरुलाघवम्।।
त्रिविरामं दशवर्षं षण्मात्रमुवाच पिङ्गलः सूत्रम्।
छन्दोवर्ग पदार्थ प्रत्ययहेतोश्च शास्त्रादौ॥ । १.१ ।
 
#[[पिङ्गलछन्दःसूत्रम्/प्रथमोऽध्यायः|प्रथमोऽध्यायः]]
----
#[[पिङ्गलछन्दःसूत्रम्/द्वितीयोऽध्यायः|द्वितीयोऽध्यायः]]
 
#[[पिङ्गलछन्दःसूत्रम्/तृतीयोऽध्यायः|तृतीयोऽध्यायः]]
धीश्रीस्त्रीम् । २.१ ।
#[[पिङ्गलछन्दःसूत्रम्/चतुर्थोऽध्यायः|चतुर्थोऽध्यायः]]
 
#[[पिङ्गलछन्दःसूत्रम्/पञ्चमोऽध्यायः|पञ्चमोऽध्यायः]]
वरासाय् । २.२ ।
#[[पिङ्गलछन्दःसूत्रम्/षष्ठोऽध्यायः|षष्ठोऽध्यायः]]
 
#[[पिङ्गलछन्दःसूत्रम्/सप्तमोऽध्यायः|सप्तमोऽध्यायः]]
कागुहार् । २.३ ।
#[[पिङ्गलछन्दःसूत्रम्/अष्टमोऽध्यायः|अष्टमोऽध्यायः]]
 
