"जैमिनीयं ब्राह्मणम्/काण्डम् २/२६१-२७०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">प्रजापतिर् वावेदम् अग्र आसी... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २:
 
 
- श्वेतो लोमशस्तूपरो लप्सुद्य् अन्यतोदंश् चतुष्पाद् अजायत् तस्मिन् सर्वांणि रूपाणि पर्यपश्यन्। ते ऽब्रुवन्न् - इमानि वा अस्मिन् सर्वाणि रूपाणि। एतेमम् एवालभामहा इति। ते तम् आलभन्त। तेषां प्राण एवाश्रावयद् अपानः प्रत्याश्रावयत्। मन एव होतासीत्। प्रजापतिर् एव चतुर्थो ब्रह्मा दक्षिणत आस्त। तं प्रजापतेर् एव हृदये ऽग्नौ सर्वहुतम् अजुहवुः। तस्माद् धुताद् अग्निर् देवताजायत। तद् ऋचो वेदः। अनु वायुर् देवताजायत। तद् यजूंषि वेदः। अन्व् आदित्यो देवताजायत्। तत् सामानि वेदः। अन्व् एते च त्रयो देवानां श्रेष्ठा अजायन्तैताश् च तिस्रो विद्याः। शश्वद् धैतावद् एव प्रजापतिना सृष्टम्। अथैताभिर् एव देवताभिर् इदम् इतरत् सर्वम्। ते ऽब्रुवन् - येन नः पिता प्रजापतिर् यज्ञेनेष्ट्वारात्सीत् तेन यजामहा इति। ते तम् आहरन्त। तेषां वायुर् एवाश्रावयद्, आदित्यः प्रत्याश्रावयत्। अग्निर् एव होतासीत्। प्रजापतिर् एव चन्द्रमाश् चतुर्थो ब्रह्मा दक्षिणत आस्त॥2.262॥