वसुधास् । २.४ ।
 
सातेक्वत् । २.५ ।
 
कदासज् । २.६ ।
 
किंवदभ् । २.७ ।
 
नहसन् । २.८ ।
 
गृल् । २.९ ।
 
गन्ते । २.१० ।
 
ध्रादिपरः । २.११ ।
 
हे । २.१२ ।
 
लौसः । २.१३ ।
 
ग्लौ । २.१४ ।
 
अष्टौ वसव इति॥ । २.१५ ।
 
----
 
छन्दः । ३.१ ।
 
गायत्री । ३.२ ।
 
दैव्येकम् । ३.३ ।
 
आसुरी पञ्चदश । ३.४ ।
 
प्राजापत्याष्टौ । ३.५ ।
 
यजुषां षट् । ३.६ ।
 
साम्नां द्विः । ३.७ ।
 
ऋचां त्रिः । ३.८ ।
 
द्वौ द्वौ साम्नां वर्धेत । ३.९ ।
 
त्रींस्त्रीनृचाम् । ३.१० ।
 
चतुरश्चतुरः प्राजापत्यायाः । ३.११ ।
 
एकैकं शेषे । ३.१२ ।
 
जह्यादासुरी । ३.१३ ।
 
तान्युष्णिगनुष्टुब्बृहती पंक्ति त्रिष्टुब्जगत्यः । ३.१४ ।
 
तिस्रस्तिस्रस्सनाम्न्य एकैका ब्राह्म्यः। ३.१५ ।
 
प्राग्यजुषामार्ष्य इति।। । ३.१६ ।
 
----
 
पादः । ४.१ ।
 
इयादिपूरणः । ४.२ ।
 
गायत्र्या वसवः । ४.३ ।
 
जगत्या आदित्याः । ४.४ ।
 
विराजो दिशः । ४.५ ।
 
त्रिष्टुभो रुद्राः । ४.६ ।
 
एकद्वित्रिचतुष्पादुक्तपादम् । ४.७ ।
 
आद्यं चतुष्पादृतुभिः । ४.८ ।
 
क्वचित् त्रिपादृषिभिः । ४.९ ।
 
सा पादनिचृत् । ४.१० ।
 
षट्कसप्तकयोर्मध्येऽष्टावतिपादनिचृत् । ४.११ ।
 
द्वौ नवकौ षट्कश्च नागी।४.१२
 
विपरीता वाराही । ४.१३ ।
 
षट्कसप्तकाष्टकैर्वर्धमाना । ४.१४ ।
 
विपरीता प्रतिष्ठा । ४.१५ ।
 
तृतीयं द्विपाज्जागतगायत्राभ्याम् । ४.१६ ।
 
त्रिपात्त्रैष्टुभैः । ४.१७ ।
 
उष्णिग्गायत्रौ जागतश्च । ४.१८ ।
 
ककुम्मध्ये चेदन्त्यः । ४.१९ ।
 
पुरउष्णिक् पुरः ।। । ४.२० ।
 
----
 
परोष्णिक् परः । ५.१ ।
 
चतुष्पादृषिभिः । ५.२ ।
 
अनुष्टुप् गायत्रैः । ५.३ ।
 
त्रिपात्क्वचिज्जागताभ्यां च । ५.४ ।
 
मध्येऽन्ते च । ५.५ ।
 
बृहती जागतस्त्रयश्च गायत्राः । ५.६ ।
 
पथ्या पूर्वश्चेत्तृतीयः । ५.७ ।
 
न्यङ्कुसारिणी द्वितीयः । ५.८ ।
 
स्कन्धोग्रीवी क्रौष्टुकेः । ५.९ ।
 
रोबृहती यास्कस्य । ५.१० ।
 
उपरिष्टाद्बृहत्यन्ते । ५.११ ।
 
पुरस्ताद्बृहती पुरः । ५.१२ ।
 
क्वचिन्नवकाश्चत्वारः । ५.१३ ।
 
वैराजौ गायत्रौ च । ५.१४ ।
 
त्रिभिर्जागतैर्महाबृहती । ५.१५ ।
 
सतोबृहती ताण्डिनः । ५.१६ ।
 
पंक्तिर्जागतौ गायत्रौ च । ५.१७ ।
 
पूर्वौ चेदयुजौ सतः पंक्तिः । ५.१८ ।
 
विपरीतौ च॥ । ५.१९ ।
 
----
 
आस्तारपंक्तिः परतः । ६.१ ।
 
प्रस्तारपंक्तिः पुरतः । ६.२ ।
 
विष्टारपंक्तिरन्तः । ६.३ ।
 
संस्तारपंक्तिर्बहिः । ६.४ ।
 
अक्षरपंक्तिः पञ्चकाश्चत्वारः । ६.५ ।
 
द्वावप्यल्पशः । ६.६ ।
 
पदपंक्तिः पञ्च । ६.७ ।
 
चतुष्क षट्कौ त्रयश्च । ६.८ ।
 
पथ्या पञ्चभिर्गायत्रैः । ६.९ ।
 
जगती षड्भिः । ६.१० ।
 
एकेन त्रिष्टुप् ज्योतिष्मती । ६.११ ।
 
तथा जगती । ६.१२ ।
 
पुरस्ताज्ज्योतिः प्रथमेन । ६.१३ ।
 
मध्येज्योतिर्मध्यमेन । ६.१४ ।
 
उपरिष्टाज्ज्योतिरन्त्येन । ६.१५ ।
 
एकस्मिन्पञ्चके छन्दः शङ्कुमती । ६.१६ ।
 
षट्के ककुद्मती । ६.१७ ।
 
त्रिपादनिष्ठ मध्या पिपीलिक मध्या । ६.१८ ।
 
विपरीता यवमध्या । ६.१९ ।
 
ऊनाधिकेनैकेन निचृद्भुरिजौ । ६.२० ।
 
द्वाभ्यां विराट् स्वराजौ । ६.२१ ।
 
आदितः सन्दिग्धे॥ । ६.२२ ।
 
----
 
देवतादितश्च । ७.१ ।
 
अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वेदेवा देवताः । ७.२ ।
 
स्वराः षड्ज ऋषभ गान्धार मध्यम पञ्चम धैवत निषादाः । ७.३ ।
 
सित सारङ्ग पिशङ्ग कृष्ण नील लोहित गौरा वर्णाः । ७.४ ।
 
आग्निवेश्य काश्यप गौतमांगिरस भार्गव कौशिक वासिष्ठानि गोत्राणि । ७.५ ।
 
श्यामान्यतिच्छन्दांसि । ७.६ ।
 
रोचनाभाः कृतयः । ७.७ ।
 
अनुक्तानां कामतो वर्णा इति।। । ७.८ ।
 
----
 
चतुः शतमुत्कृतिः । ८.१ ।
 
चतुरश्चतुरस्त्यजेदुत्कृतेः । ८.२ ।
 
तान्यभिसंव्याप्रेभ्यः कृतिः । ८.३ ।
 
प्रकृत्याचोपसर्गवर्जितः । ८.४ ।
 
धृत्यष्टिशक्वरी जगत्यः । ८.५ ।
 
पृथक्पृथक्पूर्वत एतान्येवैषाम् । ८.६ ।
 
द्वितीयं द्वितीयमतितः । ८.७ ।
 
अथ लौकिकम् । ८.८ ।
 
आत्रैष्टुभाच्च यदार्षम् । ८.९ ।
 
पादश्चतुर्भागः । ८.१० ।
 
यथावृत्तसमाप्तिर्वा । ८.११ ।
 
लः समुद्रागणः । ८.१२ ।
 
गौगन्तमध्यादिर्न्लश्च । ८.१३ ।
 
स्वरा अर्धं चार्यार्धम् । ८.१४ ।
 
अत्रायुङ्नज् । ८.१५ ।
 
षष्ठोज् । ८.१६ ।
 
न्लौ वा । ८.१७ ।
 
न्लौचेत्पदं द्वितीयादि । ८.१८ ।
 
सप्तमः प्रथमादि । ८.१९ ।
 
अन्त्ये पञ्चमः।। । ८.२० ।
 
----
 
षष्ठश्चल् । ९.१ ।
 
त्रिषु गणेषु पादः पथ्याद्ये च । ९.२ ।
 
विपुलान्या । ९.३ ।
 
चपला द्वितीय चतुर्थौ ग्मध्येजौ । ९.४ ।
 
पूर्वे मुखपूर्वा । ९.५ ।
 
जघनपूर्वेतरत्र । ९.६ ।
 
उभयोर्महाचपला । ९.७ ।
 
आद्यर्धसमा गीतिः । ९.८ ।
 
अन्त्येनोपगीतिः । ९.९ ।
 
उत्क्रमेणोद्गीतिः । ९.१० ।
 
अर्धे वसुगण आर्यागीतिः । ९.११ ।
 
वैतालीयं द्विःस्वरा अयुक्पादे युग्वसवोन्तेर्ल्गः । ९.१२ ।
 
गौपच्छन्दसिकम् । ९.१३ ।
 
आपातलिका भ्गौग् । ९.१४ ।
 
शेषे परेण युङ्न साकम् । ९.१५ ।
 
षट्चामिश्रायुजि । ९.१६ ।
 
पञ्चमेन पूर्वः साकं प्राच्यवृत्तिः । ९.१७ ।
 
अयुक्तृतीयेनोदीच्यवृत्तिः । ९.१८ ।
 
आभ्यां युगपत्प्रवृत्तकम् । ९.१९ ।
 
अयुक् चारुहासिनी ॥ । ९.२० ।
 
----
 
युगपरान्तिका । १०.१ ।
 
गन्ता द्विर्वसवो मात्रा समकल् नवमः । १०.२ ।
 
द्वादशश्च वानवासिका । १०.३ ।
 
विश्लोकः पञ्चमाष्टमौ । १०.४ ।
 
चित्रा नवमश्च । १०.५ ।
 
परयुक्तेनोपचित्रा । १०.६ ।
 
एभिः पादाकुलकम् । १०.७ ।
 
गीत्यार्यालः । १०.८ ।
 
शिखा विपर्यस्तार्धा । १०.९ ।
 
लः पूर्वश्चेज्ज्योतिः । १०.१० ।
 
गश्चेत्सौम्या । १०.११ ।
 
चूलिकैकान्नत्रिंशदेकत्रिंशदन्तेग् । १०.१२ ।
 
साग्येननसमा लांग्ल इति।। । १०.१३ ।
 
----
 
वृत्तम् । ११.१ ।
 
सममर्धसमं विषमं च । ११.२ ।
 
समं तावत्कृत्वः कृतमर्धसमं विषमं च । ११.३ ।
 
राश्यूनम् । ११.४ ।
 
ग्लिति समानी । ११.५ ।
 
ल्गिति प्रमाणी । ११.६ ।
 
वितानमन्यत् । ११.७ ।
 
पादस्यानुष्टुप् वकाम् । ११.८ ।
 
न प्रथमात्स्नौ । ११.९ ।
 
द्वितीय चतुर्थयोरश्च । ११.१० ।
 
वान्यत् । ११.११ ।
 
यच्चतुर्थात्।११.१२
 
पथ्या युजोज् । ११.१३ ।
 
विपरीतैकीयम् । ११.१४ ।
 
चपला युजोन् । ११.१५ ।
 
विपुलायुग्लः सप्तमः । ११.१६ ।
 
सर्वतः सैतवस्य । ११.१७ ।
 
भ्रौन्तौ च । ११.१८ ।
 
प्रतिपादं चतुर्वृध्यापदचतुरूर्ध्वम् । ११.१९ ।
 
गावन्त आपीडः।। । ११.२० ।
 
----
 
गावादौ चेत्प्रत्यापीडः । १२.१ ।
 
प्रत्यापीडो गावादौ च । १२.२ ।
 
प्रथमस्य विपर्यासे मञ्जरीलवल्यमृतधाराः । १२.३ ।
 
उद्गतामेकतसजौ स्लौ न्सौ ज्गौ भ्नौ ज्लौ ग्स्जौ स्जौग् । १२.४ ।
 
तृतीयस्य सौरभकं नौभ्गौ । १२.५ ।
 
ललितं नौसौ । १२.६ ।
 
उपस्थितप्रचुपितं पृथगाद्यं सौज्भौगौ स्नौज्रौग्नौस्नौन्जौय् । १२.७ ।
 
वर्धमानं तृतीये नौस्नौन्सौ । १२.८ ।
 
शुद्धविराळृषभं तज्राः । १२.९ ।
 
अर्धे । १२.१० ।
 
उपचित्रकं सोस्लोग्भौभ्गौग्।१२.११
 
द्रुतमध्या भौभ्गौग्न्जौज्यौ । १२.१२ ।
 
वेगवती सौस्गौभौभ्गौग् । १२.१३ ।
 
भद्रविराट् त्जौर्गौम्सौज्गौग् । १२.१४ ।
 
केतुमती स्जौस्गौभ्रौन्गौग् । १२.१५ ।
 
आख्यानकी तौ ज्गौग् ज्तौ ज्गौग् । १२.१६ ।
 
विपरीताख्यानकी ज्तौज्गौग्तौज्गौग् । १२.१७ ।
 
हरिणप्लुता सौस्लौ ग्न्भौ भ्रौ । १२.१८ ।
 
अपरवक्त्रं नौर्लौग्न्जौ ज्रौ । १२.१९ ।
 
पुष्पिताग्रा नौर्यौन्जौज्रौग्।। । १२.२० ।
 
----
 
यवमती र्जौर्जौज्रौज्रौग् । १३.१ ।
 
शिखैकान्नत्रिंशदेकत्रिंशदन्तेग् । १३.२ ।
 
खञ्जा महत्ययुजीति।। । १३.३ ।
 
----
 
यतिर्विच्छेदः । १४.१ ।
 
तनुमध्या त्यौ । १४.२ ।
 
कुमारललिता ज्सौग् । १४.३ ।
 
माणवकाक्रीडितकं भ्तौल्गौ । १४.४ ।
 
चित्रपदा भौगौ । १४.५ ।
 
विद्युन्माला मौगौ । १४.६ ।
 
भुजगशिशुभृता नौम् । १४.७ ।
 
हलमुखी र्नौस् । १४.८ ।
 
शुद्ध विराण्म्सौज्गौ । १४.९ ।
 
पणवो म्नौय्गौ । १४.१० ।
 
रुक्मवती भ्मौस्गौ । १४.११ ।
 
मयूरसारिणी र्जौर्गौ । १४.१२ ।
 
मत्ता म्भौस्गौ । १४.१३ ।
 
उपस्थिता त्जौज्गौ । १४.१४ ।
 
एकरूपं सौज्गौग् । १४.१५ ।
 
इन्द्रवज्रा तौ ज्गौग् । १४.१६ ।
 
उपेन्द्रवज्रा ज्तौज्गौग् । १४.१७ ।
 
वाद्यन्ता उपजातयः । १४.१८ ।
 
दोधकं भौभ्गौग् । १४.१९ ।
 
शालिनी म्तौत्गौग्समुद्र ऋषयः।। । १४.२० ।
 
----
 
वातोर्मी म्भौत्गौग्च । १५.१ ।
 
भ्रमरविलसितं म्भौन्लौग् । १५.२ ।
 
रथोद्धता र्नौर्लौग् । १५.३ ।
 
स्वागता र्नौभ्गौग् । १५.४ ।
 
वृत्ता नौस्नौग् । १५.५ ।
 
श्येनी र्जौर्लौग् । १५.६ ।
 
जगती । १५.७ ।
 
वंशस्था ज्तौज्रौ । १५.८ ।
 
इन्द्रवंशा तौज्रौ । १५.९ ।
 
द्रुतविलम्बितं न्भौभ्रौ । १५.१० ।
 
तोटकं सः । १५.११ ।
 
पुटो नौम्यौ वसुसमुद्राः । १५.१२ ।
 
जलोद्धतगतिर्ज्सौ ज्सौ रसर्तवः । १५.१३ ।
 
भुजङ्ग प्रयातं यः । १५.१४ ।
 
स्रग्विणी रः । १५.१५ ।
 
प्रमिताक्षरा स्जौसौ । १५.१६ ।
 
वैश्वदेवी मौयाविन्द्रिय ऋषयः । १५.१७ ।
 
नवमालिनी न्जौभ्याविति ॥ । १५.१८ ।
 
----
 
प्रहर्षिणी म्नौ ज्रौग् त्रिक दशकौ । १६.१ ।
 
रुचिरा ज्भौस्जौग् समुद्रनवकौ । १६.२ ।
 
मत्तमयूरा म्तौ य्सौग् । १६.३ ।
 
असम्बाधा म्तौ न्सौ गाविन्द्रिय नवकौ । १६.४ ।
 
अपराजिता नौर्सौ ल्गौ स्वर ऋषयः । १६.५ ।
 
प्रहरणकलिता नौ भ्नौ ल्गौ च । १६.६ ।
 
वसन्ततिलका द्भौ जौ गौ । १६.७ ।
 
सिंहोन्नता काश्यपस्य । १६.८ ।
 
उद्धर्षिणी सैतवस्य । १६.९ ।
 
चन्द्रावर्ता नौनौस् । १६.१० ।
 
मालर्तुनवकौ चेत् । १६.११ ।
 
मणिगुणनिकरो वस्वृषयः । १६.१२ ।
 
मालिनी नौम्यौय् च । १६.१३ ।
 
ऋषभगजविलसितं भ्रौनौन्गौ स्वर नवकौ । १६.१४ ।
 
हरिणी न्सौम्रौस्लौग् रस समुद्र ऋषयः । १६.१५ ।
 
पृथ्वी ज्सौ ज्सौ य्लौग् वसु नवकौ । १६.१६ ।
 
वंशपत्रपतितं भ्रौ न्भौ न्लौग् दिगृषयः । १६.१७ ।
 
मन्दाक्रान्ता म्भौ न्तौ द्गौग् समुद्रर्तु स्वराः । १६.१८ ।
 
शिखरिणी य्मौभ्लौगृतु रुद्राः । १६.१९ ।
 
कुसुमितलतावेल्लिता म्तौ न्यौ याविन्द्रियर्तु स्वराः।। । १६.२० ।
 
----
 
शार्दूलविक्रीडितं म्सौ ज्सौ तौगादित्य ऋषयः । १७.१ ।
 
सुवदना म्नौ भ्नौ य्भौ ल्गौ स्वर ऋषि रसाः । १७.२ ।
 
ग्लिति वृत्तम् । १७.३ ।
 
स्रग्धरा म्रौ भ्नौ यौय् त्रिस्सप्तकाः । १७.४ ।
 
मद्रकं भ्रौन्रौ न्रौन्गौ दिगादित्याः । १७.५ ।
 
अश्वललितं न्जौ भ्जौ भ्जौ भ्लौग्रुद्रादित्याः । १७.६ ।
 
मत्ताक्रीडा मौत्नौ नौन्लौग्वसु पञ्चदशकौ । १७.७ ।
 
तन्वी भ्तौन्सौ भौन्यौ द्विरादित्याः । १७.८ ।
 
क्रौञ्चपदा भ्मौस्भौ नौनौग्भूतेन्द्रिय वस्वृषयः । १७.९ ।
 
भुजङ्गविजृम्भितं मौत्नौनौ र्सौ ल्गौ वसु रुद्र ऋषयः । १७.१० ।
 
अपवाहको म्नौनौनौ न्सौगौ नवकर्तु रसेन्द्रियाणि । १७.११ ।
 
दण्डको नौरः । १७.१२ ।
 
प्रथमश्चण्डवृष्टिप्रयातः । १७.१३ ।
 
अन्यत्रारातमाण्डव्याभ्याम् । १७.१४ ।
 
शेषः प्रचित इति।। । १७.१५ ।
 
----
 
अत्रानुक्तं गाथा । १८.१ ।
 
द्विकौ ग्लौ । १८.२ ।
 
मिश्रौ च । १८.३ ।
 
पृथग्लामिश्राः । १८.४ ।
 
वसवस्त्रिकाः । १८.५ ।
 
लर्धे । १८.६ ।
 
सैकेग् । १८.७ ।
 
प्रतिलोमगुणं द्विर्लाद्यम् । १८.८ ।
 
ततोग्येकं जह्यात् । १८.९ ।
 
द्विरर्धे । १८.१० ।
 
रूपं शुन्यम् । १८.११ ।
 
द्विः शून्ये । १८.१२ ।
 
तावदर्धे तद्गुणितम् । १८.१३ ।
 
द्विर्द्व्यूनम् । १८.१४ ।
 
तदन्तानाम् । १८.१५ ।
 
एकोनेद्धा । १८.१६ ।
 
परेपूर्णं परे पूर्णमिति।। । १८.१७ ।
 
----
 
 
</poem>
 
[[वर्गः:छन्दः]]
"https://sa.wikisource.org/wiki/पिङ्गलछन्दःसूत्रम्" इत्यस्माद् प्रतिप्राप्तम्